Yoga Vasistha — Utpatti Prakarana (Creation), Sarga 41, Verses 29–33
This page presents the Yoga Vasistha (Yogvashistha), Utpatti Prakarana (Creation), Sarga 41, verses 29–33 — the original Sanskrit shloka(s) with their Hindi meaning.
उत्पत्ति प्रकरण · सर्ग 41 · श्लोक 29-33
संस्कृत श्लोक
परिज्ञाता प्रसादेन देव्योरिह मयाधुना ।
राजोवाच ।
हे देव्यौ किमिदं नाम दिनमेकं मृतस्य मे ॥ २९ ॥
गतमद्येह जातानि वयो वर्षाणि सप्ततिः ।
स्मराम्यनेककार्याणि स्मरामि प्रपितामहम् ॥ ३० ॥
स्मरामि बाल्यं तारुण्यं मित्रं बन्धुपरिच्छदम् ।
ज्ञप्तिरुवाच ।
राजन्मृतिमहामोहमूर्च्छायाः समनन्तरम् ॥ ३१ ॥
तस्मिँल्लोकान्तरेऽतीते तस्मिन्नेव मुहूर्तके ।
तस्मिन्नेव गृहे चास्मिन्नेव व्योम्न्यपि सद्मनि ॥ ३२ ॥
अयं तस्य गृहस्यान्तर्व्योमन्येव किल स्थिते ।
गिरिग्रामकविप्रस्य गृहेऽन्तर्भूप मण्डपः ॥ ३३ ॥
हिन्दी अर्थ
प्रधान राजसदन के अन्दर आकाश में ही यह ब्रह्माण्डमण्डप हे । उस ब्रह्माण्डमण्डप के अन्दर
यह प्रत्यक्ष देखा जाता हुआ तुम्हारा जन्म आदि आपाततः प्रतीत हो रहा है