Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 139, Verses 36–67
This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 139, verses 36–67 — the original Sanskrit shloka(s) with their Hindi meaning.
निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 139 · श्लोक 36,37
संस्कृत श्लोक
क्षिप्तस्तरङ्गजालेन योजनाद्योजनव्रजे ।
उह्यमानद्रुमशिखाज्वालान्तरितजर्जरः ॥ ३६ ॥
काष्ठकुड्यतटीपीठकटुसंघट्टघट्टितः ।
आवर्तनृत्यपातालतले गत्वोत्थितश्चिरात् ॥ ३७ ॥
चलाचलागमापायवलद्गुलुगुलारवे ।
जले बहुलकल्लोले मग्नोन्मग्नः पुनः पुनः ॥ ३८ ॥
संघट्टभग्नशैलेन्द्रपङ्किले सलिले क्षणम् ।
पल्वले वारण इव मग्नः सत्पयसोद्धृतः ॥ ३९ ॥
यावदाश्वसिमि क्षिप्रं डिण्डीरे चाद्रिखण्डके ।
तावदेत्य हतो वेगाद्वैरिणेवातिवारिणा ॥ ४० ॥
नानावलनकल्लोलजलजालजुषा तदा ।
न तदस्ति न यद्दृष्टं दुःखं दुःखात्मना मया ॥ ४१ ॥
एतस्मिन्नन्तरे तत्र तदा तत्तामसेक्षण ।
यावज्जीवचिराभ्यासाद्विषादित्वात्सचेतसः ॥ ४२ ॥
प्राक्तनं संस्मृते रूपं स्वं समाधिमयं मया ।
आ अहो नु जगत्यन्यरूपेऽहं तापसः स्थितः ॥ ४३ ॥
अहं कस्यचिदन्यस्य स्वप्नदृष्टिदिदृक्षया ।
प्रविष्टोऽहमयं स्वप्ने पश्यामीमं भ्रमं त्विति ॥ ४४ ॥
वर्तमानदृढाभ्यासमिथ्याज्ञानमयात्मनि ।
कल्लोलैरुह्यमानोऽपि ततोऽहं सुखितः स्थितः ॥ ४५ ॥
इदं वारितयापश्यं प्रलयाब्धिविवर्तनाः ।
उह्यमानाद्रिनगरग्रामोर्वीखण्डपादपाः ॥ ४६ ॥
उह्यमानामराहीन्द्रनारीनरनभश्चराः ।
उह्यमानमहारम्भलोकपालपुरालयाः ॥ ४७ ॥
अथाहमद्रिमिश्राम्बुकल्लोलाद्रिविघट्टनाः ।
मुहुः पश्यञ्जगन्नाशमनन्तरमचिन्तयम् ॥ ४८ ॥
चित्रमेष त्रिनेत्रोऽपि जीर्णं तृणमिवार्णवे ।
उह्यते हा हतविधेर्नाऽकार्यं नाम विद्यते ॥ ४९ ॥
चतुर्धा भित्तिभेदेन प्रकटाशयतामहम् ।
पद्मानीव गृहाण्यप्सु दर्शयन्ति रवेः प्रभाः ॥ ५० ॥
चित्रं तरङ्गवलनासु समुल्लसन्ति गन्धर्वकिंनरनरामरनागनार्यः ।
भूरिभ्रमैर्भ्रमरहारमिव ह्रदिन्यः पद्मिन्य एव सकलामलजङ्गमाख्याः ॥ ५१ ॥
विद्याधरीभुजलतावलितेन्दुकान्तकक्ष्याविभागमणिजालगवाक्षलक्ष्म्यः ।
देवासुरोरगमहागृहभित्तिभागाः सौवर्णनौगणवदम्बुभरे भ्रमन्ति ॥ ५२ ॥
मत्तेभकुम्भपरिणाहिनि कुङ्कुमाङ्के शच्याः पयोधरभरे रतिखेदखिन्नः ।
लग्नः सुखादिव करोति तरङ्गदोलाः संशीर्यमाणमणिगेहगतोऽत्र शक्रः ॥ ५३ ॥
हा वान्ति वारिवलनावलितान्तरिक्षमृक्षावधूतकुसुमप्रकरान्किरन्तः ।
वाताः पतद्विबुधमन्दिररत्नसानाबुद्यानकोटरगता इव साक्षतेन ॥ ५४ ॥
यन्त्रोत्थहेमदृषदा सदृशाम्बुरूपं क्षुब्धाद्रिभीमजलवीचिशिखेरितं खे ।
व्यावर्तते दिवि दलावृतकर्णिकास्थध्यानैकनिष्ठपरमेष्ठिसरोजमेतत् ॥ ५५ ॥
मेघा इवातिघनघुंघुमघोषभीमा वीचीचयाः कनकपत्तनविद्युतोऽमी ।
व्योम्नि भ्रमन्ति गजवाजिमृगेन्द्रनागवृक्षाद्रिकाननमहीतलतुल्यदेहाः ॥ ५६ ॥
उह्यमानोदभूवीच्यामतसीकुसुमश्रियाम् ।
यमोऽप्ययं यमेनेव वारिपूरेण नीयते ॥ ५७ ॥
एते बुद्ध्यन्ति सलिलेऽखिललोकपाला नागा नगैश्च नगरैः सह लक्षसंख्याः ।
लक्ष्म्याकरोदरगुहागतवारिपूरव्यावर्तनागुडगुडैरभिलक्ष्यपूराः ॥ ५८ ॥
दुर्वारवारिवलनापरिपूरितेषु पातालभूतलनभस्तलदिक्तटेषु ।
मत्स्या इवेन्द्रयमयक्षसुरासुरौघाः सग्रामपत्तनविमाननगा भ्रमन्ति ॥ ५९ ॥
उह्यमानस्य कृष्णस्य तनुरेवाम्बुरूपिणी ।
मातृजङ्घेव वत्सस्य कष्टं बन्धनतां गता ॥ ६० ॥
अन्योन्यमावलयतामहो बुडबुडारवः ।
श्रूयते देवदैत्यानां स्वस्त्रीहलहलाकुलः ॥ ६१ ॥
कोलाहलाकुलपुरोत्तमवेगपातविक्षुब्धवारिपटलीवलिताम्बरासु ।
दिक्षु भ्रमज्जलदजालघनास्विवैष संलक्ष्यते जलमयः स्फुटकुड्यबन्धः ॥ ६२ ॥
हा कष्टमेष तरसा पयसापनीत आवर्तवृत्तिपरिवर्तनया स्वधस्तात् ।
एते कुबेरयमनारदवासवाद्याः प्राणान्पयोभ्रपटलैर्विधुरास्त्यजन्ति ॥ ६३ ॥
प्राज्ञाः प्रशान्तजडदेहमिहोह्यमानं मानोज्झिताः शवतयैव च तद्वहन्ति ।
ब्रह्मेन्द्रविष्णुपुरखण्डकसंकटाम्बु संघट्टनेन कटुकुट्टनदृक्षु तेन ॥ ६४ ॥
स्त्रीणां गणोऽर्धपरिपिष्ट इहैति कष्टं कस्त्रातुमेनमपरः कुजडं समर्थः ।
न ह्यन्तकस्य दशनैरभिचर्व्यमाणा त्रातुं परस्परमियं जनता समर्था ॥ ६५ ॥
पर्वतप्रतिघसर्पसर्पणाः संसरन्ति विपुला जलोच्चयाः ।
तेषु नाव इव देवपत्तनान्युन्नमय्य वपुराशु यान्त्यधः ॥ ६६ ॥
द्वीपाद्रीन्द्रसुरासुरोरगनरैर्नागाप्सरश्चारणैव्याप्तं वारिविलोलितैः सरसिजैरालूनमूलैरिव ।
एकाम्भोधिसरः स्थितं त्रिभुवनं कालेन निर्मूलितं कष्टं ते क्व गता महर्द्धिविभवा देवा जगन्नायकाः ॥ ६७ ॥
हिन्दी अर्थ
संकल्पात्मक
मन ही कार्य ब्रह्म है वह जैसे भू आदि लोकों की ओर अन्यान्य वस्तुओं की कल्पना करता है वैसा
ही अनुभव करता है, यह बात बालकों तक को ज्ञात है । हे श्रीरामजी, आकाशस्वरूप चेतनात्मा
आदि पुरुष ने अपने स्वरूप को पहले चित्त से ही प्राणी बनाया, उसी तरह उसे देही बनाया, पर्वत
बनाया ओर त्रिभुवनरूप किया, स्वप्नो मेँ कल्पित अपने अपने शरीरो में यह बात सबको अनुभूत
है, इसे ही उक्त अर्थ में उदाहरण समझना चाहिये