Yoga Vasistha — Utpatti Prakarana (Creation), Sarga 98, Verses 35–42
This page presents the Yoga Vasistha (Yogvashistha), Utpatti Prakarana (Creation), Sarga 98, verses 35–42 — the original Sanskrit shloka(s) with their Hindi meaning.
उत्पत्ति प्रकरण · सर्ग 98 · श्लोक 35
संस्कृत श्लोक
पलायमानः पतितो महत्यन्धेऽन्धकूपके ।
तत्राहं सुचिरं कालमवसं तत्प्रतीक्षकः ॥ ३५ ॥
यावत्स सुचिरेणापि कूपान्नाभ्युदितः शठः ।
अथाहमुत्थितो गन्तुं दृष्टवान्पुरुषं पुनः ॥ ३६ ॥
तादृशं तादृशाकारं प्रपतन्तं तथैव च ।
अवष्टभ्य तथैवाशु तस्य प्रोक्तं पुनर्मया ॥ ३७ ॥
तथैवोत्पलपत्राक्ष नासौ तदवबुद्धवान् ।
केवलं मामसौ मूढो नैव जानासि किंचन ॥ ३८ ॥
आः पाप दुर्द्विजेत्युक्त्वा स्वव्यापारपरो ययौ ।
अथ तस्मिन्महारण्ये तथा विहरता मया ॥ ३९ ॥
बहवस्तादृशा दृष्टाः पुरुषा दोषकारिणः ।
मत्पृष्टाः केचिदायान्ति स्वप्नसंभ्रमवच्छमम् ॥ ४० ॥
मदुक्तं नाभिनन्दन्ति केचिच्छवतनुं यथा ।
विनिपत्यान्धकूपेभ्यः केचित्तत्प्रोत्थिताः पुनः ॥ ४१ ॥
कदलीखण्डकात्केचिच्चिरेणापि न निर्गताः ।
केचिदन्तर्हिताः स्फारे करञ्जवनगुल्मके ॥ ४२ ॥
हिन्दी अर्थ
दौड़ते-दौड़ते अन्धकाराच्छन्न बड़े भारी कुएँ मैं गिर
पड़ा । उसकी प्रतीक्षा के लिए मैं वहाँ पर बहुत देर तक टिका रहा