Guru's AddaGuru's Adda

Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 155, Verses 18–56

This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 155, verses 18–56 — the original Sanskrit shloka(s) with their Hindi meaning.

निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 155 · श्लोक 18

संस्कृत श्लोक

मार्गयिष्यसि तस्य त्वं वरदस्य वरं वर । इदमुद्दामदौरात्म्यान्निजं संदेहसंशयम् ॥ १८ ॥ देवायं दृश्यरूपेऽस्मिन्दृष्टेऽविद्याभ्रमे सति । क्वचिदादर्शवन्नास्ति प्रतिबिम्बमलोज्झितः ॥ १९ ॥ चिद्व्योमदर्पणस्यास्य परमाण्वाकृतेरपि । अन्तस्थस्यैव वा यत्र तत्रेदं प्रतिबिम्बति ॥ २० ॥ तस्मात्कियदनन्तं स्यादिदं दृश्यमनर्थकृत् । तस्य पारे कियद्वा स्यादाकाशं दृश्यमेव तत् ॥ २१ ॥ एवमर्थमहं ज्ञातुमिमं संप्रार्थये वरम् । श्रृणु देवेश्वराविघ्नं तथैवाशु प्रयच्छ मे ॥ २२ ॥ इयं स्वच्छन्दमृत्युर्मे नीरोगाऽस्तु तनुश्चिरम् । गारुडेन च वेगेन संयुता व्योमगामिनी ॥ २३ ॥ प्रतिनाडीकमेषा तु वृद्धिं गच्छतु योजनम् । क्रमेण जगतो बाह्ये भवत्वाकाशरूपिणी ॥ २४ ॥ साकाशस्यास्य दृश्यस्य लभेय परमेश्वर । अन्तमित्थमनन्तस्य परमोऽस्त्विति मे वरः ॥ २५ ॥ इति साधो त्वया प्रोक्ते देवदेवो वरं प्रभुः । एवमस्तु तवेत्युक्त्वा यास्यत्यन्तर्धिमीश्वरः ॥ २६ ॥ गते तस्मिन्महादेवे देवैः सह दिवस्पतौ । तपसा ते कृशो देहश्चन्द्रकान्तिर्भविष्यति ॥ २७ ॥ मामापृच्छन्नमस्कृत्य तस्मिन्नेव क्षणे ततः । प्लुतिमेष्यति स व्योम्नि चित्तस्थार्थदिदृक्षया ॥ २८ ॥ द्वितीय इव शीतांशुर्द्वितीय इव भास्करः । द्वितीय इव वौर्वाग्निश्चन्द्रार्कस्पर्धयोत्थितः ॥ २९ ॥ ततो गरुडवेगेन दृश्यस्य नभसस्तथा । अन्तं प्राप्तुं वहन्वेगाज्जगतः सरितामिव ॥ ३० ॥ जगतोन्ते ततोऽजस्रं ततो वर्धिष्यते वपुः । कल्पान्तमत्तार्णववन्निष्पाराम्बरपूरणम् ॥ ३१ ॥ द्रक्ष्यस्यथ महाव्योन्नि वर्धमानो बृहद्वपुः । सर्गान्निरर्गलाधारनिरन्तगगनक्रमात् ॥ ३२ ॥ परमार्थमहाकाशशून्यतावातचक्रकान् । स्वभावद्रवतोद्देशाच्चिदर्णवतरङ्गकान् ॥ ३३ ॥ संविद्धने यथा स्वप्ने पुराद्या भान्ति खात्मकाः । तथा तदा तवैष्यन्ति सर्गवर्गा निरर्गलाः ॥ ३४ ॥ विस्फुरन्ति महाव्योम्नि पर्णौघाः क्षुभितानिलैः । तथा सर्गाननन्तांस्त्वं द्रक्ष्यस्यक्षीणनिश्चयः ॥ ३५ ॥ सभासत्येक्षणरुचां यथा जालं सदप्यसत् । जगदात्म तथाकाशसंविदां खे सदप्यसत् ॥ ३६ ॥ सर्वोर्वीजनदृष्टानां लग्नानामिन्दुमण्डले । यादृग्जालं जगत्तादृक्स्थितेऽनन्यत्वमात्मनः ॥ ३७ ॥ पुनः सर्गः पुनर्व्योम पुनः सर्गः पुनर्नभः । इत्येवं पश्यतस्तेऽत्र दीर्घकालः प्रयास्यति ॥ ३८ ॥ अथ दीर्घेण कालेन प्रस्फुरन्सर्गपर्णके । उद्वेगमेष्यसि व्योम्नि महामहिमनि स्वयम् ॥ ३९ ॥ उद्वेगमेष्यसि ततस्तपसोऽनुभवत्फलम् । निर्देक्ष्यसि तदा देहमनन्ताम्बरपूरकम् ॥ ४० ॥ किमिदं कुशरीरं मे भारभूतमिव स्थितम् । मेर्वादिभूभृतां लक्षमपि यस्मिंस्तृणायते ॥ ४१ ॥ देहो ममाप्रमाणोऽयं व्याप्तं व्योम मयाखिलम् । पूरयामि खमद्यापि भावि नैवोपगम्यते ॥ ४२ ॥ अविद्या बत घोरेयमनन्ता च प्रमीयते । मीयते न च केनापि ब्रह्मज्ञानं समं विना ॥ ४३ ॥ तमिमं संत्यजाम्येव देहमाविवृतान्तरम् । नानेन किंचिदाप्नोमि साधुसच्छास्त्रसंगमम् ॥ ४४ ॥ अनन्तापारपर्यन्तं निरालम्बाम्बरास्पदम् । किं नामेदं शरीरं मे सुदुष्प्रापार्थसंगमम् ॥ ४५ ॥ इति संचिन्त्य तं देहं धारणां प्राणरेचनीम् । कृत्वा त्यक्ष्यसि संभुक्तात्फलाच्छुष्कं यथा खगः ॥ ४६ ॥ कृत्वा देहपरित्यागं जीवः प्राणसमन्वितः । व्योम्नि स्थास्यति ते तस्मिन्वातात्सूक्ष्मोऽपि वातवत् ॥ ४७ ॥ छिन्नपक्षो महामेरुरिव देहः पतिष्यति । तत्र भूलोकशैलादि सर्वं चूर्णीकरिष्यति ॥ ४८ ॥ शुष्का भगवती देहं तत्तदा भक्षयिष्यति । समातृमण्डला तेन निर्दोषा भूर्भविष्यति ॥ ४९ ॥ इत्यात्मोदन्तमखिलं श्रुतवानसि सुव्रत । तपस्तालीवने कृत्वा यथेच्छसि तथा कुरु ॥ ५० ॥ व्याध उवाच । अहो नु भगवन्दुःखं परिभोक्तव्यमक्षयम् । मया व्यर्थमनर्थाय यदर्थेन दुरर्थितम् ॥ ५१ ॥ विद्यते किं विभो काचिद्युक्तिः सैषा स्थितिर्वर । अन्यथा भवितव्योऽर्थो यदि नास्ति तदुच्यताम् ॥ ५२ ॥ मुनिरुवाच । अवश्यंभवितव्योऽर्थो न कदाचन केनचित् । विधातुमन्यथा शक्यस्तन्न क्षरति यत्नतः ॥ ५३ ॥ वामावामशिरःपादविपर्ययविधौ यथा । पुंसो न विद्यते शक्तिस्तथा भाव्यन्यथास्थितौ ॥ ५४ ॥ ज्योतिःशास्त्रार्थविज्ञानैरिह भाव्यर्थवेदनम् । भवत्यन्यदपूर्वं तु न किंचन कदाचन ॥ ५५ ॥ जयन्ति कर्माणि हि वेदनानि यैः प्राकृतैरद्यतनान्युपेत्य । शरीरदाहैरपि निर्विकारसंविन्नयैर्ब्रह्मतयैव सुप्तम् ॥ ५६ ॥

हिन्दी अर्थ

अपने द्वारा उक्त अर्थ मे भगवद्वचन की संमति दिखलाते है। अन्दर अभिमान और मोह से रहित और बाहर संगदोषोंपर विजय पाये हुए, अन्दर ओर बाहर नित्य आत्मा में लीन, चारों ओर आनन्दरूप आत्मा का पूर्ण ज्ञान होने से सकल कामनाओं से विहीन तथा प्रिय-अप्रिय आदि द्वन्दो से, जिनसे सुख-दुःख का भलीभाँति ज्ञान होता है, सर्वथा निर्मुक्त तत्त्वज्ञानी लोग विष्णुभगवान्‌ के निर्वाणनामक परमपद को प्राप्त होते हैं