Yoga Vasistha — Upashama Prakarana (Dissolution), Sarga 71, Verses 32–72
This page presents the Yoga Vasistha (Yogvashistha), Upashama Prakarana (Dissolution), Sarga 71, verses 32–72 — the original Sanskrit shloka(s) with their Hindi meaning.
उपशम प्रकरण · सर्ग 71 · श्लोक 32
संस्कृत श्लोक
यथा शीतोष्णयोरैक्यं कथास्वपि न दृश्यते ।
जडप्रकाशयोः श्लेषो न तथात्मशरीरयोः ॥ ३२ ॥
देहश्चलति वातेन तेनैवायाति गच्छति ।
शब्दं करोति वातेन देहनाडीविलासिना ॥ ३३ ॥
शब्दः कचटतप्रायः स्फुरत्यन्तः समीरणैः ।
यथा प्रजायते वंशाद्देहरन्ध्रात्तथैव हि ॥ ३४ ॥
कनीनिकापरिस्पन्दश्चक्षुःस्पन्दस्य मारुतात् ।
इन्द्रियस्फुरणात्सैव संवित्केवलमात्मनः ॥ ३५ ॥
आकाशोपलकुड्यादौ सर्वत्रात्मदशा स्थिता ।
प्रतिबिम्बमिवादर्शे चित्त एवात्र दृश्यते ॥ ३६ ॥
शरीरालयमुत्सृज्य यत्र चित्तविहंगमः ।
स्ववासनावशाद्याति तत्रैवात्मानुभूयते ॥ ३७ ॥
यत्र पुष्पं तत्र गन्धसंविदः संस्थिता यथा ।
यत्र चित्तं हि तत्रात्मसंविदः संस्थितास्तथा ॥ ३८ ॥
सर्वत्र स्थितमाकाशमादर्शे प्रतिबिम्बति ।
यथा तथात्मा सर्वत्र स्थितश्चेतसि दृश्यते ॥ ३९ ॥
अपामवनतं स्थानमास्पदं भूतले यथा ।
अन्तःकरणमेवात्मसंविदामास्पदं तथा ॥ ४० ॥
सत्यासत्यं जगद्रूपमन्तःकरणबिम्बिता ।
आत्मसंवित्तनोतीदमालोकमिव सूर्यभा ॥ ४१ ॥
अन्तःकरणमेवातः कारणं भूतसंसृतौ ।
आत्मा सर्वातिगत्वात्तु कारणं सदकारणम् ॥ ४२ ॥
अविचारणमज्ञानं मौर्ख्यमाहुर्महाधियः ।
संसारसंसृतौ सारमन्तःकरणकारणम् ॥ ४३ ॥
असम्यक्प्रेक्षणान्मोहाच्चेतःसत्तां गृहीतवत् ।
संमोहबीजकणिकां तमोऽर्कादिव दृश्यते ॥ ४४ ॥
यथा भूतात्मतत्त्वैकपरिज्ञानेन राघव ।
असत्तामेत्यलं चेतो दीपेनेव तमः क्षणात् ॥ ४५ ॥
संसारकारणमितः स्वयं चेतो विचारयेत् ।
जीवोऽन्तःकरणं चित्तं मनश्चेत्यादिनामकम् ॥ ४६ ॥
श्रीराम उवाच ।
एताः संज्ञाः प्रभो ब्रह्मंश्चेतसो रूढिमागताः ।
कथमित्येव कथय मयि मानद सिद्धये ॥ ४७ ॥
श्रीवसिष्ठ उवाच ।
सर्वे भावा इमे नित्यमात्मतत्वैकरूपिणः ।
चित्तात्तरङ्गकगणा जलैककलिता यथा ॥ ४८ ॥
आत्मा स्पन्दैकरूपात्मा स्थितस्तेषु क्वचित्क्वचित् ।
तरङ्गेषु विलोलेषु पयोधेः सलिलं यथा ॥ ४९ ॥
क्वचिदस्पन्दरूपात्मा स्थितस्तेषु महेश्वरः ।
तरङ्गत्वमयातेषु जलभावो जलेष्विव ॥ ५० ॥
तत्रोपलादयो भावा अलोलाः स्वात्मनि स्थिताः ।
सुराफेनवदुत्स्पन्दा लोलास्तु पुरुषादयः ॥ ५१ ॥
तत्र तेषु शरीरेषु सर्वशक्तिस्तदात्मनः ।
कलिताऽज्ञानकलना तेनाज्ञानमसौ स्थितः ॥ ५२ ॥
तदज्ञानमनन्तात्मभूषितं जीव उच्यते ।
स संसारे महामोहमायापञ्जरकुञ्जरः ॥ ५३ ॥
जीवनाज्जीव इत्युक्तोऽहंभावः स्यात्त्वहंतया ।
बुद्धिर्निश्चायकत्वेन संकल्पकलनान्मनः ॥ ५४ ॥
प्रकृतिः प्रकृतित्वेन देहो दिग्धतया स्थितः ।
जडः प्रकृतिभावेन चेतनः स्वात्मसत्तया ॥ ५५ ॥
जडाजडदृशोर्मध्यं यत्तत्त्वं पारमात्मिकम् ।
तदेतदेव नानात्वं नानासंज्ञाभिराततम् ॥ ५६ ॥
एवं स्वरूपं जीवस्य बृहदारण्यकादिषु ।
बहुधा बहुषु प्रोक्तं वेदान्तेषु किलानघ ॥ ५७ ॥
अज्ञैस्त्वेतासु संज्ञासु कुविकल्पकुतार्किकैः ।
मोहाय केवलं मूढैर्व्यर्थमास्थाः प्रकल्पिताः ॥ ५८ ॥
एवमेष महाबाहो जीवः संसारकारणम् ।
मूकेनातिवराकेण देहकेनेह किं कृतम् ॥ ५९ ॥
आधाराधेययोरेकनाशे नान्यस्य नष्टता ।
यथा तथा शरीरादिनाशे नात्मनि नष्टता ॥ ६० ॥
एकपर्णरसे क्षीणे रसो नैति यथा क्षयम् ।
याति पर्णरसश्चार्करश्मिजालान्तरे यथा ॥ ६१ ॥
शरीरसंक्षये देही न क्षयं याति कस्यचित् ।
निर्वासनश्चेत्तद्व्योम्नि तिष्ठत्यात्मपदे तथा ॥ ६२ ॥
देहनाशे विनष्टोऽस्मीत्येवं यस्याऽमतेर्भ्रमः ।
मातुः स्तनतटात्तस्य मन्ये वेताल उत्थितः ॥ ६३ ॥
यस्य ह्यात्यन्तिको नाशः स्यादसावुदितः स्मृतः ।
चित्तनाशो हि नाशः स्यात्स मोक्ष इति कथ्यते ॥ ६४ ॥
मृतो नष्ट इति प्रोक्तो मन्ये तच्च मृषा ह्यसत् ।
स देशकालान्तरितो भूत्वा भूत्वानुभूयते ॥ ६५ ॥
इहोह्यन्ते जनैरेवं तरङ्गान्तस्तृणैरिव ।
मरणव्यपदेशासु देशकालतिरोहितैः ॥ ६६ ॥
वासनावस्थितो जीवो यात्युत्सृज्य शरीरकम् ।
कपिर्वनतरुं त्यक्त्वा तर्वन्तरमिवास्थितः ॥ ६७ ॥
पुनस्तदपि संत्यज्य गच्छत्यन्यदपि क्षणात् ।
अन्यस्मिन्वितते देशे कालेऽन्यस्मिंश्च राघव ॥ ६८ ॥
इतश्चेतश्च नीयन्ते जीवा वासनया स्वया ।
चिरं तदपिजीविन्या धूर्त्या धात्र्यैव बालकाः ॥ ६९ ॥
वासनारज्जुवलिता जीर्णाः पर्वतकुक्षिषु ।
जरयन्त्यतिदुःखेन जीवितं जीवजीविकाः ॥ ७० ॥
जरठजरदुपोढदुःखभाराः परिणतिजर्जरजीविताश्च सत्यः ।
हृदयजनितवासनानुवृत्त्या नरकभरे जनताश्चिरं पतन्ति ॥ ७१ ॥
श्रीवाल्मीकिरुवाच ।
इत्युक्तवत्यथ मुनौ दिवसो जगाम सायंतनाय विधयेऽस्तमिनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश्च सहाजगाम ॥ ७२ ॥
हिन्दी अर्थ
इस प्रकार जीवन भर ज्ञानी की तुर्यावस्था रहती है, यह कह कर अन्त में विदेह अवस्था को प्राप्त
हुए ज्ञानी की तुर्यातीत अवस्था होती है, यह कहते हैं ।
अनानन्दपद की (अवस्थात्रयपद की) अपेक्षा महत् होने से तुर्यपद महानन्द कहलाता है, यह
महानन्दपद जीवन्मुक्त पुरुष को सदा सर्वदा ही रहता है। विदेह मुक्ति में तत्त्वज्ञ को अनानन्दपद का
स्मरण नहीं होता, अतः उसकी अपेक्षा महत् का भी आकलन न होने से अनानन्द ओर महानन्द दोनों
से अतीत हो गया है, इससे भी मुक्त योगी तु्यतीत अवस्था को प्राप्त हुआ ऐसा कहा जाता है