Guru's AddaGuru's Adda

Yoga Vasistha — Upashama Prakarana (Dissolution), Sarga 89, Verses 16–68

This page presents the Yoga Vasistha (Yogvashistha), Upashama Prakarana (Dissolution), Sarga 89, verses 16–68 — the original Sanskrit shloka(s) with their Hindi meaning.

उपशम प्रकरण · सर्ग 89 · श्लोक 16

संस्कृत श्लोक

तत्त्वज्ञोऽवाप्यतत्त्वज्ञो यः कालद्रव्यकर्मभिः । यथाक्रमं प्रयतते तस्योर्ध्वत्वादि सिद्ध्यति ॥ १६ ॥ आत्मवानिह सर्वस्मादतीतो विगतैषणः । आत्मन्येव हि संतुष्टो न करोति न चेहते ॥ १७ ॥ न तस्यार्थो नभोगत्या न सिद्ध्या न च भोगकैः । न प्रभावेण नो मानैर्नाशामरणजीवितैः ॥ १८ ॥ नित्यतृप्तः प्रशान्तात्मा वीतरागो विवासनः । आकाशसदृशाकारस्तज्ज्ञ आत्मनि तिष्ठति ॥ १९ ॥ अशङ्कितोपयातेन दुःखेन च सुखेन च । तृप्यत्यपगतासङ्गो जीवेन मरणेन च ॥ २० ॥ समुद्रः सरितेवान्तः क्रमसंप्राप्तवस्तुना । समेन विषमेणापि तिष्ठत्यात्मानमर्चयन् ॥ २१ ॥ नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ २२ ॥ यस्तु वाऽभावितात्मापि सिद्धिजालानि वाञ्छति । स सिद्धिसाधकैर्द्रव्यैस्तानि साधयति क्रमात् ॥ २३ ॥ सिद्ध्यतीत्थमिदं युक्त्यैवेत्ययं नियतेः क्रमः । त्र्यक्षादिभिः सुरवरैर्व्यर्थीकर्तुं न शक्यते ॥ २४ ॥ स्वभाव एष वस्तूनां स्वतःसिद्धिर्हि नान्यतः । नियतिं न जहात्येव शशाङ्क इव शीतताम् ॥ २५ ॥ सर्वज्ञोऽपि बहुज्ञोऽपि माधवोऽपि हरोऽपि च । अन्यथा नियतिं कर्तुं न शक्तः कश्चिदेव हि ॥ २६ ॥ द्रव्यकालक्रियामन्त्रप्रयोगाणां स्वभावजाः । एतास्ताः शक्तयो राम यद्व्योमगमनादिकम् ॥ २७ ॥ यथा विषाणि निघ्नन्ति मदयन्ति मधूनि च । वमयन्ति च शुक्तानि मदनानि फलानि च ॥ २८ ॥ तथा स्वभाववशतो द्रव्यकालक्रियाक्रमाः । नियतं साधयन्त्याशु प्रयोगं युक्तियोजिताः ॥ २९ ॥ एतस्मात्समतीतस्य त्यक्ताविद्यस्य राघव । आत्मज्ञानस्य नास्त्यत्र कर्तृताकर्तृतानघ ॥ ३० ॥ द्रव्यदेशक्रियाकालयुक्तयः साधुसंविदः । परमात्मपदप्राप्तौ नोपकुर्वन्ति काश्चन ॥ ३१ ॥ यस्येच्छा विद्यते काचित्स सिद्धिं साधयत्यलम् । आत्मज्ञस्य तु पूर्णस्य नेच्छा संभवति क्वचित् ॥ ३२ ॥ सर्वेच्छाजालसंशान्तावात्मलाभोदयो हि यः । तद्विरुद्धा कथं कस्मादिच्छा संजायतेऽनघ ॥ ३३ ॥ यथोदेति च यस्येच्छा स तया यतते तथा । यथाकालं तदाप्नोति ज्ञो वाप्यज्ञतरोऽपि वा ॥ ३४ ॥ वीतहव्येन यतितं नो ज्ञानेच्छेन किंचन । ज्ञानेच्छेनाशु यतितं प्रोत्थितोऽसौ यथा वने ॥ ३५ ॥ एवं कालक्रियाकर्मद्रव्ययुक्तिस्वभावजाः । यथेच्छमेव सिद्ध्यन्ति सिद्धयः स्वाः क्रमार्जिताः ॥ ३६ ॥ याः फलावलयो येन संप्राप्ताः सिद्धिनामिकाः । तास्तेनाधिगता राम निजात्प्रयतनद्रुमात् ॥ ३७ ॥ महतां नित्यतृप्तानां तज्ज्ञानां भावितात्मनाम् । ईहितं संप्रयातानां नोपकुर्वन्ति सिद्धयः ॥ ३८ ॥ श्रीराम उवाच । अयं मे संशयो ब्रह्मन्वीतहव्यस्य सा तनुः । क्रव्यादैर्न कथं भुक्ता कथं क्लिन्ना न भूतले ॥ ३९ ॥ तदैव वीतहव्योऽसौ कथं वनगतः प्रभो । विदेहमुक्ततां शीघ्रं यथावदिति मे वद ॥ ४० ॥ श्रीवसिष्ठ उवाच । या संविद्वलिता साधो वासनामलतन्तुना । सुखदुःखदशादाहभागिनी भवतीह सा ॥ ४१ ॥ निर्मुक्तवासना शुद्धसंविन्मात्रमयी तु सा । तनुस्तिष्ठति तच्छेदे शक्ता नेह हि केचन ॥ ४२ ॥ श्रृणु युक्त्या कया योगी तनुच्छेदादिविभ्रमैः । नाक्रम्यते महाबाहो बहुवर्षशतैरपि ॥ ४३ ॥ चेतः पदार्थे पतति यस्मिन्यस्मिन्यदा यदा । तन्मयं तद्भवत्याशु तस्मिंस्तस्मिंस्तदा तदा ॥ ४४ ॥ तथा दृष्टारि हि मनो विकारमुपगच्छति । दृष्टमित्रं सुहृद्यत्वं स्वयमित्यनुभूयते ॥ ४५ ॥ रागद्वेषविहीने तु पथिके पादपे गिरौ । भवत्यरागद्वेषं च स्वयमित्यनुभूयते ॥ ४६ ॥ मृष्टे लौल्यमुपादत्ते दुर्भोज्ये याति निःस्पृहम् । वैरस्यं याति कटुनि स्वयमित्यनुभूयते ॥ ४७ ॥ समसंविद्विलासाढ्ये यद्यदा यतिदेहके । हिंस्रचेतः पतत्याशु समतामेति तत्तदा ॥ ४८ ॥ समसङ्गविमुक्तत्वाच्छेदादौ न प्रवर्तते । पान्थो व्यर्थं पथि ग्रामे यथा ग्रामीणकर्मणि ॥ ४९ ॥ योगिदेहसमीपात्तु गत्वा प्राप्नोति हिंस्रताम् । यद्यद्भवति तत्राशु तथारूपं न संशयः ॥ ५० ॥ इति हिंस्रैर्मृगव्याघ्रसिंहकीटसरीसृपैः । न च्छिन्ना वीतहव्यस्य तनुर्भूतलशालिनी ॥ ५१ ॥ सर्वत्र विद्यते संवित्काष्ठलोष्टोपलादिके । सत्तासामान्यरूपेण संस्थिता मूकबालवत् ॥ ५२ ॥ पोप्लूयमाना तरला केवलं परिदृश्यते । तन्वी पुर्यष्टकेष्वेव प्रतिबिम्बजलेष्विव ॥ ५३ ॥ तेन भूजलवाय्वग्निसंवित्त्या समरूपया । निर्विकारं तनुर्नीता वीतहव्यस्य राघव ॥ ५४ ॥ अन्यच्च श्रृणु मे राम स्पन्दो नाशस्य कारणम् । विकारः स च चित्तोत्थो वातजो वा जगत्स्थितौ ॥ ५५ ॥ प्राणानां प्राणनं स्पन्दस्तच्छान्तौ ते दृषत्समाः । यतः स्थिता धारणया तेनानष्टास्य सा तनुः ॥ ५६ ॥ सबाह्याभ्यन्तरं स्पन्दश्चित्तजो वातजोऽथवा । न यस्य विद्यते तस्य दूरस्थौ प्रकृतिक्षयौ ॥ ५७ ॥ सबाह्याभ्यन्तरे शान्ते स्पन्दे तत्त्वविदां वर । धातवः संस्थितिं देहे न त्यजन्ति कदाचन ॥ ५८ ॥ संशान्ते देहप्रस्पन्दे चित्तवातमये तथा । धातवो मैरवं स्थैर्यं यान्ति संस्तम्भितात्मकाः ॥ ५९ ॥ तथा च दृश्यते लोके स्पन्दशान्तौ दृढा स्थितिः । दारूणामिव धीराणां शवाङ्गानामचोपता ॥ ६० ॥ इति वर्षसहस्राणि देहा जगति योगिनाम् । न क्लिद्यन्ते न भिद्यन्ते मग्नवज्जलदा इव ॥ ६१ ॥ तदैव वीतहव्योऽसौ श्रृणु किं नोपशान्तवान् । देहमुत्सृज्य तत्त्वज्ञो ज्ञातज्ञेयवतां वरः ॥ ६२ ॥ ये हि विज्ञातविज्ञेया वीतरागा महाधियः । विच्छिन्नग्रन्थयः सर्वे ते स्वतन्त्रास्तनौ स्थिताः ॥ ६३ ॥ दैवं वापि च कर्माणि प्राक्तनान्यैहिकानि च । वासना वा न तेषां तच्चेतो नियमयन्त्यलम् ॥ ६४ ॥ तेन तत्त्वविदां तात काकतालीयवन्मनः । यद्यद्भावयति क्षिप्रं तत्तदाशु करोत्यलम् ॥ ६५ ॥ काकतालीययोगेन वीतहव्यस्य संविदा । सांप्रतं जीवितं बुद्धं तदेवाशु स्थिरीकृतम् ॥ ६६ ॥ यदा तु तस्य प्रतिभा विदेहोन्मुक्ततां गता । तदा विदेहमुक्तोऽभूदसौ स्वातन्त्र्यसंस्थितिः ॥ ६७ ॥ विगतवासनमाशु विपाशतामुपगतं मन आत्मतयोदितम् । यदभिवाञ्छति तद्भवति क्षणात्सकलशक्तिमयो हि महेश्वरः ॥ ६८ ॥

हिन्दी अर्थ

उपाधियों से तथा इन उपाधियों से होनेवाले प्रियादि-संगों से रहित थे, वह विवेकी वीतहव्य मुनि चिरकाल तक चित्तशुद्धि के शोकशून्य उपायों के अनुष्ठानं से यानी श्रवण, मनन, निदिध्यासनरूप साक्षात्कार प्रयोजक समाधि भूमिका के अभ्यासो से अपने हृदय में अनुसृत यानी अनुसरण द्वारा साक्षात्कृत अपने स्वभावभूत, निर्मल असीम मोक्षपद को प्राप्त हुए