Yoga Vasistha — Nirvana Prakarana Purva (Liberation, Part 1), Sarga 85, Verses 1–53
This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Purva (Liberation, Part 1), Sarga 85, verses 1–53 — the original Sanskrit shloka(s) with their Hindi meaning.
निर्वाण प्रकरण (पूर्वार्ध) · सर्ग 85 · श्लोक 1-53
संस्कृत श्लोक
श्रीवसिष्ठ उवाच ।
एवं शिखिध्वजः पूर्णमठिकायां वने स्थितः ।
इदानीं श्रृणु चूडाला सा किं कृतवती गृहे ॥ १ ॥
तत्रार्धरात्रसमये दूरं याते शिखिध्वजे ।
हरिणी ग्रामसुप्तेव चूडाला बुबुधे भयात् ॥ २ ॥
अपश्यत्पतिनिर्हीना शयनं शून्यता गतम् ।
अभास्करमपूर्णेन्दु शान्तशोभमिवाम्बरम् ॥ ३ ॥
उत्तस्थौ किंचिदाम्लानवदना खेदशालिनी ।
कुसिक्तेव महावल्ली निरुत्साहाङ्गपल्लवा ॥ ४ ॥
न प्रसन्ना न विमला बभूवाकुलतां गता ।
दिनश्रीरिव नीहारधूसरा सा व्यतिष्ठत ॥ ५ ॥
क्षणं शय्योपविष्टैव चिन्तयामास चिन्तया ।
कष्टं राज्यं प्रभुस्त्यक्त्वा वनं यातो गृहादिति ॥ ६ ॥
तन्मयेहाद्य किं कार्यं तत्समीपं व्रजाम्यहम् ।
भर्तैव गतिरुद्दिष्टा विधिना प्रकृता स्त्रियः ॥ ७ ॥
इति संचिन्त्य भर्तारमनुगन्तुं समुत्थिता ।
चूडाला वातरन्ध्रेण निर्गत्याम्बरमाययौ ॥ ८ ॥
बभ्रामाम्बरमार्गेण वातस्कन्धेन योगिनी ।
कुर्वती सिद्धसार्थस्य मुखेनान्येन्दुविभ्रमम् ॥ ९ ॥
ददर्शाथ यथायातं रात्रौ खङ्गधरं पतिम् ।
भ्रमन्तमेकमेकान्ते वेतालसमयोदितम् ॥ १० ॥
तादृशं पतिमालोक्य स्थित्वा गगनकोटरे ।
भविष्यच्चिन्तयामास सर्वं भर्तुरखण्डितम् ॥ ११ ॥
यथा येन यदा यत्र यावत्कार्यं यथोदयम् ।
यथा च निर्वृतिः स्फारा गन्तव्या तेन राघव ॥ १२ ॥
अवश्यं भवितव्यं तद्भर्तुर्दृष्ट्वा पुरः स्थितम् ।
तदेव संवादयितुं गमनात्सा न्यवर्तत ॥ १३ ॥
आस्तां ममाद्य गमनं काले नातिचिरेण हि ।
मयास्य पार्श्वे गन्तव्यं नियतेरेष निश्चयः ॥ १४ ॥
इति संचिन्त्य चूडाला प्रविश्यान्तःपुरं पुनः ।
सुष्वाप शयने शंभोः शिरसीवैन्दवी कला ॥ १५ ॥
केनचित्कारणेनासौ गतः संप्रति भूपतिः ।
इति पौरं जनं सर्वमाश्वास्यातिष्ठदङ्गना ॥ १६ ॥
राज्यं ररक्ष भर्तुस्तत्क्रमेण समदर्शनात् ।
यथा कालेन केदारं पक्वं कलमगोपिका ॥ १७ ॥
तयोस्तदाऽवहत्कालो दंपत्योः स्थितयोस्तथा ।
अदृष्टान्योन्यमुखयो राज्यकाननपालयोः ॥ १८ ॥
जगामाथ दिनं पक्षो मासोऽथ ऋतुवत्सरः ।
शिखिध्वजस्य विपिने चूडालायाः स्वमन्दिरे ॥ १९ ॥
बहुनात्र किमुक्तेन वर्षाण्यष्टादशाङ्गना ।
चूडालोवास सदने वनगुच्छे शिखिध्वजः ॥ २० ॥
अथ यातेषु बहुषु वर्षेषु जरसा वृते ।
शिखिध्वजे महाशैलतटकोटरवासिनि ॥ २१ ॥
भर्तुः कषायपाकं तदालक्ष्य पालितं चिरात् ।
तदा तस्याथ यातेषु वर्षेषु जरसा वने ॥ २२ ॥
तदा तस्यात्मकार्यस्य भवितव्यतया तथा ।
भर्तुः समीपगमने मम कालोऽयमित्यथ ॥ २३ ॥
संचिन्त्य मन्दरोपान्तं गन्तुं बुद्धिं चकार सा ।
चचारान्तःपुराद्रात्रौ ततार नभसः पथम् ॥ २४ ॥
जगाम वातस्कन्धेन गच्छन्ती खे ददर्श सा ।
कल्पवृक्षांशुकच्छन्नरत्नस्तबकभूषिताः ॥ २५ ॥
नन्दनोद्याननिलया रक्ताः सिद्धाभिसारिकाः ।
परामृष्टेन्दुशकलान्प्रालेयकणवर्षिणः ॥ २६ ॥
सिद्धोत्तमात्तसौगन्ध्यान्स्पर्शयामास मारुतान् ।
चन्द्रबिम्बामृताम्भोधेर्महावीचिपरम्पराम् ॥ २७ ॥
अपश्यन्निर्मलज्योत्स्नामम्बरान्तरतां गता ।
मेघान्तरेण गच्छन्ती मेघलग्नाश्च विद्युतः ॥ २८ ॥
अवियुक्ताः स्वभर्त्रा सा भूयो भूयो व्यलोकयत् ।
उवाच चात्मनैवाहो यावज्जीवं शरीरिणाम् ॥ २९ ॥
न स्वभावः शमं याति ममाप्युत्कण्ठितं मनः ।
कदा मृगेन्द्रस्कन्धं तं प्रणयप्रवणं पुनः ॥ ३० ॥
पश्यामि कान्तमित्युक्तं ममाप्युत्कण्ठते मनः ।
मञ्जरीजालवलितास्तरुं वल्ल्यः स्वकं पतिम् ॥ ३१ ॥
न मुञ्चन्ति क्षणमिति ममाप्युत्कण्ठते मनः ।
यथेयमग्रजा कान्तमेति सिद्धाभिसारिका ॥ ३२ ॥
तथा कदाहमेष्यामि ममापीति मनः स्थितम् ।
इमे मन्दाश्च मरुत एते च शशिनः कराः ॥ ३३ ॥
वनराजय एताश्च ममाप्युत्कण्ठयन्त्यहो ।
हे चित्ताज्ञ मुधैवान्तः किं त्वं ताण्डवितं स्थितम् ॥ ३४ ॥
सा व्योमनिर्मला साधो क्व ते याता विवेकिता ।
अथवा चित्त भर्तारं स्वं प्रत्युत्कण्ठसे सखे ॥ ३५ ॥
तिष्ठोत्कण्ठाभिवलितं किं समुत्कण्ठितेन मे ।
किं वृथोत्कण्ठसे वामे भर्ता यातो जरां भवेत् ॥ ३६ ॥
तपस्वी कृशगात्रश्च भवेन्निर्वासनस्तथा ।
मनो राज्याद्यभोगेभ्यो मन्येऽस्यामूलतां गतम् ॥ ३७ ॥
वासनालतिका प्रावुण्नदी नदगता यथा ।
एकान्तरत एकात्मा नीरसः शान्तवासनः ॥ ३८ ॥
मन्ये भवति मे भर्ता शुष्कवृक्षसमस्थितिः ।
तथापि चित्त कोत्कण्ठा भवतोत्कण्ठयान्वितम् ॥ ३९ ॥
मतिमुद्बोध्य योगेन श्लेषयिष्याम्यहं पतिम् ।
प्रमृष्टकलनं भर्तुः समीकृत्य मनो मुनेः ॥ ४० ॥
राज्य एव नियोक्ष्यामि निवत्स्यावः सुखं चिरम् ।
अहो नु चिरकालेन मनोरथमिमं शुभम् ॥ ४१ ॥
अहमासादयिष्यामि यद्भर्ता समचिन्तितः ।
समग्रानन्दवृन्दानामेतदेवोपरि स्थितम् ॥ ४२ ॥
यत्समानमनोवृत्तिसङ्गमास्वादने सुखम् ।
इति चिन्तयती व्योम्ना चूडालोल्लङ्घ्य पर्वतान् ॥ ४३ ॥
देशानब्दान्दिगन्तांश्च प्राप मन्दरकन्दरम् ।
अदृश्यैव नभःस्थैव प्रविवेश वनान्तरम् ॥ ४४ ॥
वात्येव पादपलतास्पन्दवेद्यगमागमा ।
वनैकदेशे कस्मिंश्चित्कृतपर्णोटजे पतिम् ॥ ४५ ॥
दृष्ट्वा योगेन बुबुधे देहान्तरमिवास्थितम् ।
हारकेयूरकटककुण्डलादिविभूषितः ॥ ४६ ॥
अभवन्मेरुकान्तिर्यस्तमेवात्र ददर्श सा ।
कृशाङ्गं कृष्णवर्णं च जीर्णपर्णमिव स्थितम् ॥ ४७ ॥
कज्जलाम्बुभरस्नातं भृङ्गीशमिव निस्पृहम् ।
चीराम्बरधरं शान्तमेकाकिनमवस्थितम् ॥ ४८ ॥
स्थलीनिषण्णं पुष्पाणि ग्रथयन्तं जटाङ्कितम् ।
तमालोक्यानवद्याङ्गी चूडाला पीवरस्तनी ॥ ४९ ॥
किंचिज्जातविषादैवमुवाचात्मनि चेतसा ।
अहो नु विषमं मौर्ख्यं तदनात्मज्ञतात्मकम् ॥ ५० ॥
एवंविधाः समायान्ति दशा मौर्ख्यप्रसादतः ।
अयं स राजा लक्ष्मीवान्यतो मेऽतिप्रियः पतिः ॥ ५१ ॥
हृदि मोहघनक्षुऽण्णामिमामभ्यागतो दशाम् ।
तदवश्यमिहाद्यैव नाथं विदितवेद्यताम् ॥ ५२ ॥
नयाम्यत्र न संदेहो भोगमोक्षश्रियं तथा ।
इदं रूपं परित्यज्य रूपेणान्येन केनचित् ॥ ५३ ॥
हिन्दी अर्थ
शून्य हो गया होगा । मैं समझती हूँ, यद्यपि मेरा स्वामी अब शुष्क वृक्ष के समान स्थितिवाला हो गया
होगा यानी वह बिलकुल बोधशून्य हो गया होगा, तथापि हे चित्त, तुम्हें उत्कण्ठित होने की कोई
आवश्यकता नहीं है । क्योकि मैं योग से यानी आगे कहे जानेवाले उपाय से स्वामी की बुद्धि को तत्त्वज्ञ
बनाकर प्रारब्धशेषोपभोग की उत्कण्ठा से युक्त उन्हें तुम्हारे साथ संश्लिष्ट करा दूँगी, तुम उत्कण्ठा
मत करो । मैं अपने मुनि हुए स्वामी के मन को सम बनाकर राज्य करने में ही नियुक्त करूंगी ओर उसके
बाद हम दोनों सुख से चिरकाल तक निवास करेगे । अहो, चिरकाल के बाद मैं इस शुभ मनोरथ को
प्राप्त करूंगी, क्योकि मैं अपने स्वामी को तत्वबोध से अपने ही समान आभ्यन्तर ओर बाह्य अर्थो में
विचारयुक्त प्राप्त करूंगी । जो समान मन की वृत्तियों के संगम के आस्वादन में सुख मिलता है वही
समग्र आनन्दसमूहों के ऊपर स्थित हे । यों चिन्तन कर रही चूडाला आकाशमार्ग से पर्वतो, देशों, मेघों
तथा दिगन्तों को लाँघ करके मन्दराचल की कन्दरा में जा पहुँची । अदुश्यरूप से आकाश में स्थित हुई
ही वह चूडाला जंगल के मध्य में उस तरह प्रविष्ट हो गयी, जिस तरह वृक्षों ओर लताओं के स्पन्द से
अनुमेय गमनागमनवाली वायुमंडली । वन के किसी एक कोने में पर्णकुटी बनाकर ठहरे हुए अपने पति
को देखकर उसने समाहित चित्त से अन्य शरीर में स्थित-जैसा समझा | हे श्रीरामचन्द्रजी, जो पहले
हार, केयूर, कटक ओर कुण्डल आदि से विभूषित सुमेरू के समान कान्तियुक्त रहता था, उसीको यहाँ
उस चूडाला ने कृशगात्र, कृष्णवर्णं और जीर्णपत्र-सा अवस्थित देखा काजलमय जल मेँ स्नान किये
हुए-जैसे, इच्छाओं से शून्य, भगवान् शंकर के प्रसिद्ध द्वारपाल भृंगीश के सदुश अवस्थित, वल्कल
वस्त्रधारी, शान्त, अकेले जमीन पर बैठकर देवताओं ओर अतिथियों की पूजा के लिए फूलों की माला
गथ रहे, जटाओं से चिह्नित उस अपने पति को देखकर सर्वागसुंदरी तथा स्थूल स्तनवाली चूडाला कुछ
उदास-सी होकर अपने मन-ही-मन यों कहने लगी - अज्ञानभरी कैसी विषम मूर्खता है । मूर्खता के
प्रसाद से ऐसी ही दशाएँ आया करती हैँ । चूँकि यह लक्ष्मीवान् राजा मेरा अतिप्रिय पति हृदय में गाढ मोह
से आहत इस दशा को प्राप्त हो गया है, इसलिए इस पर्णकुटी में आज ही अवश्य अपने नाथ को
आत्मज्ञानी बनाऊँगी तथा भोग ओर मोक्षश्री दिलाऊँगी, इसमें तनिक भी सन्देह नहीं है । इस रूप को
छोडकर अन्य किसी दूसरे रूप से सर्वोत्तम ज्ञान देने के लिए अब मेँ इन के समीप चलती हूँ