Yoga Vasistha — Mumukshu Vyavahara Prakarana (Conduct of the Seeker), Sarga 16, Verses 21–29
This page presents the Yoga Vasistha (Yogvashistha), Mumukshu Vyavahara Prakarana (Conduct of the Seeker), Sarga 16, verses 21–29 — the original Sanskrit shloka(s) with their Hindi meaning.
मुमुक्षु-व्यवहार प्रकरण · सर्ग 16 · श्लोक 21-29
संस्कृत श्लोक
एकस्मिन्नेव वै तेषामभ्यस्ते विमलोदये ।
चत्वारोऽपि किलाभ्यस्ता भवन्ति सुधियां वर ॥ २१ ॥
एकोऽप्येकोऽपि सर्वेषामेषां प्रसवभूरिह ।
सर्वसंसिद्धये तस्मात्यत्नेनैकं समाश्रयेत् ॥ २२ ॥
सत्समागमसंतोषविचाराः सुविचारितम् ।
प्रवर्तन्ते शमस्वच्छे वाहनानीव सागरे ॥ २३ ॥
विचारसंतोषशमसत्समागमशालिनि ।
प्रवर्तन्ते श्रियो जन्तौ कल्पवृक्षाश्रिते यथा ॥ २४ ॥
विचारशमसत्सङ्गसंतोषवति मानवे ।
प्रवर्तन्ते प्रपूर्णेन्दौ सौन्दर्याद्या गुणा इव ॥ २५ ॥
सत्सङ्गसंतोषशमविचारवति सन्मतौ ।
प्रवर्तन्ते मन्त्रिवरे राजनीव जयश्रियः ॥ २६ ॥
तस्मादेकतमं नित्यमेतेषां रघुनन्दन ।
पौरुषेण मनो जित्वा यत्नेनाभ्याहरेद्गुणम् ॥ २७ ॥
परं पौरुषमाश्रित्य जित्वा चित्तमतङ्गजम् ।
यावदेको गुणो नान्तस्तावन्नास्त्युत्तमा गतिः ॥ २८ ॥
पौरुषेण प्रयत्नेन दन्तैर्दन्तान्विचूर्णयेत् ।
यावन्नाभिनिविष्टं ते मनो राम गुणार्जने ॥ २९ ॥
हिन्दी अर्थ
अर्थात् गुणार्जन के लिए अत्यन्त उद्योग करना चाहिए