Yoga Vasistha — Utpatti Prakarana (Creation), Sarga 9, Verses 56–75
This page presents the Yoga Vasistha (Yogvashistha), Utpatti Prakarana (Creation), Sarga 9, verses 56–75 — the original Sanskrit shloka(s) with their Hindi meaning.
उत्पत्ति प्रकरण · सर्ग 9 · श्लोक 56-75
संस्कृत श्लोक
ज्वलतः सर्वतोऽजस्रं चित्तस्थानेषु तिष्ठतः ।
यस्य चिन्मात्रदीपस्य भासा भाति जगत्त्रयम् ॥ ५६ ॥
यं विनाऽर्कादयोऽप्येते प्रकाशास्तिमिरोपमाः ।
सति यस्मिन्प्रवर्तन्ते त्रिजगन्मृगतृष्णिकाः ॥ ५७ ॥
सस्पन्दे समुदेतीव निःस्पन्दान्तर्गते न च ।
इयं यस्मिञ्जगल्लक्ष्मीरलात इव चक्रता ॥ ५८ ॥
जगन्निर्माणविलयविलासो व्यापको महान् ।
स्पन्दास्पन्दात्मको यस्य स्वभावो निर्मलोऽक्षयः ॥ ५९ ॥
स्पन्दास्पन्दमयी यस्य पवनस्येव सर्वगा ।
सत्ता नाम्नैव भिन्नेव व्यवहारान्न वस्तुतः ॥ ६० ॥
सर्वदैव प्रबुद्धो यः सुप्तो यः सर्वदैव च ।
न सुप्तो न प्रबुद्धश्च यः सर्वत्रैव सर्वदा ॥ ६१ ॥
यदस्पन्दं शिवं शान्तं यत्स्पन्दं त्रिजगत्स्थितिः ।
स्पन्दास्पन्दविलासात्मा य एको भरिताकृतिः ॥ ६२ ॥
आमोद इव पुष्पेषु न नश्यति विनाशिषु ।
प्रत्यक्षस्थोऽप्यथाग्राह्यः शौक्ल्यं शुक्लपटे यथा ॥ ६३ ॥
मूकोपमोऽपि योऽमूको मन्ता योऽप्युपलोपमः ।
यो भोक्ता नित्यतृप्तोऽपि कर्ता यश्चाप्यकिंचनः ॥ ६४ ॥
योऽनङ्गोऽपि समस्ताङ्गः सहस्रकरलोचनः ।
न किंचित्संस्थितेनापि येन व्याप्तमिदं जगत् ॥ ६५ ॥
निरिन्द्रियबलस्यापि यस्याशेषेन्द्रियक्रियाः ।
यस्य निर्मननस्यैता मनोनिर्माणरीतयः ॥ ६६ ॥
यदनालोकनाद्भान्तिसंसारोरगभीतयः ।
यस्मिन्दृष्टे पलायन्ते सर्वाशाः सर्वभीतयः ॥ ६७ ॥
साक्षिणि स्फार आभासे ध्रुवे दीप इव क्रियाः ।
सति यस्मिन्प्रवर्तन्ते चित्तेहाः स्पन्दपूर्विकाः ॥ ६८ ॥
यस्माद्धटपटाकारपदार्थशतपङ्कतयः ।
तरङ्गगणकल्लोलवीचयो वारिधेरिव ॥ ६९ ॥
स एवान्यतयोदेति यत्पदार्थशतभ्रमैः ।
कटकाङ्गदकेयूरनूपुरैरिव काञ्चनम् ॥ ७० ॥
यस्त्वमेकोऽवभासात्मा योऽहमेते जनाश्च ये ।
यश्च न त्वमबुद्धात्मा नाहं नैते जनाश्च यः ॥ ७१ ॥
अन्येवाप्यतिरिक्तेव सैवासेव च भङ्गुरा ।
पयसीव तरङ्गाली यस्मात्फुरति दृश्यभूः ॥ ७२ ॥
यतः कालस्य कलना यतो दृश्यस्य दृश्यता ।
मानसी कलना येन यस्य भासा विभासनम् ॥ ७३ ॥
क्रियां रूपं रसं गन्धं शब्दं स्पर्शं च चेतनम् ।
यद्वेत्सि तदसौ देवो येन वेत्सि तदप्यसौ ॥ ७४ ॥
द्रष्टुरदर्शनदृश्यानां मध्ये यद्दर्शनं स्थितम् ।
साध्यो तदवधानेन स्वात्मानमवबुध्यसे ॥ ७५ ॥
हिन्दी अर्थ
हुआ त्वद्रूप ही एक है, मुझसे साक्षात्कृतस्वरूप होता हुआ मद्रूप ही एक है और अन्य जनों
द्वारा साक्षात्कृतस्वरूप होता हुआ तत् तत् रूप ही एक है तथा जो अज्ञातस्वरूप होता हुआ न
त्वद्रू है, न मद्रूप है ओर न अन्य जनरूप हे । जैसे जल में क्षण में नष्ट होनेवाली तरगों की
पंक्ति स्फुरित होती है, वैसे ही जिससे अनन्य होती हुई भी अन्य-सी, पृथक् न होती हुई भी
पृथक्-सी, प्रथमतः सिद्ध हुई भी उत्पन्न हुई-सी यह विनाशशील दृश्यपरम्परा स्फुरित होती
है। जिससे काल के छः भावविकार, दृश्य की दृश्यता तथा इष्टप्राप्ति एवं अनिष्ट परिहारविषयक
विविध मनोरथ होते हैं, ये तीन जिसकी दीप्ति से जगत् के प्रकाशरूप ही हैं, उससे अन्य कुछ
नहीं हे । हे राम, आप क्रिया, रूप, रस, गन्ध, शब्द, स्पर्श, चेतन को यत्स्वरूप होकर जानते
हो, वह चिद्रूप भी वही है ओर जिससे जानते हो, वह भी वही है । द्रष्टा, दर्शन और दृश्य के
मध्य में साक्षीरूप से जो स्थित है । स्वात्मभूत उसको एकाग्र मन से उपाधियों से पृथक् करके
हे साधो आप समझिए