Guru's AddaGuru's Adda

Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 103, Verses 6–69

This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 103, verses 6–69 — the original Sanskrit shloka(s) with their Hindi meaning.

निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 103 · श्लोक 6

संस्कृत श्लोक

न च नाम शरीरस्य नाशे नश्यति चिन्नभः । देहे नष्टेऽपि बन्धूनां म्लेच्छैर्दृष्टा पिशाचता ॥ ६ ॥ यावच्छरीरसत्ता चेच्चेतनस्य तदुच्यताम् । शवः कस्मान्न चलति सत्यखण्डे शरीरके ॥ ७ ॥ पिशाचानुभवो जीवधर्मश्चेत्तत्स सर्वदा । किं न पश्यति किं बन्धौ मृते पश्यति तत्तथा ॥ ८ ॥ जीवधर्मो विशिष्टश्चेत्तादृशस्तं नरः कथम् । मिथ्या देशान्तरमृते पिशाचत्वं न पश्यति ॥ ९ ॥ तस्मात्सर्वात्मकत्वे तच्चिन्मात्रं न नियन्त्रितम् । यद्यद्यत्र यथा वेत्ति तत्तत्तत्रावगच्छति ॥ १० ॥ अवाधितैवैकघना संविद्भवति यादृशी । तादृश्येवानुभूतिर्हि तत्स्वभावोऽत्र कारणम् ॥ ११ ॥ अन्यन्न संभवत्यत्र सर्गादावेव कारणम् । यन्नाम तदिदानीं स्यात्कथ्यतां कीदृशं कथम् ॥ १२ ॥ सर्गादावेव नोत्पन्ना न चैवाद्यावभासते । विकल्पश्रीर्जगद्भासा केवलं भाति चिन्नभः ॥ १३ ॥ आभासमात्रमेवेदं दृश्यमित्यवबुध्यते । दृश्यमित्यवबोधेन तदृते स्यात्क्व दृश्यता ॥ १४ ॥ स्वचमत्कारचातुर्यं चारु चिन्नभसा रसात् । बोधेन बुध्यते दृश्यमित्यबोधान्न बुध्यते ॥ १५ ॥ बोधोऽबोधश्च तद्रूपमेवमेव निरामयम् । भेदोऽत्र वाचि न त्वर्थे तस्मान्नास्त्येव दृश्यता ॥ १६ ॥ या चासीद्दृश्यतैषां तां विद्धि त्वमविचारणाम् । सा चेदानीं विचारेण विनष्टातः क्व दृश्यते ॥ १७ ॥ अस्मिन्नेव धियो यत्न आत्मज्ञानविचारणे । यत्नेन परमोऽभ्यासः स लोकद्वयसिद्धिदः ॥ १८ ॥ अविद्योपशमस्त्वेष जातोऽपि भवतामिह । अभ्यासेन विना साधो न सिद्धिमुपगच्छति ॥ १९ ॥ न्रोद्वेगं संपरित्यज्य गृहीत्वानुदिनं क्षणम् । लोकद्वयहितं पथ्यमिदं शास्त्रं विचार्यताम् ॥ २० ॥ विज्ञातमप्यविज्ञातमात्मज्ञानमिदं भवेत् । भवतां भूरिभागानां संभूयाभ्यसनं विना ॥ २१ ॥ योऽयमर्थं प्रार्थयते तदर्थं यतते तथा । सोऽवश्यं तमवाप्नोति न चेच्छान्तो निवर्तते ॥ २२ ॥ तस्मादस्मान्निवर्तध्वमसच्छास्त्रविचारणात् । शान्तिं प्राप्स्यथ सच्छास्त्राज्जयलक्ष्मीं यथा रणात् ॥ २३ ॥ विवेके चाविवेके च वहत्येषा मनोनदी । यत्रैव वाह्यते यत्नात्तत्रैव स्थितिमृच्छति ॥ २४ ॥ अस्माच्छास्त्रादृते श्रेयो न भूतं न भविष्यति । ततः परमबोधार्थमिदमेव विचार्यताम् ॥ २५ ॥ स्वयमेव विचार्येदं परो बोधोऽनुभूयते । संसाराध्वश्रमहरो न त्वेतद्वरशापवत् ॥ २६ ॥ यन्न पित्रा न वा मात्रा न चापि सुकृतैः कृतम् । श्रेयस्तद्वः परिज्ञातमिदमाशु करिष्यति ॥ २७ ॥ भवबन्धमयी साधो विषमेयं विषूचिका । आत्मज्ञातादृते दीर्घा न कदाचन शाम्यति ॥ २८ ॥ महामोहमयी माया मिथ्यैवाहमिति स्थिता । शास्त्रार्थभावनेनाशु मुच्यतां परशोच्यता ॥ २९ ॥ यात माऽऽपातमधुरं व्योम व्योमैकरूपिणीम् । शून्यं वायुं लिहन्तोऽन्तर्लेलिहाना इवाहयः ॥ ३० ॥ यान्ति वो दिवसाः कष्टमविज्ञातगमागमाः । व्यवहारे हि तैरेव प्रतिपालयतां मृतिम् ॥ ३१ ॥ तावदाश्वासनैषास्ति भवतां भयभागिनाम् । दिनानि कतिचिद्यावन्नायाति मरणावधिः ॥ ३२ ॥ आगच्छन्त्यां मृतौ कष्टं परितापमवाप्स्यथ । तं यत्राङ्गाङ्गविच्छेदः शीतचन्दनलेपनम् ॥ ३३ ॥ क्रीणन्ति प्राणपण्येन धनं मानं घनभ्रमाः । यथाशास्त्रैः कथं बुद्ध्या न क्रीणन्त्यजरं पदम् ॥ ३४ ॥ पदं परमयत्नेन क्रियते यैश्चिदम्बरे । कथं तैः सह्यतेऽज्ञानशत्रुपादः स्वमूर्धनि ॥ ३५ ॥ निर्मानमोहमापन्ना गतिं गच्छत माधमाम् । क्रियते स्वात्मबोधेन मूलकाषो महापदाम् ॥ ३६ ॥ प्रलपन्तमहोरात्रं युष्मदर्थेन मामिमम् । यं प्रदृश्येदमाकर्ण्य स्वात्मनैवात्मतार्प्यताम् ॥ ३७ ॥ अद्यैव न चिकित्सां यः करोति मरणापदः । संप्राप्तायां मृतौ मूढः करिष्यति किमातुरः ॥ ३८ ॥ अस्माद्ग्रन्थादृते ग्रन्थो नान्यः स्वात्मावबोधने । नूनमर्थकरो ग्राह्यस्तिलस्तैलार्थिनामिव ॥ ३९ ॥ आत्मज्ञानमिदं शास्त्रं प्रकाशयति दीपवत् । पितेव बोधयत्याशु कान्तेव रमयत्यलम् ॥ ४० ॥ विद्यमानमपि ज्ञानं ज्ञातं शास्त्रगणान्न यत् । दुर्बोधं मधुरं तत्तु ज्ञास्यन्तीतो न संशयः ॥ ४१ ॥ इदमुत्तममाख्यानं मुख्यानां शास्त्रदृष्टिषु । सुखेन बोधदं हृद्यमपूर्वं न तु किंचन ॥ ४२ ॥ नानाख्यानकथाचित्रं विनोदेन विचारयेत् । इदं शास्त्रं परं याति पुमान्नास्त्यत्र संशयः ॥ ४३ ॥ यो ह्यद्यापि न संप्राप्तः पण्डितैरविखण्डितैः । स इतः प्राप्यते बोधः सुवर्णमिव सैकतात् ॥ ४४ ॥ शास्त्रकर्तरि मङ्कतव्यं न कदाचन कुत्रचित् । शास्त्रार्थ एव तन्नित्यं युक्तियुक्तानुभूतिदे ॥ ४५ ॥ अज्ञानान्मत्सरान्मोहादविचारिभिरेकता । अवहेलितशास्त्रार्थैः कर्तव्या नात्महन्तृभिः ॥ ४६ ॥ जानाम्येव यथैवेमा यदहं त्वं यथा धियः । तथा बोधितकारुण्यात्स्वभावो हि ममेदृशः ॥ ४७ ॥ युष्मत्संविल्लवः शुद्ध एवं वक्तुमिह स्थितः । अहं नरो न गन्धर्वो नामरो न च राक्षसः ॥ ४८ ॥ संविन्मात्रा भवन्तो हि तद्भावोऽस्त्यतिनिर्मलः । स्थितोऽस्मीति भवत्पुण्यैर्ननु नास्मि न चापरः ॥ ४९ ॥ श्यामायमाना नायान्ति यावन्मरणवासराः । सारः संह्रियतां तावद्वैरस्यं वस्तुदृष्टिषु ॥ ५० ॥ इहैव नरकव्याधेश्चिकित्सां न करोति यः । गत्वा निरौषधं स्थानं सरुजः किं करिष्यति ॥ ५१ ॥ सर्वभावेषु वैरस्यं न यावत्समुपागतम् । भावानां भावना तावत्तानवं नोपगच्छति ॥ ५२ ॥ आत्मानमलमुद्धर्तुं वासनातानवादृते । नास्त्युपायो महाबुद्धे कश्चनापि कदाचन ॥ ५३ ॥ भावास्तु यदि विद्यन्ते तद्धिते वस्तुभावना । किं त्वेते नैव सन्तीह शशश्रृङ्गादयो यथा ॥ ५४ ॥ सर्व एव जगद्भावा अविचारितचारवः । अविद्यमानसद्भावा विचाराद्विशरारवः ॥ ५५ ॥ प्रामाणिकविचारेषु न विद्यन्ते कृतेषु ये । कथं सन्ति जगद्भावास्ते के सन्ति सदैव वा ॥ ५६ ॥ सर्व एव जगद्भावाः कारणाभावतो भृशम् । सर्गादावेव नोत्पन्ना यच्चेदं भाति तत्परम् ॥ ५७ ॥ पदे सर्वेन्द्रियातीते मनःषष्ठेन्द्रियात्मनाम् । भावानां कारणं नास्ति मनःषष्ठेन्द्रियात्मकम् ॥ ५८ ॥ भावानां विविधाख्यानामनाख्यं कारणं कुतः । कुतो वस्तुन्यवस्तुत्वं व्योमन्यव्योमता कुतः ॥ ५९ ॥ साकारस्य हि साकारं वटधानादिवद्भवेत् । बीजं तद्वस्तु साकारं जायतेऽन्यत्कुतोऽन्यथा ॥ ६० ॥ न किंचिदपि यत्रास्ति बीजमाकृतिमन्मनाक् । तत आकृतिमद्विश्वं भवतीति विडम्बनम् ॥ ६१ ॥ कार्यकारणभावादि तस्मिन्नहि परे पदे । वाचालत्वेन यन्नाम कल्प्यते मौर्ख्यमेव तत् ॥ ६२ ॥ सहकारिनिमित्तानामभावे हि न कारणात् । कार्यं भवेदन्यदेति बालैरप्यनुभूयते ॥ ६३ ॥ तन्मात्रवेदनं भूयः पृथ्व्यादीनां च कारणम् । किमस्ति कथ्यतां छाया कथमास्ते वदातपे ॥ ६४ ॥ परमाणुसमूहा ये जगदित्यप्यवास्तवम् । शशश्रृङ्गं धनुःप्रख्यमज्ञानादभिधीयते ॥ ६५ ॥ परमाणुसमूहश्चेत्संभूय कुरुते जगत् । यदृच्छयैव तमसि शीर्यते च यदृच्छया ॥ ६६ ॥ तदङ्गमिङ्गते नित्यं देशे देशे गृहे गृहे । अपूर्वात्म रजः श्रृङ्गं खातं वा स्याद्दिने दिने ॥ ६७ ॥ न च तद्दृश्यते किंचित्कस्य तत्कर्म तादृशम् । भवेद्व्यर्थमभव्यस्य जडास्तु परमाणवः ॥ ६८ ॥ नाबुद्धिपूर्वं तत्कर्म संभवत्यङ्ग कस्यचित् । बुद्धिपूर्वं तु यद्व्यर्थं कुर्यादुन्मत्तको हि कः ॥ ६९ ॥

हिन्दी अर्थ

शरीर का नाश होने पर चिदाकाश कभी नष्ट नहीं होता । क्योकि बन्धुओं का शरीर नष्ट होने पर भी म्लेच्छों द्वारा उनकी पिशाचता देखी गई है