Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 177, Verses 19–44
This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 177, verses 19–44 — the original Sanskrit shloka(s) with their Hindi meaning.
निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 177 · श्लोक 19-25
संस्कृत श्लोक
सर्वकारणसंशान्तौ सर्वानुभवशालिनाम् ।
सर्गस्य कारणं नास्ति तेन सर्गस्त्वकारणः ॥ १९ ॥
हृदयंगमतात्यक्तमीश्वरादि प्रकल्प्यते ।
यदत्र किंचिद्दुःस्वादु व्यर्थं वाग्जालमेव तत् ॥ २० ॥
अन्यथानुपपत्त्यैव स्वप्नाभाकलनादृते ।
स्थूलाकारात्मिका काचिन्नास्ति दृश्यस्य दृश्यता ॥ २१ ॥
स्वप्नपृथ्व्याद्यनुभवे किमबुद्धस्य कारणम् ।
चित्स्वभावादृते ब्रूहि स्वप्नार्थो नाम कीदृशः ॥ २२ ॥
स्वप्नार्थो ह्यपरिज्ञातो महामोहभरप्रदः ।
परिज्ञातो न मोहाय यथा सर्गास्तथैव च ॥ २३ ॥
शुष्कतर्कहठावेशाद्यद्वाप्यनुभवोज्झितम् ।
कल्प्यते कारणं किंचित्सा मौर्ख्याभिनिवेशिता ॥ २४ ॥
अग्नेरौष्ण्यमपां शैत्यं प्राकाश्यं सर्वतेजसाम् ।
स्वभावो वाखिलार्थानां किमबुद्धस्य कारणम् ॥ २५ ॥
किं ध्यातृशतलब्धस्य ध्येयस्यैकस्य कारणम् ।
किं च गन्धर्वनगरे पुरे भित्तिषु कारणम् ॥ २६ ॥
धर्माद्यमुत्रामूर्तत्वान्मूर्ते देहे न कारणम् ।
देहस्य कारणं किं स्यात्तत्र सर्गादिभोगिनः ॥ २७ ॥
भित्त्यभित्त्यादिरूपाणां ज्ञानस्य ज्ञानवादिनः ।
किं कारणमनन्तानामुत्पन्नध्वंसिनां मुहुः ॥ २८ ॥
स्वभावस्य स्वभावोऽसौ किल कारणमित्यपि ।
यदुच्यते स्वभावस्य सा पर्यायोक्तिकल्पना ॥ २९ ॥
तस्मादकारणा भ्रान्तिर्भावा भान्ति च कारणम् ।
अज्ञे ज्ञे त्वखिलं कार्यं कारणाद्भवति स्थितम् ॥ ३० ॥
यद्वत्स्वप्नपरिज्ञानात्स्वप्ने द्रव्यापहारिभिः ।
न दुःखाकरणं तद्वज्जीवितं तत्त्वदर्शनात् ॥ ३१ ॥
सर्गादावेव नोत्पन्नं दृश्यं चिद्गगनं त्विदम् ।
स्वरूपं स्वप्नवद्भाति नान्यदत्रोपपद्यते ॥ ३२ ॥
अन्या न काचित्कलना दृश्यते सोपपत्तिका ।
अस्मान्न्यायादृते कस्माद्ब्रह्मैवैषानुभूतिभूः ॥ ३३ ॥
ऊर्म्यावर्तद्रवत्वादि शुद्धे जलघने यथा ।
तथेदं सर्गपर्यायं ब्रह्मणि ब्रह्म भासते ॥ ३४ ॥
स्पन्दावर्तविवर्तादि निर्मले पवने यथा ।
तथायं ब्रह्मपवने सर्गस्पन्दोऽवभासते ॥ ३५ ॥
यथानन्तत्वसौषिर्यशून्यत्वादि महाम्बरे ।
स सन्नासन्नबोधात्म तथा सर्गः परापरः ॥ ३६ ॥
एषु निद्रादिकेष्वेते सूपलब्धा अपि स्फुटम् ।
भावा असन्मया एवमेतेऽनन्यात्मका यतः ॥ ३७ ॥
सर्गप्रलयसंस्थानान्येवमात्मनि चिद्धने ।
सौम्ये स्वप्नसुषुप्ताभा शुद्धे निद्राघने यथा ॥ ३८ ॥
स्वप्नात्स्वप्नान्तराण्यास्ते निद्रायां मानवो यथा ।
सर्गात्सर्गान्तरान्मास्ते स्वसत्तायामजस्तथा ॥ ३९ ॥
पृथ्व्यादिरहितोऽप्येष ब्रह्माकाशो निरामयः ।
अतद्वांस्तद्वदाभाति यथा स्वप्नानुभूतिषु ॥ ४० ॥
स्थिता यथास्यां पश्यन्त्यां शब्दा घटपटादयः ।
जाताजाताः स्थिताः सर्गास्तथानन्ये महाचिति ॥ ४१ ॥
पश्यन्त्यामेव पश्यन्ती यथा भाति तथैव च ।
यथा शब्दास्तथा सर्गाश्चितैव चिति चिन्मयाः ॥ ४२ ॥
किं शास्त्रकं तत्रकथाविचारैर्निर्वासनं जीवितमेव मोक्षः ।
सर्गे त्वसत्येवमकारणत्वात्सत्येव नास्त्येव न नाम काचित् ॥ ४३ ॥
एषा च सिद्धेह हि वासनेति सा बोधसत्तैव निरन्तरैका ।
नानात्वनानारहितैव भाति स्वप्ने चिदेवेह पुरादिरूपा ॥ ४४ ॥
हिन्दी अर्थ
इस
स्वप्न में प्रत्येक व्यष्टि जीव दर्पण में प्रतिबिम्बित एेसे, द्रष्टा, दृश्य, दर्शन, भोक्ता, भोग्य, भोग, कर्ता,
कार्य ओर क्रिया इन तीन त्रिपुटी रूप नौ रंगों से मनोहर त्रैलोक्यरूप नगर को देखता हे । तदनन्तर
स्वप्न के समान इस जाग्रत् में भी प्रत्येक व्यष्टि जीव दर्पण तुल्य हृदय में प्रतिबिम्बित ऐसे, पूर्वोक्त
त्रिपुटीरूपी नौ रंगों से मनोहर इस त्रिजगत् का अनुभव करता है । इस प्रकार जीव -भेदों से विभिन्नरूप
सब चित्परमाणुओं के अतिसूक्ष्म उदर में भी इस प्रकार (वर्णित रीति से) कल्पित महान् जगत् विद्यमान
हँ । ओर वे जीवसमूहों ओर पृथिवी आदि के संघातं से निबिड से हैं । अविद्यारूप से ज्ञात, यह सब
स्वतत्त्वज्ञानरूपा अविद्या ही हे । ब्रह्मरूप से परिज्ञात यह निर्मल ब्रह्म ही हो जाती है । इस प्रकार
ब्रह्मरूप से देखने पर तो जो जगत्स्वप्नजाल का दृष्टा है वह भी कुछ नहीं हे । यहाँ पर कोन दृष्टा हे,
कहाँ से दृश्य है, कहाँ द्रैत है और कहाँ द्वैत का कारण है केवल आकाशरूप पूर्णरूप से प्रशान्त आदि
अन्त-वर्जित स्वच्छ भेदशून्य ब्रह्म ही सकलरूप से चारों ओर भासित हो आत्मा में स्थित हे । जैसे
समुद्र में बड़ी बड़ी तरंगों के अनिवार्य वेगवश चंचल हुए जल के असंख्य परमाणुसमूह स्थित होते हैं वैसे
ही जब तक अज्ञाननिद्रा हे तब तक लाखों ब्रह्माण्डों की राशिर्यो नित्य अनन्यरूप (अभिन्नरूप) परमात्मा
में भली भाँति स्थित हैँ