Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 183, Verses 53–70
This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 183, verses 53–70 — the original Sanskrit shloka(s) with their Hindi meaning.
निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 183 · श्लोक 53
संस्कृत श्लोक
अणावपि जगन्माति यत्र तत्र गृहोदरे ।
सप्तद्वीपा वसुमती कचतीति किमद्भुतम् ॥ ५३ ॥
यद्भातीदं च चित्तत्त्वं जगत्त्वं न जगत्क्वचित् ।
चिन्मात्रमेव तद्भाति शून्यत्वेन यथाम्बरम् ॥ ५४ ॥
इति ते ब्रह्मणा प्रोक्ता वरदेन वरास्ततः ।
तानाधिभौतिकभ्रान्तिमयान्संत्यज्य देहकान् ॥ ५५ ॥
प्रणम्याजं समं जग्मुरातिवाहिकदेहिनः ।
सप्तद्वीपे च देवानां गृहकोशान्कचज्जनान् ॥ ५६ ॥
यावत्ते तत्र संपन्नाः सप्तद्वीपाधिनायकाः ।
अष्टावपीष्टापुष्टानां दिनाष्टकमहीभुजाम् ॥ ५७ ॥
ते परस्परमज्ञाता अज्ञाश्चान्योन्यबन्धवः ।
अन्योन्यभूमण्डलगा अन्योन्याभिमते हिताः ॥ ५८ ॥
तेषां कश्चिद्गृहस्यान्तरेव तारुण्यसुन्दरः ।
उज्जयिन्यां महापुर्यां राजधान्यां सुखे स्थितः ॥ ५९ ॥
शाकद्वीपास्पदः कश्चिन्नागलोकजिगीषया ।
विचरत्यब्धिजठरे सर्वदिग्विजयोद्यतः ॥ ६० ॥
कुशद्वीपराजधान्यां निराधिः सकलप्रजाः ।
कृतदिग्विजयः कश्चित्सुप्तः कान्तावलम्बितः ॥ ६१ ॥
शाल्मलिद्वीपशैलेन्द्रशिरःपुर्याः सरोवरे ।
जललीलारतः कश्चित्सहविद्याधरीगणैः ॥ ६२ ॥
क्रौञ्चद्वीपे हेमपुरे सप्तद्वीपविवर्धिते ।
प्रवृत्तो वाजिमेधेन कश्चिद्यष्टुं दिनाष्टकम् ॥ ६३ ॥
उद्यतः शाल्मलिद्वीपे कश्चिद्द्वीपान्तचारिणा ।
योद्धुमुद्धृतदिग्दन्तिदन्ताकृष्टकुलाचलः ॥ ६४ ॥
गोमेदद्वीपकः कश्चित्पुष्करद्वीपराट् सुताम् ।
समानेतुं वशाद्याति कषत्सेनोऽष्टमोऽभवत् ॥ ६५ ॥
पुष्करद्वीपकः कश्चिल्लोकालोकाद्रिभूभुजः ।
दूतेन सह निर्यातो धनभूमिदिदृक्षया ॥ ६६ ॥
प्रत्येकमित्थमेतेषां द्वीपद्वीपाधिनाथताम् ।
कुर्वतां स्वगृहाकाशे दृष्ट्वा स्वप्रतिभोचिताम् ॥ ६७ ॥
त्यक्ताभिमानिकाकारा द्विविधा वरास्ततः ।
तत्संविद्भिर्गृहेष्वन्तरेकतां खानि खैरिव ॥ ६८ ॥
यास्यन्ति ते भविष्यन्ति संप्राप्ताभिमताश्चिरम् ।
सप्तद्वीपेश्वरास्तुष्टा नन्वष्टावपि तुष्टिमत् ॥ ६९ ॥
इत्येते प्रविकसितोदितक्रियार्थाः प्राप्स्यन्ति प्रविततबुद्धयस्तपोभिः ।
अन्तर्यत्स्फुरति विदस्तदेव बाह्ये नाप्तं कैस्तदुचितकर्मभिः किलेति ॥ ७० ॥
हिन्दी अर्थ
इस प्रकार अन्यत्र भी (इस मायामय जगत् में भी) लाखों असमंजसों का संभव है, ऐसा कहते हैं।
जैसे आकाश में उत्पातवश गन्धर्वनगर, धूमकेतु, कबन्ध, उल्का आदि दृश्यों का विकास होता है
वैसे ही चिदाकाश के संकल्पभूत सर्वथाशून्य दृश्यरूप इस महानगर में लाखों असमंजस होते हैं