Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 190, Verses 21–89
This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 190, verses 21–89 — the original Sanskrit shloka(s) with their Hindi meaning.
निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 190 · श्लोक 21
संस्कृत श्लोक
श्रीवसिष्ठ उवाच ।
एवं चेत्तन्महाबाहो ज्ञप्तिरेव जगत्त्रयम् ।
विशुद्धज्ञानदेहस्य कुतो मरणजन्मनी ॥ २१ ॥
श्रीराम उवाच ।
तदेवमादितो नास्ति सर्गस्तदियमागता ।
कुतः कथमिव भ्रान्तिरिति मे भगवन्वद ॥ २२ ॥
श्रीवसिष्ठ उवाच ।
कार्यकारणताभावाद्भावाभावौ स्त एव नो ।
इदं च चेत्यते यद्यत्स्वात्मा चेतति चेतितम् ॥ २३ ॥
श्रीराम उवाच ।
चेतिता चेतति यन्त्रं द्रष्टा दृश्यत्वमीश्वरः ।
कथमेति कथं वह्निं दहेत्काष्ठं कदा किल ॥ २४ ॥
श्रीवसिष्ठ उवाच ।
द्रष्टा न याति दृश्यत्वं दृश्यस्यासंभवादतः ।
द्रष्टैव केवलो भाति सर्वात्मैकघनाकृतिः ॥ २५ ॥
श्रीराम उवाच ।
चिन्मात्रं तदनाद्यन्तं चेत्यं चेतयते तदा ।
तदिदं जगदाभानं कुतः स्याच्चेत्यसंभवः ॥ २६ ॥
श्रीवसिष्ठ उवाच ।
चेत्यं हि कारणाभावान्न संभवति किंचन ।
चेत्याभावाच्चेतनस्य मुक्तताऽवाच्यता सदा ॥ २७ ॥
श्रीराम उवाच ।
एवं चेत्तदहन्तादि चेत्यं कथमिदं कुतः ।
कथं जगद्वेदनं च कथं स्पन्दादिवेदनम् ॥ २८ ॥
श्रीवसिष्ठ उवाच ।
कारणासंभवादादावेवोत्पन्नं न किंचन ।
कुतश्चेत्यमतः शान्तं सर्वं सर्गस्तु विभ्रमः ॥ २९ ॥
श्रीराम उवाच ।
अत्र मे विगतोल्लेखे निश्चेत्यचलनादिके ।
सकृद्विभाते विमले विभ्रमः कस्य कीदृशः ॥ ३० ॥
श्रीवसिष्ठ उवाच ।
कारणाभावतो राम नास्त्येव खलु विभ्रमः ।
सर्वं त्वमहमित्यादि शान्तमेकमनामयम् ॥ ३१ ॥
श्रीराम उवाच ।
ब्रह्मन्भ्रममिवापन्नः प्रष्टुं जानामि नाधिकम् ।
नात्यन्तं च प्रबुद्धोऽस्मि पृच्छामि किमिहाधुना ॥ ३२ ॥
श्रीवसिष्ठ उवाच ।
कारणस्यैव निकषं पृच्छ माऽऽकारणक्षयात् ।
परे स्वभावेऽनिर्वाच्ये स्वयं विश्रान्तिमैष्यसि ॥ ३३ ॥
श्रीराम उवाच ।
मन्येऽहं कारणाभावात्पूर्वमेव न सर्गता ।
उदिता तेन कस्यायं चेत्यचेतनविभ्रमः ॥ ३४ ॥
श्रीवसिष्ठ उवाच ।
अकारणत्वात्सर्वत्र शान्तत्वाद्भ्रान्तिरस्ति नो ।
अनभ्यासवशादेव न विश्राम्यति केवलम् ॥ ३५ ॥
श्रीराम उवाच ।
कुतो भवेदनभ्यासो भवेदभ्यसनं कुतः ।
कुतोऽभ्यासात्मिका भ्रान्तिरेषा पुनरुपस्थिता ॥ ३६ ॥
श्रीवसिष्ठ उवाच ।
अनन्तत्वादनन्तस्य भ्रान्तिर्नास्ति च संप्रति ।
अभ्यासभ्रान्तिरखिलं महाचिद्धनमक्षतम् ॥ ३७ ॥
श्रीराम उवाच ।
उपदेश्योपदेशादावनया शब्दसंपदा ।
किमन्यद्वद मे ब्रह्मन्सर्वस्मिञ्छान्ततां गते ॥ ३८ ॥
श्रीवसिष्ठ उवाच ।
उपदेश्योपदेशात्म ब्रह्म ब्रह्मणि संस्थितम् ।
बोधात्मनि न मोक्षोऽस्ति न बन्धोऽस्तीति निश्चयः ॥ ३९ ॥
श्रीराम उवाच ।
देशकालक्रियाद्रव्यभेदवेदनचेतसाम् ।
सर्वस्यासंभवे सर्वसत्ता कथमुपस्थिता ॥ ४० ॥
श्रीवसिष्ठ उवाच ।
देशकालक्रियाद्रव्यभेदवेदनचेतसाम् ।
अज्ञानमात्रादितरा सत्ता नान्यास्ति नो पुरा ॥ ४१ ॥
श्रीराम उवाच ।
बोध्यबोधकतापत्तेरभावाद्वोधता कथम् ।
द्वैतैक्यासंभवे ब्रह्मत्कारणासंभवे सति ॥ ४२ ॥
श्रीवसिष्ठ उवाच ।
बोधेन बोधतामेति बोधशब्दस्तु बोध्यताम् ।
भवद्विषयमेवायमुचितो नास्मदादिषु ॥ ४३ ॥
श्रीराम उवाच ।
बोध एव यदाहंत्वमेति बोधान्यता तदा ।
कुत एषा परेऽनन्ते नासावतिजलेऽमले ॥ ४४ ॥
श्रीवसिष्ठ उवाच ।
यत्तद्वोधस्य बोधत्वं तदेवाहंत्वमुच्यते ।
द्वित्वमत्रानिलस्पन्ददृशोरिव निगद्यते ॥ ४५ ॥
श्रीराम उवाच ।
सौम्याब्ध्यन्तस्तरङ्गादिर्यथादत्ते यथास्थितम् ।
तथा स्वरूपमात्रात्म बोध्यं बोधोऽवबुद्धवान् ॥ ४६ ॥
श्रीवसिष्ठ उवाच ।
एवं चेत्तत्कथं कः स्याद्दोषो द्वित्वादिदोषतः ।
अनन्ते स्थित एकस्मिञ्छान्ते पूर्णे परे पदे ॥ ४७ ॥
श्रीराम उवाच ।
कोऽत्र कल्पयिताहंत्वं भुङ्क्ते भोक्ता च कश्च वा ।
यन्मूलं यज्जगद्भ्रान्तिरनन्ता प्रविजृम्भते ॥ ४८ ॥
श्रीवसिष्ठ उवाच ।
ज्ञेयसत्तावबोधे हि बन्धनं सच्च नास्त्यलम् ।
ज्ञप्तेः सर्वार्थरूपत्वाद्वन्धभोक्षावतः कुतः ॥ ४९ ॥
श्रीराम उवाच ।
ज्ञप्तेर्बाह्यार्थता दीपान्नीलादीव प्रवर्तते ।
बाह्यस्त्वर्थोऽस्ति सद्रूपो ननु दृष्टोपलम्भनः ॥ ५० ॥
श्रीवसिष्ठ उवाच ।
अकारणस्य कार्यस्य बाह्यस्यार्थस्य सत्यता ।
येयं सा भ्रान्तिमात्रात्मरूपिणी नेतराङ्गिका ॥ ५१ ॥
श्रीराम उवाच ।
स्वप्नः सत्योऽस्त्वसत्यो वा दुःखं तावत्प्रयच्छति ।
तथैवेयं जगद्भ्रान्तिः क उपायोऽत्र कथ्यताम् ॥ ५२ ॥
श्रीवसिष्ठ उवाच ।
एवं तावद्यथा स्वप्नस्तथेयं चेज्जगत्स्थितिः ।
तत्पिण्डग्रहतार्थानां सर्वैव भ्रान्तितोदिता ॥ ५३ ॥
श्रीराम उवाच ।
किमेतावति संपन्ने संपन्नं भवति प्रियम् ।
कथं च शाम्यत्यर्थानां स्वप्नादौ पिण्डरूपता ॥ ५४ ॥
श्रीराम उवाच ।
भावना तनुतां याता यस्यासौ किं प्रपश्यति ।
कथं शाम्यति तस्यायं संसारकुहरभ्रमः ॥ ५५ ॥
श्रीवसिष्ठ उवाच ।
उद्धृस्तमसदाभासमुत्पन्ननगरोपमम् ।
वर्षप्रोन्मृष्टचित्राभं जगत्पश्यत्यवासनः ॥ ५७ ॥
श्रीराम उवाच ।
ततः किं तस्य भवति वासनातानवे स्थिते ।
पिण्डग्रहे गतेऽर्थानां स्वप्नोपमजगत्स्थितेः ॥ ५८ ॥
श्रीवसिष्ठ उवाच ।
संकल्परूपजगतः क्रमात्सापि विलीयते ।
वासना तस्य तेनाशु स निर्वाति विवासनः ॥ ५९ ॥
श्रीराम उवाच ।
अनेकजन्मसंरूढा शाखा प्रसवशालिनी ।
भवबन्धकरी घोरा कथं शाम्यति वासना ॥ ६० ॥
श्रीवसिष्ठ उवाच ।
यथाभूतार्थविज्ञानाद्भ्रान्तिमात्रात्मनि स्थिते ।
पिण्डग्रहवियुक्तेऽस्मिन्दृश्यचक्रे क्रमात्क्षयः ॥ ६१ ॥
श्रीराम उवाच ।
पिण्डग्रहविमुक्तेऽस्मिन्दृश्यचक्रे क्रमान्मुने ।
संपद्यते किमपरं कथं शान्तिः प्रजायते ॥ ६२ ॥
श्रीवसिष्ठ उवाच ।
पिण्डग्रहभ्रमे शान्ते चित्तमात्रात्मतां गते ।
निरोधगौरवोन्मुक्ते जगत्यास्थोपशाम्यति ॥ ६३ ॥
श्रीराम उवाच ।
बालसंकल्परूपेऽस्मिन्स्थिते जगति भासुरे ।
कथमास्थोपशमनं तादृग्दुःखाय किं नरः ॥ ६४ ॥
श्रीवसिष्ठ उवाच ।
संकल्पमात्रसंपन्ने नष्टे दुःखं कथं भवेत् ।
संकल्पचित्तमात्रं यत्तत्तावत्प्रविचार्यताम् ॥ ६५ ॥
श्रीराम उवाच ।
कीदृशं भगवंश्चित्तं कथं तत्प्रविचार्यते ।
किं च संपद्यते ब्रूहि तस्मिन्सम्यग्विचारिते ॥ ६६ ॥
श्रीवसिष्ठ उवाच ।
चितश्चेत्योन्मुखत्वं यत्तच्चित्तमिति कथ्यते ।
विचार एष एवास्य वासनानेन शाम्यति ॥ ६७ ॥
श्रीराम उवाच ।
कियन्नाम भवेद्वह्मन्न चेत्योन्मुखता चितेः ।
चित्तस्याचित्ततोदेति कथं निर्वाणकारिणी ॥ ६८ ॥
श्रीवसिष्ठ उवाच ।
चेत्यं न संभवत्येव चित्किं चेतयते कुतः ।
चेत्यासंभवतश्चित्तसत्ता नास्ति ततश्चिरम् ॥ ६९ ॥
श्रीराम उवाच ।
कथं न संभवत्येतच्चेत्यं यदनुभूयते ।
अपह्नवश्चानुभवे क्रियते कथमीदृशः ॥ ७० ॥
श्रीवसिष्ठ उवाच ।
यादृक्स्यादज्ञविषयं जगत्तस्य न सत्यता ।
यादृक्व तज्ज्ञविषयं तदनाख्यं यदद्वयम् ॥ ७१ ॥
श्रीराम उवाच ।
त्रिजगत्कीदृगज्ञानां कथं तस्य न सत्यता ।
तज्ज्ञानां तु जगद्यादृक्तद्वक्तुं किं न युज्यते ॥ ७२ ॥
श्रीवसिष्ठ उवाच ।
आद्यन्तद्वैतमज्ञानां तज्ज्ञानां तन्न विद्यते ।
जगच्च नो संभवति नित्यानुत्पन्नमादितः ॥ ७३ ॥
श्रीराम उवाच ।
आदितो यदनुत्पन्नं न संभवति कर्हिचित् ।
असद्रूपमनाभासं कथं तदनुभूयते ॥ ७४ ॥
श्रीवसिष्ठ उवाच ।
असदेव सदाभासमनुत्पन्नमकारणम् ।
जाग्रत्स्वप्नवदुद्भूतमर्थकृच्चानुभूयते ॥ ७५ ॥
श्रीराम उवाच ।
स्वप्नादौ कल्पनादौ च यद्दृश्यमनुभूयते ।
तज्जाग्रद्रूपसंस्कारादनुष्ठानानुभूतितः ॥ ७६ ॥
श्रीवसिष्ठ उवाच ।
किं जाग्रद्रूपमाहोस्विदन्यत्स्वप्नेऽनुभूयते ।
संकल्पे च मनोराज्ये इति मे वद राघव ॥ ७७ ॥
श्रीराम उवाच ।
स्वप्नेषु कल्पनाद्येषु जाग्रदेवावभासते ।
संस्कारात्मतया नित्यं मनोराज्यभ्रमेषु च ॥ ७८ ॥
श्रीवसिष्ठ उवाच ।
तदेव जाग्रत्संस्कारात्स्वप्नश्चेदवभासते ।
तत्स्वप्ने लुठितं गेहं कथं प्रातरवाप्यते ॥ ७९ ॥
श्रीराम उवाच ।
न जाग्रद्राजते स्वप्ने तद्ब्रह्मान्यत्तदेव हि ।
बुद्धमेतत्कथं त्वन्यदपूर्वमिव भासते ॥ ८० ॥
श्रीवसिष्ठ उवाच ।
नानुभूतोऽनुभूतश्च चेतस्यर्थोऽवभासते ।
सर्गाद्यन्तादिमध्येषु स्वभ्यस्तस्त्विति भासते ॥ ८१ ॥
श्रीराम उवाच ।
एवं स्वप्नात्मकं भाति जगदित्येव बुद्धवान् ।
ग्रहवत्स्वप्नयक्षोऽयं कथं ब्रह्मंश्चिकित्स्यते ॥ ८२ ॥
श्रीवसिष्ठ उवाच ।
योऽयं संसरणस्वप्नः स किंकारणको भवेत् ।
कार्यान्न कारणं भिन्नमिति दृष्टं विचारय ॥ ८३ ॥
श्रीराम उवाच ।
चित्तं स्वप्नोपलम्भानां हेतुस्तस्मात्तदेव ते ।
विश्वं चाद्यन्तरहितमनासारमनामयम् ॥ ८४ ॥
श्रीवसिष्ठ उवाच ।
एवं चित्तं महाबुद्धे महाचिद्धनमेव तत् ।
तथास्थितं न स्वप्नादि किंचनास्तीतरात्मकम् ॥ ८५ ॥
श्रीराम उवाच ।
अवयवावयविनोर्यथा भिन्नस्तथा स हि ।
तत्रानवयवे ब्रह्मण्येकता जगदादिना ॥ ८६ ॥
श्रीवसिष्ठ उवाच ।
एवं न संभवत्येव नित्यानुत्पन्नमादितः ।
जगत्तेनाजरं शान्तमजं सर्वमवेधितम् ॥ ८७ ॥
श्रीराम उवाच ।
काकतालीयवन्मन्ये सर्गाद्यन्तादयो भ्रमाः ।
भ्रान्तिद्रष्टृत्वभोक्तृत्वसहिताः परमे पदे ॥ ८८ ॥
श्रीवसिष्ठ उवाच ।
या व्यापारवती रसाद्रसविदां काचित्कवीनां नवा दृष्टिर्या परिनिष्ठितार्थविषयोन्मेषा च वैपश्चिती ।
ते द्वे अप्यवलम्ब्य विश्वमखिलं निर्वर्णितं निर्वृतं यावद्दृष्टिदृशो न सन्ति कलिता नौ शून्यता नो भ्रमः ॥ ८९ ॥
हिन्दी अर्थ
जगत् का अव्यय सकलकारण-कारण ब्रह्म से
अतिरिक्त दूसरा कारण नहीं है । वह कार्यता के बिना कारण नहीं है । निर्विकार कूटस्थ-चिदानन्द
अद्वितीय ब्रह्म मेँ कार्यता-कारणता का कदापि संभव ही नहीं है इस कारण यह जगदाकार कुछ
भ्रान्तिमात्ररूप ही विस्तृत हे । वास्तविक नहीं हे, यह तात्पर्यार्थ हे