Guru's AddaGuru's Adda

Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 104, Verses 1–8

This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 104, verses 1–8 — the original Sanskrit shloka(s) with their Hindi meaning.

निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 104 · श्लोक 8

संस्कृत श्लोक

श्रीवसिष्ठ उवाच । आकाशः शब्दतन्मात्रं स्पर्शतन्मात्रकोऽनिलः । तत्सङ्गोत्कर्षजं तेजस्तच्छान्तिश्चेत्यपां स्थितिः ॥ १ ॥ भूरेषां सङ्घः स्वप्नाभे जगद्भाने क्रमस्त्विति । कथं नाम किलामूर्ताद्व्योम्नो मूर्तिः प्रवर्तते ॥ २ ॥ गत्वा सुदूरमप्येतज्ज्ञप्तेश्चेत्परिकल्प्यते । तदादावेव सत्यर्थे दोषोऽस्मिन्क इवामले ॥ ३ ॥ ज्ञप्तिरेवातिविमला स्वरूपात्मनि भाति यत् । तदेव जगदित्युक्तं सत्यमित्येव सत्यतः ॥ ४ ॥ न क्वचित्सन्ति भूतानि पञ्च कुट्यादयो न वा । असन्त्यप्यनुभूतानि ननु स्वप्नदशास्विव ॥ ५ ॥ स्वभाव एव विमलो यथा स्वप्ने पुरादिवत् । कचत्येवं जाग्रतीदं जगद्वद्वस्तुतस्तु खम् ॥ ६ ॥ चेतनाकाश एवाहं तदेवेदं जगत्स्थितम् । इत्यहं जगदित्येकं खमेवैकं शिलाघनम् ॥ ७ ॥ यदादिसर्गजननं यत्कल्पान्तविवर्तनम् । यद्वा भुवनसंस्थानं तद्धि व्योम निराकृति ॥ ८ ॥

हिन्दी अर्थ

पिशाच देखना आदि जीव का धर्म है, तो फिर वह जीव सर्वदा पिशाच क्यों नहीं देखता ? बन्धु के मृतक बन जाने पर ही क्यों देखता है ?