Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 103, Verses 70–99
This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 103, verses 70–99 — the original Sanskrit shloka(s) with their Hindi meaning.
निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 103 · श्लोक 70
संस्कृत श्लोक
जडस्य बुद्धिपूर्वेहा मरुतो नास्ति तां विना ।
न संभवत्यणुचयो नान्यत्कर्तोपपद्यते ॥ ७० ॥
वयमात्मान एवेमे खात्मानः खात्मका जनाः ।
तथा स्थिता यथा स्वप्ने भवतां स्वप्नमानवाः ॥ ७१ ॥
तस्मान्न जायते किंचिद्विश्वं नापि च विद्यते ।
इत्थं चिन्नभ एवाच्छं प्रकचत्यात्मनात्मनि ॥ ७२ ॥
विश्वाकाशं चिदाकाशे विष्वग्विश्रान्तिमागतम् ।
स्पन्दो द्रवत्वं शून्यत्वमनिलेऽम्भसि खे यथा ॥ ७३ ॥
देशाद्देशान्तरप्राप्तौ निमेषेणातिदूरतः ।
संविदो यद्वपुर्मध्ये चिद्व्योम्नो विद्धि तद्वपुः ॥ ७४ ॥
स स्वभावो हि सर्वेषामर्थानां ते च तन्मयाः ।
तादृशास्तन्नभोरूपास्तेन विश्वमतो नभः ॥ ७५ ॥
स्वभावस्य परा वृत्तिर्मनागेवाशु तस्य सा ।
स्वभावादविभिन्नैव सेदं जगदिति स्थिता ॥ ७६ ॥
जगच्चिन्नभसोस्तस्मान्न कदाचन भिन्नता ।
एकमेव द्वयो रूपं पवनस्पन्दयोरिव ॥ ७७ ॥
देशाद्देशान्तरप्राप्तौ विदो मध्ये हि यद्वपुः ।
शान्ताशेषविशेषात्म तन्मुख्यं नेतरद्विदुः ॥ ७८ ॥
स स्वभावोऽङ्ग भूतानां तत्र तिष्ठन्ति पण्डिताः ।
तस्मान्न विचलन्त्येते नित्यध्यानाद्धरादयः ॥ ७९ ॥
आभासाकाशमेवेदं भामात्रमवभासनम् ।
विश्वमाकाररहितं स्वभावं विदुरव्ययम् ॥ ८० ॥
न जायते न म्रियते न भूत्वा भावि कुत्रचित् ।
अनन्यदेव चिद्व्योम्नः शून्यत्वमिव खाज्जगत् ॥ ८१ ॥
न विश्वमस्ति नैवासीन्न च नाम भविष्यति ।
इदमाभासते शान्तं चिद्व्योम परमात्मनि ॥ ८२ ॥
चिन्मात्रमेव कचति स्वप्ने पुरतया यथा ।
तथैव जाग्रदाख्येऽस्मिन्स स्वप्ने कचति स्वयम् ॥ ८३ ॥
सर्गादावेव भावानामसत्तेत्यस्ति देहकः ।
कुतस्तस्माच्छरीरत्वं स्वप्न एव नभश्चितेः ॥ ८४ ॥
स्वयंभ्वाख्यं शरीरं स्वं पूर्वः स्वप्नो महाचितेः ।
इत उत्थानास्तदनु स्वप्नात्स्वप्नान्तरं वयम् ॥ ८५ ॥
गण्डस्योपरि जातानां स्फोटानामत एव नः ।
परमेण प्रयत्नेन न मनो नाम यास्यति ॥ ८६ ॥
ब्रह्मैवासत्यपुरुषः सत्यवच्चानुभूयते ।
स्थितं ततःप्रभृत्येव न त्वलीकमिदं ततम् ॥ ८७ ॥
आब्रह्मस्तम्बपर्यन्तमलीकं जायते जगत् ।
यथा स्वप्ने तथालीकमेवमाशु विनश्यति ॥ ८८ ॥
चिद्व्योमैवैत्य विश्वत्वं यथा स्वप्ने विनश्यति ।
अनुदित्वैव विश्वत्वं जाग्रदाख्ये तथैव च ॥ ८९ ॥
अनुभूतमलीकं चाप्यलीकं सत्यवत्स्थितम् ।
संविदेव यथा स्वप्ने नगरादितयोदिता ॥ ९० ॥
साकारेव निराकारा स्थिता तद्वज्जगत्तया ।
संविदाकाशमाकाशादणु मेरोरणुर्यथा ॥ ९१ ॥
किल यत्तस्य नाम स्यादाकाशादणुता कुतः ।
कारणाभावतोऽन्यस्य नाकार उपपद्यते ॥ ९२ ॥
सर्गादावेव योऽजातो जातोऽयं जगतः कुतः ।
यदेव वेदनाकाशे पुरं स्वप्ने तदेव नः ॥ ९३ ॥
भेदः स्वप्नाद्रिचिद्व्योम्नोर्न शून्याम्बरयोरिव ।
यदेव चिन्नभो नाभ तदेव स्वप्नपत्तनम् ॥ ९४ ॥
यदेव स्पन्दनं नाम स एव पवनो यथा ।
स्पन्दास्पन्दैकरूपात्मा वायुर्व्योमोपमो यथा ॥ ९५ ॥
तस्माच्चिन्नभ एवेदं जगदाकृति लक्ष्यते ।
सर्वं शून्यं निरालम्बं भासनं चिद्विवस्वतः ॥ ९६ ॥
शान्तमेवेदमखिलं निरस्तास्तमयोदयम् ।
सकृद्विभातममलं दृषन्मौनमनामयम् ॥ ९७ ॥
तस्माद्वद कथं भावाः कुतो भावाः क्व भावधीः ।
क्व द्वैतं क्वैकता क्वाहं क्व भावाः क्व च भावनाः ॥ ९८ ॥
नित्योदितो व्यवहरन्नपि निर्विकारो द्वित्वैक्यमुक्तमतिरुत्तमशीतलोऽन्तः ।
निर्वाण आस्व विगतामयशुद्धबोधबोधैकतामुपगतोऽङ्ग न सन्ति भावाः ॥ ९९ ॥
हिन्दी अर्थ
जब
तक शरीर है तभी तक चेतन की सत्ता है, यदि यह कहा जाय तो यह कहना भी ठीक नहीं है,
क्योकि अखण्डित शरीर रहने पर भी मृतक क्यों नहीं चलता, इसका क्या उत्तर है ?