Guru's AddaGuru's Adda

Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 166, Verses 17–40

This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 166, verses 17–40 — the original Sanskrit shloka(s) with their Hindi meaning.

निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 166 · श्लोक 17

संस्कृत श्लोक

लेखामयानि विद्यन्ते स्वाङ्गभूतानि भूरिशः । पद्मजालानि शङ्खाश्च गदाश्चक्रादयस्तथा ॥ १७ ॥ खं वायुः सलिलं तेजो वसुधेत्यभिधा कृता । नासीत्तत्र स्वलेखानां जीव इत्येव वै तया ॥ १८ ॥ श्रीराम उवाच । शिलासौ चेतनं तस्याः कुत इत्युच्यतां मम । अचेतना शिला नाम कथं नाम करोति च ॥ १९ ॥ श्रीवसिष्ठ उवाच । न चेतना न च जडा सा शिला विपुलोज्ज्वला । जातिं जानाति कस्तस्याः कस्तत्रान्यश्च विद्यते ॥ २० ॥ श्रीराम उवाच । तस्याः पश्यति ता लेखाः कः कथं जठरस्थिताः । कथं वा केन सा भग्ना कदा नामेति मे वद ॥ २१ ॥ श्रीवसिष्ठ उवाच । न भेत्तुं युज्यते सोग्रा न च भेत्ता च विद्यते । तथैवापारपर्यन्तदेहिन्यां सर्वमावृतम् ॥ २२ ॥ लेखामयानि विद्यन्ते तत्रानन्तानि कोटरे । वृक्षपर्वतजालानि नगराणि पुराणि च ॥ २३ ॥ तत्र लेखामयाः सन्ति देवदानवनामकाः । सूक्ष्मासूक्ष्मा निराकाराः साकारा इव पुत्रिकाः ॥ २४ ॥ आकाशनाम्नी तत्रास्ति लेखा वैपुल्यशालिनी । उपलेखाश्च सन्त्यस्या मध्ये चन्द्रार्कनामिकाः ॥ २५ ॥ श्रीराम उवाच । केन दृष्टा वद ब्रह्मँल्लेखास्तास्तत्र किंविधाः । कथं वा वद दृश्यन्ते निपिण्डोपलकोशगाः ॥ २६ ॥ श्रीवसिष्ठ उवाच । मया राघव ता दृष्टास्तादृश्यस्तत्र लेखिकाः । तवापीच्छा यदि भवेत्तत्तास्त्वमपि पश्यसि ॥ २७ ॥ श्रीराम उवाच । तादृशी वज्रसारा सा शिला भंक्तुं न युज्यते । तथापि भवता दृष्टा लेखास्तत्कोशगाः कथम् ॥ २८ ॥ श्रीवसिष्ठ उवाच । एतस्या जठरे राम लेखाहं जठरे स्थितः । तेन पश्यामि तत्रस्थो लेखाजालं तदक्षतम् ॥ २९ ॥ कोऽसौ शक्तोऽन्यथा भंक्तुं तां शिलामहमन्तरे । तत्सर्वं दृष्टवांस्तस्या अहं तत्रान्तरस्थितः ॥ ३० ॥ श्रीराम उवाच । कासौ शिलाथ कश्च त्वं वद मे क्वासि संस्थितः । किमेतद्वदसि ब्रूहि किमेतद्दृष्टवानसि ॥ ३१ ॥ श्रीवसिष्ठ उवाच । परमात्ममहासत्ता कथितैषा मया तव । अनयैव वचोभंग्या न त्वेषा विपुला शिला ॥ ३२ ॥ परमात्ममहासत्ताशिलाया जठरे वयम् । तच्छिलामांसमेवेमे सौषिर्यपरिवर्जिते ॥ ३३ ॥ तच्छिलाङ्गं नभो विद्धि तच्छिलाङ्गं सदागतिः । तच्छिलाङ्गं क्रियाशब्दा वासना कालकल्पना ॥ ३४ ॥ भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहंकार इतीदं तत्तच्छिलाङ्गमुदाहृतम् ॥ ३५ ॥ परमात्ममहासत्ता शिला मांसमिमे वयम् । सर्व एव ततोऽनन्येऽप्यन्ये त्विति च विद्महे ॥ ३६ ॥ चिन्मात्रैकात्मिका येयं किलातिमहती शिला । एतस्या व्यतिरेकेण क्व तदस्ति किमुच्यताम् ॥ ३७ ॥ शुद्धं वेदनमेवेदं घटावटपटादिकम् । यथा स्वप्ने तथा भाति जलमूर्मितया यथा ॥ ३८ ॥ इदं ब्रह्म घनं सर्वं चिन्मात्रघनमाततम् । परमार्थघनं शान्तं सर्वमेकघनं विदुः ॥ ३९ ॥ एकं महाचिति शिलोदरमेव सर्वं सौषिर्यवर्जितमपारमनादिमध्यम् । तेनात्मनैव कलिता कलनात्मनेयं सर्गो जगद्भुवनमित्यपि दृश्यनाम्नी ॥ ४० ॥

हिन्दी अर्थ

अज्ञानवश एक पक्ष में अभिमानभ्रान्ति होती है । इस समय इसका तत्त्व आपको यथार्थरूप से ज्ञात हो ही चुका है । यह इस प्रकार का हो, अन्य प्रकार का हो अथवा नहीं हो, इस विषय में कौनसा भ्रम है ओर इस तुच्छ भोगमें फलका आग्रह ही क्या हे ? इसलिए विविध विकल्पों से कोई प्रयोजन नहीं हे