Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 186, Verses 27–90
This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 186, verses 27–90 — the original Sanskrit shloka(s) with their Hindi meaning.
निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 186 · श्लोक 27
संस्कृत श्लोक
प्रलयोऽयमियं सृष्टिरयं स्वप्नो घनस्त्वयम् ।
भासोऽप्रतिघरूपस्य चित्सहस्ररुचेरिति ॥ २७ ॥
चिन्निद्रायाः स्वप्नमयो भागश्चित्तमुदाहृतम् ।
तदेव मुच्यते भूतं जीवो देवासुरादिदृक् ॥ २८ ॥
एष एव परिज्ञातः सुषुप्तिर्भवति स्वयम् ।
यदा तदा मोक्ष इति प्रोच्यते मोक्षकाङ्क्षिभिः ॥ २९ ॥
श्रीराम उवाच ।
चित्तं देवासुराद्यात्म चिन्निद्रा स्वात्मदर्शनम् ।
कियत्प्रमाणं भगवन्कथमस्योदरे जगत् ॥ ३० ॥
श्रीवसिष्ठ उवाच ।
विद्धि चित्तं नरं देवमसुरं स्थावरं स्त्रियम् ।
नागं नगं पिशाचादि खगकीटादिराक्षसम् ॥ ३१ ॥
प्रमाणं तस्य चानन्तं विद्धि तद्यत्र रेणुताम् ।
आब्रह्मस्तम्बपर्यन्तं जगद्याति सहस्रशः ॥ ३२ ॥
यदेतदादित्यपथादूर्ध्वं संयाति वेदनम् ।
एतच्चित्तं भूतमेतदपर्यन्तामलाकृति ॥ ३३ ॥
एतदुग्रं चितो रूपमस्यान्तर्भुवनर्द्धयः ।
यदायान्ति तदा सर्गश्चित्तादागत उच्यते ॥ ३४ ॥
चित्तमेव विदुर्जीवं तदाद्यन्तविवर्जितम् ।
खं घटेष्विव देहेषु चास्ते नास्ते तदिच्छया ॥ ३५ ॥
निम्नोन्नतान्भुवो भागान् गृह्णाति च जहाति च ।
सरित्प्रवाहोऽङ्ग यथा शरीराणि तथा मनः ॥ ३६ ॥
अस्य त्वात्मपरिज्ञानादेष देहादिसंभ्रमः ।
शाम्यत्याश्ववबोधेन मरुवाःप्रत्ययो यथा ॥ ३७ ॥
जगत्यन्तरणुर्यत्र तत्प्रमाणं हि चेतसः ।
सदेव च पुमांस्तस्मात्पुंसामन्तःस्थितं जगत् ॥ ३८ ॥
यावत्किंचिदिदं दृश्यं तच्चित्तं स्वप्नभूष्विव ।
तदेव च पुमांस्तस्मात्को भेदो जगदात्मनोः ॥ ३९ ॥
चिदेवायं पदार्थौघो नास्त्यन्यस्मिन्पदार्थता ।
व्यतिरिक्ता स्वप्न इव हेम्नीव कटकादिता ॥ ४० ॥
यथैकदेशे सर्वत्र स्फुरन्त्यापोऽम्बुधौ पृथक् ।
ब्रह्मण्यनन्या नित्यस्थाश्चितो दृश्यात्मिकास्तथा ॥ ४१ ॥
यथा द्रवत्वमम्भोधावापो जठरकोशगाः ।
स्फुरन्त्येवं विदोऽनन्याः पदार्थौघास्तथापरे ॥ ४२ ॥
यथास्थितजगच्छालभञ्जिकाकाशरूपधृक् ।
चित्स्तम्भोयमपस्पन्दः स्थित आद्यन्तवर्जितः ॥ ४३ ॥
यथास्थितमिदं विश्वं संविद्व्योम्नि व्यवस्थितम् ।
स्वरूपमत्यजच्छान्तं स्वप्नभूमाविवाखिलम् ॥ ४४ ॥
समता सत्यता सत्ता चैकता निर्विकारिता ।
आधाराधेयतान्योन्यं चैतयोर्विश्वसंविदोः ॥ ४५ ॥
स्वप्नसंकल्पसंसारवरशापदृशामिह ।
सरोब्धिसरिदम्बूनामिवान्यत्वं न वाथवा ॥ ४६ ॥
श्रीराम उवाच ।
वरशापार्थसंवित्तौ कार्यकारणता कथम् ।
उपादानं विना कार्यं नास्त्येव किल कथ्यताम् ॥ ४७ ॥
श्रीवसिष्ठ उवाच ।
स्ववदातचिदाकाशकचनं जगदुच्यते ।
स्फुरणे पयसामब्धावावर्तचलनं यथा ॥ ४८ ॥
ध्वनन्तोऽब्धिजलानीव भान्ति भावाश्चिदात्मकाः ।
संकल्पादीनि नामानि तेषामाहुर्मनीषिणः ॥ ४९ ॥
कालेनाभ्यासयोगेन विचारेण समेन च ।
जातेर्वा सात्त्विकत्वेन सात्त्विकेनामलात्मना ॥ ५० ॥
सम्यग्ज्ञानवतो ज्ञस्य यथा भूऽतार्थदर्शिनः ।
बुद्धिर्भवति चिन्मात्ररूपा द्वैतैक्यवर्जिता ॥ ५१ ॥
निरावरणविज्ञानमयी चिद्ब्रह्मरूपिणी ।
संवित्प्रकाशमात्रैकदेहादेहविवर्जिता ॥ ५२ ॥
सोऽयं पश्यत्यशेषेण यावत्संकल्पमात्रकम् ।
स्वमात्मकचनं शान्तमनन्यत्परमार्थतः ॥ ५३ ॥
अस्या इदं हि संकल्पमात्रमेवाखिलं जगत् ।
यथा संकल्पनगरं यथा स्वप्नमहापुरम् ॥ ५४ ॥
आत्मा स्वसंकल्पवरः स्ववदातो यथा यथा ।
यद्यथा संकल्पयति तथा भवति तस्य तत् ॥ ५५ ॥
संकल्पनगरे बालः शिलाप्रोड्डयनं यथा ।
सत्यं वेत्त्यनुभूयाशु स्वविधेयनियन्त्रणम् ॥ ५६ ॥
स्वसंकल्पात्मभूतेऽस्मिन्परमात्मा जगत्त्रये ।
वरशापादिकं सत्यं वेत्त्यनन्यत्तथात्मनः ॥ ५७ ॥
स्वसंकल्पपुरे तैलं यथा सिद्ध्यति सैकतात् ।
कल्पनात्सर्गसंकल्पैर्वरादीह तथात्मनः ॥ ५८ ॥
अनिरावरणज्ञप्तेर्यतः शान्ता न भेदधीः ।
ततः संकल्पनाद्वैताद्वराद्यस्य न सिद्ध्यति ॥ ५९ ॥
या यथा कलना रूढा तावत्साद्यापि संस्थिता ।
न परावर्तिता यावद्यत्नात्कल्पनयान्यया ॥ ६० ॥
ब्रह्मण्यवयवोन्मुक्ते द्वितैकत्वे तथा स्थिरे ।
यथा सावयवे तत्त्वे विचित्रावयवक्रमः ॥ ६१ ॥
श्रीराम उवाच ।
अनिरावरणाज्ञानात्केवलं धर्मचारिणः ।
शापादीन्संप्रयच्छन्ति यथा ब्रह्मंस्तथा वद ॥ ६२ ॥
श्रीवसिष्ठ उवाच ।
संकल्पयति यन्नाम सर्गादौ ब्रह्म ब्रह्मणि ।
तत्तदेवानुभवति यस्मात्तत्रास्ति नेतरत् ॥ ६३ ॥
ब्रह्म वेत्ति यदात्मानं स ब्रह्मायं प्रजापतिः ।
स च नो ब्रह्मणो भिन्नं द्रवत्वमिव वारिणः ॥ ६४ ॥
संकल्पयति यन्नाम प्रथमोऽसौ प्रजापतिः ।
तत्तदेवाशु भवति तस्येदं कल्पनं जगत् ॥ ६५ ॥
निराधारं निरालम्बं व्योमात्म व्योम्नि भासते ।
दुर्दृष्टेरिव केशोण्ड्रं दृष्टमुक्तावलीव च ॥ ६६ ॥
संकल्पिताः प्रजास्तेन धर्मो दानं तपो गुणाः ।
वेदाः शास्त्राणि भूतानि पञ्च ज्ञानोपदेशनाः ॥ ६७ ॥
तपस्विनोऽथ वादैश्च यद्ब्रूयुरविलम्बितम् ।
यद्यद्वेदविदस्तत्स्यादिति तेनाथ कल्पितम् ॥ ६८ ॥
इदं चिद्ब्रह्मच्छिद्रं खं वायुश्चेष्टाग्निरुष्णता ।
द्रवोऽम्भः कठिनं भूमिरिति तेनाथ कल्पिताः ॥ ६९ ॥
चिद्धातुरीदृशो वासौ यद्यत्खात्मापि चेतति ।
तत्तथानुभवत्याशु त्वमहं स इवाखिलम् ॥ ७० ॥
यद्यथा वेत्ति चिद्व्योम तत्तथा तद्भवत्यलम् ।
स्वप्ने त्वमहमादीव सदात्माप्यसदात्मकम् ॥ ७१ ॥
शिलानृतं यथा सत्यं संकल्पनगरे तथा ।
जगत्संकल्पनगरे सत्यं ब्रह्मण ईप्सितम् ॥ ७२ ॥
चित्स्वभावेन शुद्धेन यद्बुद्धं यच्च यादृशम् ।
तदशुद्धोऽन्यथा कर्तुं न शक्तः कीटको यथा ॥ ७३ ॥
अभ्यस्तं बहुलं संवित्पश्यतीतरदल्पकम् ।
स्वप्ने जाग्रत्स्वरूपे च वर्तमानेऽखिलं च सत् ॥ ७४ ॥
सदा चिद्व्योम चिद्व्योम्नि कचदेकमिदं निजम् ।
द्रष्टृदृश्यात्मकं रूपं पश्यदाभाति नेतरत् ॥ ७५ ॥
एकं द्रष्टा च दृश्यं च चिन्नभः सर्वगं यतः ।
तस्माद्यथेष्टं यद्यत्र दृष्टं तत्तत्र सत्सदा ॥ ७६ ॥
वाय्वङ्गस्पन्दनवज्जलाङ्गद्रवभाववत् ।
यथा ब्रह्मणि ब्रह्मत्वं तथाजस्याङ्गं जगत् ॥ ७७ ॥
ब्रह्मैवाहं विराडात्मा विराडात्मवपुर्जगत् ।
भेदो न ब्रह्मजगतोः शून्यत्वाम्बरयोरिव ॥ ७८ ॥
यथा प्रपाते पयसो विचित्राः कणपङ्कतयः ।
विचित्रदेशकालान्ता निपतन्त्युत्पतन्ति च ॥ ७९ ॥
निपत्त्यैवैकयाऽऽकल्पं मनोबुद्ध्यादिवर्जिताः ।
आत्मन्येवात्मनो भान्ति तथा या ब्रह्मसंविदः ॥ ८० ॥
ताभिः स्वयं स्वदेहेषु बुद्ध्यादिपरिकल्पनाः ।
कृत्वोररीकृता सर्गश्रीरद्भिर्द्रवता यथा ॥ ८१ ॥
तदेवं जगदित्यऽस्ति दुर्बोधेन मम त्विदम् ।
अकारणकमद्वैतमजातं कर्म केवलम् ॥ ८२ ॥
अस्तस्थितिः शरीरेऽस्मिन्यादृग्रूपानुभूयते ।
उपलादौ जडा सत्ता तादृशी परमात्मनः ॥ ८३ ॥
यथैकस्यां सुनिद्रायां सुषुप्तस्वप्नकौ स्थितौ ।
तथैते सर्गसंहारभासौ ब्रह्मणि संस्थिते ॥ ८४ ॥
सुषुप्तस्वप्नयोर्भातः प्रकाशतमसी यथा ।
एकस्यामेव निद्रायां सर्गासर्गौ तथा परे ॥ ८५ ॥
यथा नरोऽनुभवति निद्रायां दृषदः स्थितिम् ।
परमात्मानुभवति तथैतज्जडसंस्थितिम् ॥ ८६ ॥
अङ्गुष्ठस्याथवाङ्गुल्या वाताद्यस्पर्शने सति ।
योऽन्यचित्तस्यानुभवो दृषदादौ स आत्मनः ॥ ८७ ॥
व्योमोपलजलादीनां यथा देहानुभूतयः ।
तथास्माकमचित्तानामद्य नानानुभूतयः ॥ ८८ ॥
TODO
TODO
हिन्दी अर्थ
अब मायासहित ब्रह्मतत्त्व का निष्कर्ष निकालकर उपसंहार करते है।
जो-जो वस्तु जब जब जिस प्रकार से भासित होती है ओर प्राणियों से उसका अनुभव किया जाता
है वह वह वस्तु उस उस समय केवल सर्वघन आत्मा ही उस रूप से है अर्थात् सर्वघन आत्मा ही सब
प्राणियों के लिये सभी समय सर्व-भाव रूप से बोध का विषय है । अणुमात्र भी उससे भिन्न किसी से
कहीं किसी प्रकार अनुभूत नहीं होता | इस प्रकार आदि अन्त से विहीन ब्रह्म ही सब कुछ है