Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 180, Verses 21–41
This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 180, verses 21–41 — the original Sanskrit shloka(s) with their Hindi meaning.
निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 180 · श्लोक 21,22
संस्कृत श्लोक
इत्युक्तवान्प्रयत्नेन सोऽनुबन्धेन वै मया ।
यदा पृष्टस्तदा तेन ममोक्तमिदमुत्तरम् ॥ २१ ॥
मथुरायामहं जातो वृद्धिं यातः पितुगृहे ।
बाल्ययौवनयोर्मध्ये स्थितः पदपदार्थवित् ॥ २२ ॥
समग्रसुखसंभारकोशो भवति भूमिपः ।
इत्यहं श्रुतवांस्तत्र भोगार्थी नवयौवनः ॥ २३ ॥
अथ सप्तमहाद्वीपविस्तीर्णाया भुवः पतिः ।
स्यामित्यहमुदारात्मा परिबिम्बितवांश्चिरम् ॥ २४ ॥
इत्यर्थेन समागत्य देशमित्थमहं स्थितः ।
अत्र द्वादश वर्षाणि समतीतानि मानद ॥ २५ ॥
तदकारणमित्र त्वं गच्छेष्टं देशमाशुगः ।
अहं चाभिमतप्राप्तेरित्थमेव दृढस्थितिः ॥ २६ ॥
इति तेनाऽहमुक्तः संस्तमित्थं प्रोक्तवाञ्छृणु ।
आश्चर्यश्रवणे चेतः खेदमेति न धीमतः ॥ २७ ॥
साधो यावत्त्वया प्राप्तो न नामाभिमतो वरः ।
त्वद्रक्षापरिचर्यार्थमिह तावदहं स्थितः ॥ २८ ॥
मयेत्युक्ते स पाषाणमौनवानभवच्छमी ।
निमीलितेक्षणः क्षीणरूपस्त्वकलनो बहिः ॥ २९ ॥
तथाहं पुरतस्तस्य काष्ठमौनवतोऽवसम् ।
षण्मासान्विगतोद्वेगं वेगान्कालकृतान्सहन् ॥ ३० ॥
अर्कबिम्बाद्विनिष्कम्य तत्प्रदेशान्तरे स्थितम् ।
एकदा दृष्टवानस्मि पुरुषं भानुभास्वरम् ॥ ३१ ॥
स तेन पूज्यते यावन्मनसा कर्मणा मया ।
उवाच तावद्वचनममृतस्यन्दसुन्दरम् ॥ ३२ ॥
शाखाप्रलम्बनपर हे ब्रह्मन्दीर्घतापस ।
तपः संहर संहारि गृहाणाभिमतं वरम् ॥ ३३ ॥
सप्ताब्धिद्वीपवलया पालयिष्यसि मेदिनीम् ।
सप्तवर्षसहस्राणि देहेनानेन धर्मतः ॥ ३४ ॥
एवं समीहितं दत्त्वा स द्वितीयो दिवाकरः ।
गन्तुमस्तमथार्काब्धिमविशत्प्रोदितो यतः ॥ ३५ ॥
तस्मिन्याते मया प्रोक्तं तस्य शाखातपस्विनः ।
श्रुतदृष्टानुभूताग्र्यवरदस्य विवेकिनः ॥ ३६ ॥
संप्राप्ताभिमतं ब्रह्मंस्तरुशाखावलम्बनम् ।
तपस्त्यक्त्वा यथाप्राप्तं व्यवहारं समाचर ॥ ३७ ॥
एवमङ्गीकृतवतः पादौ तस्य मया ततः ।
मुक्तौ विटपिनस्तस्मादालानात्कालभाविव ॥ ३८ ॥
स्नातः पवित्रहस्तोऽसौ चक्रे जप्त्वाघमर्षणम् ।
फलेन पुण्यलब्धेन विटपाद्व्रतपारणम् ॥ ३९ ॥
तत्पुण्यवशतः प्राप्तैः स्वादुभिस्तैस्तरोः फलैः ।
समाश्वस्तावसंक्षुब्धावावां तत्र दिनत्रयम् ॥ ४० ॥
सप्तद्वीपसमुद्रमुद्रितदिश भोक्तुं समग्रां महीं विप्रः पादपलम्बितेन वपुषा तप्त्वोर्ध्वपादस्तपः ।
संप्राप्याभिमतं वरं दिनकृतो विश्वस्य चाह्नां त्रयं सार्धं मत्सुहृदा स्वमेवसदनं गन्तुं प्रवृत्तोऽभवत् ॥ ४१ ॥
हिन्दी अर्थ
अनेक दीप प्रभाओ के एकवद् भान की तरह एक ही मायाशक्ति का अनेकधा भान हो सकता है,
यह कहते है ।
जैसे बहुत दीपकोवाले घर में बहुत-सी छायाएँ (कान्तियाँ) एकवत् प्रतीत होती हैं वैसे ही
सर्वशक्ति परमात्मा की एक शक्ति (माया) भी अनेकरूप प्रतीत होती हे । आकाश में भ्रान्ति से
वृक्ष-समूह के स्फुरण की भाँति इस ब्रह्मरूप समुद्र मेँ जो सीकर-स्फुरण है वही यह सृष्टि है । अन्तर
केवल इतना ही है कि आकाश में जो वृक्ष-समूह है वह आकाशधर्म शून्यता से अनुविद्धरूप से
स्फुरण न होने के कारण अत्यन्त भिन्नरूप है और ब्रह्म समुद्र मेँ यह स्फुरित हो रहा सर्गविन्दु
किंचिन्मात्र भी भिन्न नहीं हे