Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 213, Verses 26–50
This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 213, verses 26–50 — the original Sanskrit shloka(s) with their Hindi meaning.
निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 213 · श्लोक 26
संस्कृत श्लोक
शिष्य उवाच ।
एवं चेत्तद्यथा स्वप्ने द्रष्टुरन्यः स दृश्यधीः ।
विद्यते तद्वदन्यत्र मन्येऽस्ति जगदादिधीः ॥ २६ ॥
गुरुरुवाच ।
एवमेतन्महाप्राज्ञ स्वरूपं तु न तज्जगत् ।
चिति भाति स्वरूपं तत्तद्वदेव न भाति च ॥ २७ ॥
न भाति न च तत्किंचिन्न च तत्किंचिदेव सत् ।
तच्चिदाकाशकचनं के तत्र सदसदृशौ ॥ २८ ॥
विद्यते तद्धि सर्वत्र सर्वं सर्वेण सर्वदा ।
न विद्यते च तत्किंचित्सर्वं सर्वत्र सर्वदा ॥ २९ ॥
तत्सत्तत्सर्वदा सर्वमसच्चासद्धि वाखिलम् ।
तन्मयं तच्चिदाकाशं न नाशि न च नाशि तत् ॥ ३० ॥
यन्नाम सच्चिदाकाशं सर्गप्रलयरूपि तत् ।
तदुःखायापरिज्ञातं परिज्ञातं परः शमः ॥ ३१ ॥
विद्यते सर्वथैवेदं सर्वं सर्वत्र सर्वदा ।
न विद्यते सर्वथा च सर्वं सर्वत्र सर्वदा ॥ ३२ ॥
एष देवो घटः शैलः पटः स्फोटस्तटो वटः ।
तृणमग्निः स्थावरं च जंगमं सर्वमेव च ॥ ३३ ॥
अस्ति नास्ति च शून्यं च क्रिया कालो नभो मही ।
भावाभावौ भवो भूतिर्नाशाः पाशाः शुभाशुभाः ॥ ३४ ॥
तन्नास्त्येव न यन्नाम नित्यमेकस्तथा बहिः ।
आदिमध्यमथान्तं तु कालत्रितयमेव च ॥ ३५ ॥
सर्वं सर्वेण सर्वत्र सर्वदैवात्र विद्यते ।
सर्वं सर्वेण सर्वत्र सर्वदात्र न विद्यते ॥ ३६ ॥
यदैवं राम सर्वात्म सर्वमेवास्ति सर्वदा ।
ब्रह्मात्मत्वात्स्वप्नसंवित्पुरन्यायेन वै तदा ॥ ३७ ॥
तृणं कर्तृ तृणं भोक्तृ ब्रह्मात्मत्वात्तृणं विभुः ।
घटः कर्ता घटो भोक्ता घटः सर्वेश्वरेश्वरः ॥ ३८ ॥
पटः कर्ता पटो भोक्ता पटः सर्वेश्वरेश्वरः ।
दृशिः कर्ता दृशिर्भोक्ता दृशिः सर्वेश्वरेश्वरः ॥ ३९ ॥
गिरिः कर्ता गिरिर्भोक्ता गिरिः सर्वेश्वरेश्वरः ।
नरः कर्ता नरो भोक्ता नरः सर्वेश्वरेश्वरः ॥ ४० ॥
प्रत्येकं सर्ववस्तूनां कर्ता भोक्ता परात्परः ।
अनादिनिधनो धाता सर्वं ब्रह्मात्मकं यतः ॥ ४१ ॥
तृणकुम्भादयस्त्वेते स्वया विभुतया विभुः ।
एवंरूपा स्थिता रूपं यद्विभातः क्षयोदयौ ॥ ४२ ॥
बाह्योऽर्थोस्ति स एवेह कर्ता भोक्ता तथाविधः ।
विज्ञानमात्रमेवास्ति कर्तृ भोक्तृ तथाविदाम् ॥ ४३ ॥
न कश्चिच्चैव कर्तेह न च भोक्ता तथाविदाम् ।
कश्चिदीश्वर एवेह कर्ता भोक्ता तथाविदाम् ॥ ४४ ॥
सर्वमेव पदे तस्मिन्संभवत्युत्तमोत्तमे ।
विधयः प्रतिषेधाश्च के ते सन्ति न सन्ति के ॥ ४५ ॥
शुद्धे द्रष्टेव चिद्व्योम दृश्यतामिव भावयत् ।
स्वमात्मानं जगदिति पश्येत्तिष्ठेदनामयम् ॥ ४६ ॥
सर्वा दृशो विधिनिषेधदृशश्च सर्वाः संकल्पवेदनविशेषसशेषपूर्वाः ।
सत्यात्मिकाः सततमेव न चैव सत्या रूपं यथानुभवमत्र यतः स्वरूपम् ॥ ४७ ॥
इति त्वया शिष्यतया मदन्तिकाच्छ्रुतं पुरा तेन न चासि बुद्धवान् ।
ततोऽनुभूयान्यजगद्भवाद्भवानिहाद्य जातोऽसि तदेव पृच्छसि ॥ ४८ ॥
ज्ञानं सदेतदखिलं श्रुतमुत्तमं चित्संसारदीर्घरजनीसितरश्मिबिम्बम् ।
जातस्त्वमभ्युदयवानमलैकबोध उत्सार्य मोहमनुतिष्ठ यथागतं त्वम् ॥ ४९ ॥
तिष्ठंस्तदात्मनि परे विमलस्वभावे सर्वात्मके तपति सर्वपदार्थमुक्तः ।
निर्वाणशान्तमतिरम्बरकोशकान्तो धर्मेण राज्यमनुपालय तीर्णतृष्णः ॥ ५० ॥
हिन्दी अर्थ
एक, अविनाशी ब्रह्म ही जीव कल्पना की सी भावना कर (जीवभाव का अध्यास कर) आवरणशून्य
जीवसाक्षी चिदाकाश में ही तब तक अत्यन्त विस्तृत दृश्य को देखता है जब तक कि आत्मज्ञान होने से
तत्त्वज्ञान का उदय नहीं होता है