Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 163, Verses 29–56
This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 163, verses 29–56 — the original Sanskrit shloka(s) with their Hindi meaning.
निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 163 · श्लोक 29
संस्कृत श्लोक
जीवादिकचनं त्वत्र यद्भातीदं तदेव तत् ।
शून्यतैव भवेद्व्योम वार्येवावर्तवृत्तयः ॥ २९ ॥
यथावयविनो रूपमेकं सावयवं भवेत् ।
एकं जीवाद्यवयवं ब्रह्मानवयवं तथा ॥ ३० ॥
आभासमात्रं दृश्यात्म चिन्मात्रं शान्तमव्ययम् ।
स्थितमास्थाः किमेतस्मिन्स्वभावे स्वे विचार्यते ॥ ३१ ॥
नाद्यन्तमन्तःकलनाः काश्चित्सन्ति परे पदे ।
तद्रूपमेवाविद्येयं नाविद्या त्विह विद्यते ॥ ३२ ॥
जीवः स्वप्नाद्विशञ्जाग्रज्जाग्रतः स्वप्नमाविशन् ।
प्रबुद्धो वास्त्वबुद्धो वाप्येकरूपतया स्थितः ॥ ३३ ॥
स्थिते सुषुप्ततुर्ये द्वे सदा स्वप्नेऽथ जाग्रति ।
जाग्रत्स्वप्नावेकमेव तुर्यं वेत्ति तु बुद्धधीः ॥ ३४ ॥
जाग्रत्स्वप्नः सुषुप्तं च सर्वं तुर्यं प्रबोधिनः ।
नाविद्या विद्यते तस्य द्वयस्थोऽप्येव सोऽद्वयः ॥ ३५ ॥
द्वैतमद्वैतमित्येतदहंत्वमिदमित्यपि ।
निरविद्यस्य कलना कुतः काप्यम्बरं कुतः ॥ ३६ ॥
द्वैताद्वैतसमुद्भेदैर्वाक्यसंदर्भविभ्रमैः ।
क्रीडन्त्यबुद्धाः शिशवो बोधवृद्धा हसन्ति तान् ॥ ३७ ॥
द्वैताद्वैतविवादेहा हृदयाकाशमञ्जरी ।
विनैतयेह नोदेति प्रबोधाकाशमार्जनम् ॥ ३८ ॥
सुहृद्भूत्वा विवादेन द्वैताद्वैतविचारणा ।
कृता हृदयगेहेऽन्तरविद्याभस्ममार्जनी ॥ ३९ ॥
तच्चित्तास्तद्गतप्राणा बोधयन्तः परस्परम् ।
कथयन्तश्च तन्नित्यं तुष्यन्ति च रमन्ति च ॥ ४० ॥
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
जायते बुद्धियोगोऽसौ येन ते यान्ति तत्पदम् ॥ ४१ ॥
किलोपकुरुते यत्नात्तृणमात्रावगोपने ।
कथं सिध्यत्ययत्नेन त्रैलोक्यगणगोपनम् ॥ ४२ ॥
अध्यात्मव्यसनोन्मुक्तं ततं हृत्स्थाऽधमाऽप्रभु ।
उपहासास्पदं यस्या जगदप्युत्तमस्थितेः ॥ ४३ ॥
किं नामेदं किल सुखं यद्राज्यादिमनोङ्कुरम् ।
तत्त्वज्ञानैकविश्रान्तौ देवराजपदं तृणम् ॥ ४४ ॥
सुप्ताः प्रबुद्धाः पश्यन्ति दृश्यं दृश्ये रता यथा ।
तथा दृश्येऽरताः शान्ताः सन्तः पश्यन्ति तत्पदम् ॥ ४५ ॥
विना यत्नभरेणेदं न कदाचन सिद्ध्यति ।
महतोऽभ्यासवृक्षस्य फलं विद्धि परं पदम् ॥ ४६ ॥
इदं बहूक्तमेतेन किमेतेनेति दुर्मतिः ।
न ग्राह्यैतावताप्युक्ते नादत्ते नेदमज्ञधीः ॥ ४७ ॥
भूयोभूयः परावृत्त्या चिरमास्वाद्यते यदि ।
श्रूयते कथ्यते चेदं तज्ज्ञेनाज्ञेन भूयते ॥ ४८ ॥
यस्त्वेकवारमालोक्य दृष्टमित्येव संत्यजेत् ।
इदं स नाम शास्त्रेभ्यो भस्माप्याप्नोति नाधमः ॥ ४९ ॥
इदमुत्तममाख्यानमध्येयं वेदवत्सदा ।
व्याख्येयं पूजनीयं च पुरुषार्थफलप्रदम् ॥ ५० ॥
यदस्मात्प्राप्यते शास्त्रात्तत्तद्वेदादवाप्यते ।
अस्मिन्ज्ञाते क्रिया ज्ञानं द्वयं याति पवित्रताम् ॥ ५१ ॥
वेदान्ततर्कसिद्धान्तस्त्वस्मिन्ज्ञाते च बुध्यते ।
इदमुत्तममाख्यानं व्याख्यातं शास्त्रदृष्टिषु ॥ ५२ ॥
कारुण्याद्भवतामेतदहं वच्मि न मायया ।
भवन्तस्त्ववगच्छन्ति मायामेतद्विचार्यताम् ॥ ५३ ॥
अस्माच्छास्त्रवराद्वोधा जायन्ते ये विचारितात् ।
लवणैर्व्यञ्जनानीव भान्ति शास्त्रान्तराणि तैः ॥ ५४ ॥
अनार्यमिदमाख्यानमित्यनादृत्य दृश्यधीः ।
मा भवंत्वात्महन्तारो भवन्तो भवभागिनः ॥ ५५ ॥
तातस्य कूपोऽयमिति ब्रुवाणाः क्षारं जलं कापुरुषाः पिबन्ति ।
यथा भवन्तो विविचारवन्तस्तथानिशं मा भवताज्ञताप्त्यै ॥ ५६ ॥
हिन्दी अर्थ
वह तत्त्वज्ञान मन के साथ इन्द्रियोपर विजय पाये बिना नहीं पराप्त हो सकता, यह दिखलाते हुए
उपसंहार करते हैं।
जन्म के ज्वररूप काम, क्रोध आदि वनाग्नि से जले हुए जीवनरूप जंगलों में मृगों के सदूश कभी
तृण, पत्ते आदि इष्ट का लाभ होने और कभी इष्ट का लाभ न होने से शिथिल हुए मतवाले मन और
प्राणवायु के बाहर संचरण से युक्त इन इन्द्रियों को जीतकर ज्ञान द्वारा अविद्यापर विजय प्राप्त कीजिये ।
अविद्यापर विजय द्वारा मुक्ति पाकर पुनर्जन्म का निवारण कीजिये