Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 168, Verses 46–60
This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 168, verses 46–60 — the original Sanskrit shloka(s) with their Hindi meaning.
निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 168 · श्लोक 46
संस्कृत श्लोक
इयं ब्रह्मकला सेह चिन्मात्रकलना त्वियम् ।
इयं चितिरियं जीवस्त्वहंकारस्त्वसाविति ॥ ४६ ॥
इयं बुद्धिरियं चित्तमयं काल इदं नभः ।
अयं सोऽहं क्रिया चेयमिदं तन्मात्रपञ्चकम् ॥ ४७ ॥
इन्द्रियाणामिदं वृन्दं पुर्यष्टकमिदं स्मृतम् ।
इहातिवाहिको देहस्तथायं चाधिभौतिकः ॥ ४८ ॥
ब्रह्माहं शंकरश्चाहमुपेन्द्रोऽहमहं रविः ।
इदं बाह्यमिदं चान्तरयं सर्ग इदं जगत् ॥ ४९ ॥
इत्यादिकलनाजालं चिद्व्योमैवातिनिर्मलम् ।
तस्मात्क्वैते पदार्थौघाः क्व स्मृतिः क्व द्वयैकते ॥ ५० ॥
अकारणकमेवेति जगदाभोगिखण्डकः ।
सर्गादौ स्वप्नवद्भाति खे खात्मैव विकारिवत् ॥ ५१ ॥
व्योम्न्येव कचति व्योम चिन्मये चिन्मयं हि यत् ।
बुद्धं तदेव तेनैव जगद्वोधात्क्व तज्जगत् ॥ ५२ ॥
क्व स्मृतिः क्व च वा स्वप्नः क्व कालाः कलनाश्च काः ।
चिदाभानमिदं भाति शान्तं शून्यमिवाम्बरे ॥ ५३ ॥
यदन्तश्चिद्धनस्यास्ति तद्वहिर्भूततां गतम् ।
वस्तुतस्तु न तद्बाह्यं नान्तः सन्मात्रकादृते ॥ ५४ ॥
निरस्तावयवाच्छान्तादनाख्याद्यत्प्रवर्तते ।
अकारणं भवेद्भूतं तदन्धाः कथमन्यथा ॥ ५५ ॥
तस्माद्यादृक्परं ब्रह्म तादृग्दृश्यमिदं परम् ।
यदेव चिन्नभः स्वप्ने तदेव स्वप्नपत्तनम् ॥ ५६ ॥
न किंचित्किंचनापीदं दृश्यमस्ति मनागपि ।
क्व रजः पूर्णजलधौ क्व दृश्यं परमाम्बरे ॥ ५७ ॥
तच्चेदं भाति वा किंचित्तच्चिन्मात्रमचेत्यकम् ।
अकचत्त्वेव संशान्तमात्मनीत्थमवस्थितम् ॥ ५८ ॥
पूर्णाद्वै ब्रह्मणः पूर्णमप्यनुद्धतमुद्धृतम् ।
इवेदं भाति भारूपमाभानं परमात्मकम् ॥ ५९ ॥
इत्थं मयि प्रकथयत्यनुभूयभानमप्युच्चकैर्बत जनस्य विमूढतान्तः ।
स्वप्ने जगद्वपुषि जाग्रदिति प्रतीतिं नाद्यापि यत्त्यजति नाम विदन्नपि द्राक् ॥ ६० ॥
हिन्दी अर्थ
इसलिए सम्यक् विचार
से निर्मल हुई बुद्धि से अन्दर संकल्पकरणरूप प्रचुर विकल्पों को हटाकर मनको सकल शास्त्रों के
निष्कर्षसिद्ध महार्थभूत सच्चिदानन्द अद्वितीय आत्मा में संलग्न कर यानी आत्मनिष्ठ होकर आप इस
संसार से उड़कर मोक्षरूप उत्तम पद को प्राप्त होड्ये