Guru's AddaGuru's Adda

Yoga Vasistha — Upashama Prakarana (Dissolution), Sarga 70, Verses 12–33

This page presents the Yoga Vasistha (Yogvashistha), Upashama Prakarana (Dissolution), Sarga 70, verses 12–33 — the original Sanskrit shloka(s) with their Hindi meaning.

उपशम प्रकरण · सर्ग 70 · श्लोक 12

संस्कृत श्लोक

चित्ते चित्तदशाहीने या स्थितिः क्षीणचेतसाम् । सोच्यते शान्तकलना जाग्रत्येव सुषुप्तता ॥ १२ ॥ तां सुषुप्तदशामेत्य जीवन्व्यवहरन्नरः । सुखदुःखवरत्राभिर्न कदाचन कृष्यते ॥ १३ ॥ जाग्रत्येव सुषुप्तस्थो यः करोति जगत्क्रियाम् । तं यन्त्रपुत्रकमिव नायाति सुखदुःखदृक् ॥ १४ ॥ चित्तस्य बाधिका शक्तिर्भावाभावोपतापदा । आत्मतामागते चित्ते तस्य किं बाधते कथम् ॥ १५ ॥ सुषुप्तबुद्धिः कर्माणि पूर्वमेवावहेलया । कुर्वन्न बध्यते जीवो जीवन्मुक्ततया स्थितः ॥ १६ ॥ सौषुप्तीं वृत्तिमाश्रित्य कुरु मा कुरु वानघ । कर्म प्रकृतिजं पाकवशादुपगतं स्थितम् ॥ १७ ॥ नादानं न परित्यागः कर्मणोऽज्ञाय रोचते । तिष्ठन्त्यवगतात्मानो यथाप्राप्तानुवर्तिनः ॥ १८ ॥ कुर्वन्नपि न कर्तासि सुषुप्त्यैकस्थया धिया । अकर्तापि च कर्तासि यथेच्छसि तथा कुरु ॥ १९ ॥ यथा न किंचित्कलयन्मञ्चके स्पन्दते शिशुः । तथा फलान्यकलयन्कुरु कर्माणि राघव ॥ २० ॥ अचेत्यचित्पदस्वस्थो जाग्रत्यपि सुषुप्तधीः । यद्यत्करोति लब्धात्मा तस्मिंस्तस्य न कर्तृता ॥ २१ ॥ दशामासाद्य सौषुप्तीं स्वचित्ते च विवासनः । अन्तः शीतलतामेति ज्ञो रसेन यथा शशी ॥ २२ ॥ सुषुप्तस्थो महातेजाः पूर्णः पूर्णेन्दुबिम्बवत् । समः सर्वास्ववस्थासु भवत्यद्रिर्यथर्तुषु ॥ २३ ॥ सुषुप्तसंस्थो धीरात्मा बहिरायाति लोलताम् । क्रियासु नो भवत्कम्पः प्रस्पन्दित इवाचलः ॥ २४ ॥ सुषुप्तावस्थितो भूत्वा देहं विगतकल्मषः । पातयाश्वथ वा दीर्घं कालं धारय शैलवत् ॥ २५ ॥ एषैव राम सौषुप्ती स्थितिरभ्यासयोगतः । प्रौढा सती तुर्यमिति कथिता तत्त्वकोविदैः ॥ २६ ॥ आनन्दमय एवान्तः प्रक्षीणसकलामयः । अत्यन्तास्तं गतमना भवति ज्ञो महोदयः ॥ २७ ॥ तत्रस्थो ज्ञः प्रमुदितः परमानन्दघूर्णितः । लीलामिवेमां रचनां सदा समनुपश्यति ॥ २८ ॥ वीतशोकभयायासो गतसंसारसंभ्रमः । तुर्यावस्थामुपारूढो भूयः पतति नात्मवान् ॥ २९ ॥ प्राप्य स्वां पदवीं पुण्यां यथेदं भ्रमितं जगत् । शैलसंस्थ इवाधःस्थं हसन्पश्यति धीरधीः ॥ ३० ॥ अस्यां तु तुर्यावस्थायां स्थितिं प्राप्याविनाशिनीम् । आनन्दैकान्तलीनत्वादनानन्दपदं गतः ॥ ३१ ॥ अनानन्दमहानन्दकलातीतस्ततोऽपि हि । मुक्त इत्युच्यते योगी तुर्यातीतं पदं गतः ॥ ३२ ॥ परिगलितसमस्तजन्मपाशः सकलविलीनतमोमयाभिमानः । परमरसमयीं प्रयाति सत्तां जलगतसैन्धवखण्डवन्महात्मा ॥ ३३ ॥

हिन्दी अर्थ

हे रामचन्द्रजी, जिसने अपने स्वरूप में परम विश्रान्ति प्राप्त कर ली है, जिसका अन्तःकरण आत्म-साक्षात्काररूप महान्‌ उदय को प्राप्त कर चुका है एवं जिसकी व्यवहार ओर तत्‌ सम्बन्धी फलों मे तनिक भी इच्छा नहीं रह गई है, ऐसा जीव भले ही लोकदृष्ट्या व्यवहार करे, तथापि वह कर्मजनित फलों का स्वल्प भी सम्बन्ध प्राप्त नहीं करता, क्योकि वह सम्बन्ध की हेतु अविद्या, काम ओर कर्म की वासनाओं से शून्य है, हाँ, उस समय वह तब तक देह भार को सहता रहता है, जब तक कि प्रारब्ध का क्षय नहीं होता