Guru's AddaGuru's Adda

Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 190, Verses 21–89

This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 190, verses 21–89 — the original Sanskrit shloka(s) with their Hindi meaning.

निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 190 · श्लोक 21

संस्कृत श्लोक

श्रीवसिष्ठ उवाच । एवं चेत्तन्महाबाहो ज्ञप्तिरेव जगत्त्रयम् । विशुद्धज्ञानदेहस्य कुतो मरणजन्मनी ॥ २१ ॥ श्रीराम उवाच । तदेवमादितो नास्ति सर्गस्तदियमागता । कुतः कथमिव भ्रान्तिरिति मे भगवन्वद ॥ २२ ॥ श्रीवसिष्ठ उवाच । कार्यकारणताभावाद्भावाभावौ स्त एव नो । इदं च चेत्यते यद्यत्स्वात्मा चेतति चेतितम् ॥ २३ ॥ श्रीराम उवाच । चेतिता चेतति यन्त्रं द्रष्टा दृश्यत्वमीश्वरः । कथमेति कथं वह्निं दहेत्काष्ठं कदा किल ॥ २४ ॥ श्रीवसिष्ठ उवाच । द्रष्टा न याति दृश्यत्वं दृश्यस्यासंभवादतः । द्रष्टैव केवलो भाति सर्वात्मैकघनाकृतिः ॥ २५ ॥ श्रीराम उवाच । चिन्मात्रं तदनाद्यन्तं चेत्यं चेतयते तदा । तदिदं जगदाभानं कुतः स्याच्चेत्यसंभवः ॥ २६ ॥ श्रीवसिष्ठ उवाच । चेत्यं हि कारणाभावान्न संभवति किंचन । चेत्याभावाच्चेतनस्य मुक्तताऽवाच्यता सदा ॥ २७ ॥ श्रीराम उवाच । एवं चेत्तदहन्तादि चेत्यं कथमिदं कुतः । कथं जगद्वेदनं च कथं स्पन्दादिवेदनम् ॥ २८ ॥ श्रीवसिष्ठ उवाच । कारणासंभवादादावेवोत्पन्नं न किंचन । कुतश्चेत्यमतः शान्तं सर्वं सर्गस्तु विभ्रमः ॥ २९ ॥ श्रीराम उवाच । अत्र मे विगतोल्लेखे निश्चेत्यचलनादिके । सकृद्विभाते विमले विभ्रमः कस्य कीदृशः ॥ ३० ॥ श्रीवसिष्ठ उवाच । कारणाभावतो राम नास्त्येव खलु विभ्रमः । सर्वं त्वमहमित्यादि शान्तमेकमनामयम् ॥ ३१ ॥ श्रीराम उवाच । ब्रह्मन्भ्रममिवापन्नः प्रष्टुं जानामि नाधिकम् । नात्यन्तं च प्रबुद्धोऽस्मि पृच्छामि किमिहाधुना ॥ ३२ ॥ श्रीवसिष्ठ उवाच । कारणस्यैव निकषं पृच्छ माऽऽकारणक्षयात् । परे स्वभावेऽनिर्वाच्ये स्वयं विश्रान्तिमैष्यसि ॥ ३३ ॥ श्रीराम उवाच । मन्येऽहं कारणाभावात्पूर्वमेव न सर्गता । उदिता तेन कस्यायं चेत्यचेतनविभ्रमः ॥ ३४ ॥ श्रीवसिष्ठ उवाच । अकारणत्वात्सर्वत्र शान्तत्वाद्भ्रान्तिरस्ति नो । अनभ्यासवशादेव न विश्राम्यति केवलम् ॥ ३५ ॥ श्रीराम उवाच । कुतो भवेदनभ्यासो भवेदभ्यसनं कुतः । कुतोऽभ्यासात्मिका भ्रान्तिरेषा पुनरुपस्थिता ॥ ३६ ॥ श्रीवसिष्ठ उवाच । अनन्तत्वादनन्तस्य भ्रान्तिर्नास्ति च संप्रति । अभ्यासभ्रान्तिरखिलं महाचिद्धनमक्षतम् ॥ ३७ ॥ श्रीराम उवाच । उपदेश्योपदेशादावनया शब्दसंपदा । किमन्यद्वद मे ब्रह्मन्सर्वस्मिञ्छान्ततां गते ॥ ३८ ॥ श्रीवसिष्ठ उवाच । उपदेश्योपदेशात्म ब्रह्म ब्रह्मणि संस्थितम् । बोधात्मनि न मोक्षोऽस्ति न बन्धोऽस्तीति निश्चयः ॥ ३९ ॥ श्रीराम उवाच । देशकालक्रियाद्रव्यभेदवेदनचेतसाम् । सर्वस्यासंभवे सर्वसत्ता कथमुपस्थिता ॥ ४० ॥ श्रीवसिष्ठ उवाच । देशकालक्रियाद्रव्यभेदवेदनचेतसाम् । अज्ञानमात्रादितरा सत्ता नान्यास्ति नो पुरा ॥ ४१ ॥ श्रीराम उवाच । बोध्यबोधकतापत्तेरभावाद्वोधता कथम् । द्वैतैक्यासंभवे ब्रह्मत्कारणासंभवे सति ॥ ४२ ॥ श्रीवसिष्ठ उवाच । बोधेन बोधतामेति बोधशब्दस्तु बोध्यताम् । भवद्विषयमेवायमुचितो नास्मदादिषु ॥ ४३ ॥ श्रीराम उवाच । बोध एव यदाहंत्वमेति बोधान्यता तदा । कुत एषा परेऽनन्ते नासावतिजलेऽमले ॥ ४४ ॥ श्रीवसिष्ठ उवाच । यत्तद्वोधस्य बोधत्वं तदेवाहंत्वमुच्यते । द्वित्वमत्रानिलस्पन्ददृशोरिव निगद्यते ॥ ४५ ॥ श्रीराम उवाच । सौम्याब्ध्यन्तस्तरङ्गादिर्यथादत्ते यथास्थितम् । तथा स्वरूपमात्रात्म बोध्यं बोधोऽवबुद्धवान् ॥ ४६ ॥ श्रीवसिष्ठ उवाच । एवं चेत्तत्कथं कः स्याद्दोषो द्वित्वादिदोषतः । अनन्ते स्थित एकस्मिञ्छान्ते पूर्णे परे पदे ॥ ४७ ॥ श्रीराम उवाच । कोऽत्र कल्पयिताहंत्वं भुङ्क्ते भोक्ता च कश्च वा । यन्मूलं यज्जगद्भ्रान्तिरनन्ता प्रविजृम्भते ॥ ४८ ॥ श्रीवसिष्ठ उवाच । ज्ञेयसत्तावबोधे हि बन्धनं सच्च नास्त्यलम् । ज्ञप्तेः सर्वार्थरूपत्वाद्वन्धभोक्षावतः कुतः ॥ ४९ ॥ श्रीराम उवाच । ज्ञप्तेर्बाह्यार्थता दीपान्नीलादीव प्रवर्तते । बाह्यस्त्वर्थोऽस्ति सद्रूपो ननु दृष्टोपलम्भनः ॥ ५० ॥ श्रीवसिष्ठ उवाच । अकारणस्य कार्यस्य बाह्यस्यार्थस्य सत्यता । येयं सा भ्रान्तिमात्रात्मरूपिणी नेतराङ्गिका ॥ ५१ ॥ श्रीराम उवाच । स्वप्नः सत्योऽस्त्वसत्यो वा दुःखं तावत्प्रयच्छति । तथैवेयं जगद्भ्रान्तिः क उपायोऽत्र कथ्यताम् ॥ ५२ ॥ श्रीवसिष्ठ उवाच । एवं तावद्यथा स्वप्नस्तथेयं चेज्जगत्स्थितिः । तत्पिण्डग्रहतार्थानां सर्वैव भ्रान्तितोदिता ॥ ५३ ॥ श्रीराम उवाच । किमेतावति संपन्ने संपन्नं भवति प्रियम् । कथं च शाम्यत्यर्थानां स्वप्नादौ पिण्डरूपता ॥ ५४ ॥ श्रीराम उवाच । भावना तनुतां याता यस्यासौ किं प्रपश्यति । कथं शाम्यति तस्यायं संसारकुहरभ्रमः ॥ ५५ ॥ श्रीवसिष्ठ उवाच । उद्धृस्तमसदाभासमुत्पन्ननगरोपमम् । वर्षप्रोन्मृष्टचित्राभं जगत्पश्यत्यवासनः ॥ ५७ ॥ श्रीराम उवाच । ततः किं तस्य भवति वासनातानवे स्थिते । पिण्डग्रहे गतेऽर्थानां स्वप्नोपमजगत्स्थितेः ॥ ५८ ॥ श्रीवसिष्ठ उवाच । संकल्परूपजगतः क्रमात्सापि विलीयते । वासना तस्य तेनाशु स निर्वाति विवासनः ॥ ५९ ॥ श्रीराम उवाच । अनेकजन्मसंरूढा शाखा प्रसवशालिनी । भवबन्धकरी घोरा कथं शाम्यति वासना ॥ ६० ॥ श्रीवसिष्ठ उवाच । यथाभूतार्थविज्ञानाद्भ्रान्तिमात्रात्मनि स्थिते । पिण्डग्रहवियुक्तेऽस्मिन्दृश्यचक्रे क्रमात्क्षयः ॥ ६१ ॥ श्रीराम उवाच । पिण्डग्रहविमुक्तेऽस्मिन्दृश्यचक्रे क्रमान्मुने । संपद्यते किमपरं कथं शान्तिः प्रजायते ॥ ६२ ॥ श्रीवसिष्ठ उवाच । पिण्डग्रहभ्रमे शान्ते चित्तमात्रात्मतां गते । निरोधगौरवोन्मुक्ते जगत्यास्थोपशाम्यति ॥ ६३ ॥ श्रीराम उवाच । बालसंकल्परूपेऽस्मिन्स्थिते जगति भासुरे । कथमास्थोपशमनं तादृग्दुःखाय किं नरः ॥ ६४ ॥ श्रीवसिष्ठ उवाच । संकल्पमात्रसंपन्ने नष्टे दुःखं कथं भवेत् । संकल्पचित्तमात्रं यत्तत्तावत्प्रविचार्यताम् ॥ ६५ ॥ श्रीराम उवाच । कीदृशं भगवंश्चित्तं कथं तत्प्रविचार्यते । किं च संपद्यते ब्रूहि तस्मिन्सम्यग्विचारिते ॥ ६६ ॥ श्रीवसिष्ठ उवाच । चितश्चेत्योन्मुखत्वं यत्तच्चित्तमिति कथ्यते । विचार एष एवास्य वासनानेन शाम्यति ॥ ६७ ॥ श्रीराम उवाच । कियन्नाम भवेद्वह्मन्न चेत्योन्मुखता चितेः । चित्तस्याचित्ततोदेति कथं निर्वाणकारिणी ॥ ६८ ॥ श्रीवसिष्ठ उवाच । चेत्यं न संभवत्येव चित्किं चेतयते कुतः । चेत्यासंभवतश्चित्तसत्ता नास्ति ततश्चिरम् ॥ ६९ ॥ श्रीराम उवाच । कथं न संभवत्येतच्चेत्यं यदनुभूयते । अपह्नवश्चानुभवे क्रियते कथमीदृशः ॥ ७० ॥ श्रीवसिष्ठ उवाच । यादृक्स्यादज्ञविषयं जगत्तस्य न सत्यता । यादृक्व तज्ज्ञविषयं तदनाख्यं यदद्वयम् ॥ ७१ ॥ श्रीराम उवाच । त्रिजगत्कीदृगज्ञानां कथं तस्य न सत्यता । तज्ज्ञानां तु जगद्यादृक्तद्वक्तुं किं न युज्यते ॥ ७२ ॥ श्रीवसिष्ठ उवाच । आद्यन्तद्वैतमज्ञानां तज्ज्ञानां तन्न विद्यते । जगच्च नो संभवति नित्यानुत्पन्नमादितः ॥ ७३ ॥ श्रीराम उवाच । आदितो यदनुत्पन्नं न संभवति कर्हिचित् । असद्रूपमनाभासं कथं तदनुभूयते ॥ ७४ ॥ श्रीवसिष्ठ उवाच । असदेव सदाभासमनुत्पन्नमकारणम् । जाग्रत्स्वप्नवदुद्भूतमर्थकृच्चानुभूयते ॥ ७५ ॥ श्रीराम उवाच । स्वप्नादौ कल्पनादौ च यद्दृश्यमनुभूयते । तज्जाग्रद्रूपसंस्कारादनुष्ठानानुभूतितः ॥ ७६ ॥ श्रीवसिष्ठ उवाच । किं जाग्रद्रूपमाहोस्विदन्यत्स्वप्नेऽनुभूयते । संकल्पे च मनोराज्ये इति मे वद राघव ॥ ७७ ॥ श्रीराम उवाच । स्वप्नेषु कल्पनाद्येषु जाग्रदेवावभासते । संस्कारात्मतया नित्यं मनोराज्यभ्रमेषु च ॥ ७८ ॥ श्रीवसिष्ठ उवाच । तदेव जाग्रत्संस्कारात्स्वप्नश्चेदवभासते । तत्स्वप्ने लुठितं गेहं कथं प्रातरवाप्यते ॥ ७९ ॥ श्रीराम उवाच । न जाग्रद्राजते स्वप्ने तद्ब्रह्मान्यत्तदेव हि । बुद्धमेतत्कथं त्वन्यदपूर्वमिव भासते ॥ ८० ॥ श्रीवसिष्ठ उवाच । नानुभूतोऽनुभूतश्च चेतस्यर्थोऽवभासते । सर्गाद्यन्तादिमध्येषु स्वभ्यस्तस्त्विति भासते ॥ ८१ ॥ श्रीराम उवाच । एवं स्वप्नात्मकं भाति जगदित्येव बुद्धवान् । ग्रहवत्स्वप्नयक्षोऽयं कथं ब्रह्मंश्चिकित्स्यते ॥ ८२ ॥ श्रीवसिष्ठ उवाच । योऽयं संसरणस्वप्नः स किंकारणको भवेत् । कार्यान्न कारणं भिन्नमिति दृष्टं विचारय ॥ ८३ ॥ श्रीराम उवाच । चित्तं स्वप्नोपलम्भानां हेतुस्तस्मात्तदेव ते । विश्वं चाद्यन्तरहितमनासारमनामयम् ॥ ८४ ॥ श्रीवसिष्ठ उवाच । एवं चित्तं महाबुद्धे महाचिद्धनमेव तत् । तथास्थितं न स्वप्नादि किंचनास्तीतरात्मकम् ॥ ८५ ॥ श्रीराम उवाच । अवयवावयविनोर्यथा भिन्नस्तथा स हि । तत्रानवयवे ब्रह्मण्येकता जगदादिना ॥ ८६ ॥ श्रीवसिष्ठ उवाच । एवं न संभवत्येव नित्यानुत्पन्नमादितः । जगत्तेनाजरं शान्तमजं सर्वमवेधितम् ॥ ८७ ॥ श्रीराम उवाच । काकतालीयवन्मन्ये सर्गाद्यन्तादयो भ्रमाः । भ्रान्तिद्रष्टृत्वभोक्तृत्वसहिताः परमे पदे ॥ ८८ ॥ श्रीवसिष्ठ उवाच । या व्यापारवती रसाद्रसविदां काचित्कवीनां नवा दृष्टिर्या परिनिष्ठितार्थविषयोन्मेषा च वैपश्चिती । ते द्वे अप्यवलम्ब्य विश्वमखिलं निर्वर्णितं निर्वृतं यावद्दृष्टिदृशो न सन्ति कलिता नौ शून्यता नो भ्रमः ॥ ८९ ॥

हिन्दी अर्थ

जगत्‌ का अव्यय सकलकारण-कारण ब्रह्म से अतिरिक्त दूसरा कारण नहीं है । वह कार्यता के बिना कारण नहीं है । निर्विकार कूटस्थ-चिदानन्द अद्वितीय ब्रह्म मेँ कार्यता-कारणता का कदापि संभव ही नहीं है इस कारण यह जगदाकार कुछ भ्रान्तिमात्ररूप ही विस्तृत हे । वास्तविक नहीं हे, यह तात्पर्यार्थ हे