Yoga Vasistha — Sthiti Prakarana (Existence), Sarga 1, Verses 1–14
This page presents the Yoga Vasistha (Yogvashistha), Sthiti Prakarana (Existence), Sarga 1, verses 1–14 — the original Sanskrit shloka(s) with their Hindi meaning.
स्थिति प्रकरण · सर्ग 1 · श्लोक 14
संस्कृत श्लोक
अथोत्पत्तिप्रकरणादनन्तरमिदं श्रृणु ।
स्थितिप्रकरणं राम ज्ञातं निर्वाणकारि यत् ॥ १ ॥
एवं तावदिदं विद्धि दृश्यं जगदिति स्थितम् ।
अहं चेत्याद्यनाकारं भ्रान्तिमात्रमसन्मयम् ॥ २ ॥
अकर्तृकमरङ्गं च गगने चित्रमुत्थितम् ।
अद्रष्टृकं चानुभवमनिद्रं स्वप्नदर्शनम् ॥ ३ ॥
भविष्यत्पुरनिर्माणं चित्तसंस्थमिवोदितम् ।
मर्कटानलतापान्तमसदेवार्थसाधकम् ॥ ४ ॥
ब्रह्मण्यनन्यदन्याभमम्ब्वावर्तवदास्थितम् ।
सद्रूमपि निःशून्यं तेजः सौरमिवाम्बरे ॥ ५ ॥
रत्नाभापुंजमिव खे दृश्यमानमभित्तिमत् ।
गन्धर्वाणां पुरमिव दृश्यं नित्यमभित्तिमत् ॥ ६ ॥
मृगतृष्णाम्ब्विवासत्यं सत्यवत्प्रत्ययप्रदम् ।
संकल्पपुरवत्प्रौढमनुभूतमसन्मयम् ॥ ७ ॥
कथार्थप्रतिभानात्म न क्वचित्स्थितमस्थितम् ।
निःसारमप्यतीवान्तःसारं स्वप्नाचलोपमम् ॥ ८ ॥
भूताकाशमिवाकारभासुरं शून्यमात्रकम् ।
शरदभ्रमिवाग्रस्थमलमक्षयमक्षतम् ॥ ९ ॥
वर्णो व्योममलस्येव दृश्यमानमवस्तुकम् ।
स्वप्नाङ्गनारताकारमर्थनिष्ठमनर्थकम् ॥ १० ॥
चित्रोद्यानमिवोत्फुल्लमरसं सरसाकृति ।
प्रकाशमपि निस्तेजश्चित्रार्कानलवत्स्थितम् ॥ ११ ॥
अनुभूतं मनोराज्यमिवासत्यमवास्तवम् ।
चित्रपद्माकर इव सारसौगन्ध्यवर्जितम् ॥ १२ ॥
शून्ये प्रकचितं नानावर्णमाकारितात्मकम् ।
अपिण्डग्रहमाशून्यमिन्द्रचापमिवोत्थितम् ॥ १३ ॥
परामर्शेन शुष्यद्भिर्भूतपेलवपल्लवैः ।
कृतं जडमसारात्म कदलीस्तम्भभासुरम् ॥ १४ ॥
हिन्दी अर्थ
चित्र वायु, सूर्य और मनुष्यों के थोडे से आघात से सूख रहे कोमल पत्तों से रचित जलमय निःसार केले
के खम्भे के तुल्य है