Guru's AddaGuru's Adda

Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 200, Verses 42–66

This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 200, verses 42–66 — the original Sanskrit shloka(s) with their Hindi meaning.

निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 200 · श्लोक 42

संस्कृत श्लोक

शत्रुघ्नो लक्ष्मणश्चैव तथान्ये तत्समाश्च ये । निकटस्थास्तथैवाशु ते प्रणेमुर्मुनीश्वरम् ॥ ४२ ॥ दूरप्रणामैर्दूरस्थाः पुष्पाञ्जलिसमीरणैः । राजानो राजपुत्राश्च प्रणेमुर्मुनयश्च तम् ॥ ४३ ॥ अस्मिन्नवसरे तत्र कुसुमाञ्जलिवर्षणैः । हिमैरिव हिमाद्रीन्द्रो मुनिरन्तर्धिमाययौ ॥ ४४ ॥ अथ शान्ते सभाक्षोमे प्रणामनिवहे तथा । संस्मरञ्छासनं किंचित्सत्ये कृष्णसिताशयम् ॥ ४५ ॥ मुनिः कुसुमराशिं तं बाहुभ्यां प्रविचाल्य सः । मुखं संदर्शयामास सिताभ्रादिव चन्द्रमाः ॥ ४६ ॥ शान्ते सिद्धवचोराशौ तथा दुन्दुभिनिःस्वने । नभःकुसुमवर्षे च सभाकलकले तथा ॥ ४७ ॥ प्रणामानन्तरं तस्मिन्रामाद्यैः स्वसभाजने । शान्तवात इवाम्भोदे जने सौम्यत्वमागते ॥ ४८ ॥ आकर्णयन्साधुवादं विश्वामित्रं मृदुस्वनम् । उवाचेदमनिन्द्यात्मा वसिष्ठो मुनिनायकः ॥ ४९ ॥ मुने गाधिकुलाम्भोज वामदेव निमे क्रतो । भरद्वाज पुलस्त्यात्रे घृष्टे नारद शाण्डिले ॥ ५० ॥ हे भासभृगुभारण्डवत्सवात्स्यायनादयः । मुनयस्तुच्छमेतन्नु भवद्भिर्मद्वचः श्रुतम् ॥ ५१ ॥ यदत्रानुचितं किंचित्तदनुग्रहतोऽधुना । दुरर्थं विगतार्थं वा भवन्तः कथयन्तु मे ॥ ५२ ॥ सभ्या ऊचुः । वसिष्ठवचने ब्रह्मन्परमार्थैकशालिनि । दुरर्थो भवतीत्यद्य नवैव खलु गीः श्रुता ॥ ५३ ॥ यत्संभृतमनन्तेन जन्मदोषेण नो मलम् । तत्प्रमृष्टं त्वयेहाद्य हेम्नामिव हविर्भुजा ॥ ५४ ॥ ब्रह्मबृंहितया वाचा विभो विकसिता वयम् । कुमुदानीन्दुदीप्त्येव परमामृतशीतया ॥ ५५ ॥ सर्वसत्त्वमहाबोधदायिनं मुनिनायकम् । भवन्तमेकान्तगुरुं प्रणमाम इमे वयम् ॥ ५६ ॥ श्रीवाल्मीकिरुवाच । इत्युक्त्वा मुनिनाथाय नमस्त इति ते पुनः । वदन्त एकशब्देन तारेणाब्दरवौजसा ॥ ५७ ॥ अर्वाक्पुष्पाञ्जलिव्रातैः खात्सिद्धैः सममुज्झितैः । वसिष्ठं पूरयामासुर्हिमैरब्दा इवाचलम् ॥ ५८ ॥ इत्थं दशरथं भूपं शशंसुश्चाथ राघवम् । माधवं चतुरात्मानं राघवोदन्तकोविदाः ॥ ५९ ॥ सिद्धा ऊचुः । नमाम चतुरात्मानं नारायणमिवापरम् । रामं सभ्रातरं जीवन्मुक्तं राजकुमारकम् ॥ ६० ॥ तथैव व्योमगाः सिद्धाः शशंसुस्तं जनं पुनः । तथैव सभ्यास्तांस्तत्र समानर्चुर्घनस्तवम् ॥ ६१ ॥ मुनिसेनाधिपं भूपं भास्करं भूरितेजसम् । वसिष्ठं सुप्रवादाढ्यं विश्वामित्रं तपोनिधिम् ॥ ६२ ॥ एषामेव प्रभावेन ज्ञानयुक्तिं परामिमाम् । श्रुतवन्तो वयं सर्वे भ्रान्तिसंरम्भनाशिनीम् ॥ ६३ ॥ श्रीवाल्मीकिरुवाच । इत्युक्त्वा गगनात्सिद्धा भूयः पुष्पाणि चिक्षिपुः । सभायामथ तूष्णीं च तस्थुर्मुदितचेतसः ॥ ६४ ॥ नभश्चरा धरणिचरा मुनीश्वरा महर्षयो विबुधगणा द्विजा नृपाः । अपूजयन्निति जनमोजसैव ते गिरोच्चया सह कुसुमार्घ्यदानया ॥ ६६ ॥

हिन्दी अर्थ

श्रीवाल्मीकिजी ने कहा : मुनिश्रेष्ठ श्रीवसिष्ठजी यह अन्त में कहकर श्रीरामचन्द्रजी के निर्मल बुद्धि से ब्रह्मपद को प्राप्त होने अतएव सकल एषणाओं से विहीन होने पर और सभा में स्थित सब लोगों के समाधिस्थ-से होनेपर उस सभा में स्वयं ब्रह्मरसायन के आसवाद में तत्पर होकर वैसे ही चुप हो गये जैसे कि भ्रमर कमल-राशि में गुंजनकर रस पीने को प्रवृत्त होता है