Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 143, Verses 45–83
This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 143, verses 45–83 — the original Sanskrit shloka(s) with their Hindi meaning.
निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 143 · श्लोक 45,46
संस्कृत श्लोक
अलीकजालमेवं खे पश्यन्प्रत्येकमास्थितः ।
पश्यत्याचारयत्यत्ति किंचित्कश्चिन्न कस्यचित् ॥ ४५ ॥
इत्येवं जगतां सन्ति कोटीनां कोटिकोटयः ।
परिज्ञातास्तु ता ब्रह्म केवलं दृश्यमन्यथा ॥ ४६ ॥
ताभिर्न कस्यचित्किंचिदावृतं न च सन्ति ताः ।
तासां च वेत्ति प्रत्येकमिदमेव जगत्त्विति ॥ ४७ ॥
भूतानि तासां प्रत्येकं तथैवान्योन्यमास्थिते ।
सत्यान्येवासत्यदृष्ट्या सत्यदृष्ट्या त्वजं पदम् ॥ ४८ ॥
सद्यद्विदितवेद्यस्य तदज्ञस्यासदक्षयम् ।
असद्यत्संप्रबुद्धस्य तत्सदज्ञस्य सुस्फुटम् ॥ ४९ ॥
चितेर्यद्यद्यथा भानं तत्तत्सत्यं यथा यतः ।
सद्रूपाणि समग्राणि भूतानीमान्यतो मिथः ॥ ५० ॥
चिद्व्योम्नि स्वप्नसंवित्तिर्या सैव जगदुच्यते ।
सुषुप्तं प्रलयः प्रोक्तस्तस्मान्न्यायोऽयमेव सन् ॥ ५१ ॥
संविन्मात्रविनिर्णेयं कान्यता नान्यता कथा ।
यथासंवेदनं भाते वस्त्वौघे क्व द्वितैकते ॥ ५२ ॥
तदेवेदमिदं ज्ञप्तेस्तदेवेदं भवत्यलम् ।
तदेवैतत्तदेवेति भवेज्ज्ञप्तेरसत्यतः ॥ ५३ ॥
तच्चेदर्थस्ततो ज्ञप्तेर्नायं तस्याः पृथक् स्थितः ।
स्थिते ज्ञप्त्यात्मनि त्वर्थे त्वज्ञप्त्यायं ततो व्रजेत् ॥ ५४ ॥
ज्ञानं यदेव तज्ज्ञेयं ज्ञेयस्यासंभवात्पृथक् ।
यथा ज्ञानमतो ज्ञेयं तनोत्यात्मानमात्मना ॥ ५५ ॥
पश्यन्तोऽपि मिलन्तोऽपि पृथक्सर्गा न किंचन ।
सत एवासतो ज्ञस्य मूर्खज्ञातांस्तु वेद्मि नो ॥ ५६ ॥
एकं प्रबोधतः सर्वे चिन्मात्रं तावदात्मखम् ।
तदेवानेकसंवित्त्या सहस्रं चिज्जडात्मनाम् ॥ ५७ ॥
एकं तथा च चिन्मात्रं स्वप्ने लक्षात्म तिष्ठति ।
पुनर्लक्षात्म तत्स्वप्नादेकमास्ते सुषुप्तके ॥ ५८ ॥
एकैव संविन्नानात्वं नृलक्षत्वं च गच्छति ।
शून्यत्वं च तथार्थत्वं स्वप्नसंकल्पयोरिव ॥ ६० ॥
इदमप्रतिघं सर्वं किल वेदनमात्रकम् ।
शुद्धं तद्वद्यथा यत्र भाति तत्र तथा भवेत् ॥ ६१ ॥
एकैव संवित्सर्गादौ भवत्यग्न्यम्बुखादिकम् ।
पृथ्व्यादि तावत्सर्गार्थं स्वप्नसंकल्पयोरिव ॥ ६२ ॥
संविदाकाशरूपैव भाति पृथ्व्यादिनामिका ।
यत्तदेव खमेवेदं जगदित्येव भासते ॥ ६३ ॥
संवित्सप्रतिघं भाति भाति चाप्रतिघं तथा ।
न वस्तुतस्तु प्रतिघा संवित्सान्ते निवर्तते ॥ ६४ ॥
यासि पूर्वां पश्चिमां च दिशं वेत्सि चिरं विदन् ।
प्रतिघं नाम ते नास्ति न च सप्रतिघा क्वचित् ॥ ६५ ॥
दृष्टं संकल्पितं चार्थं सहाभ्यस्यति यश्चिरम् ।
सोऽवश्यं तदाप्नोति न चेच्छान्तो निवर्तते ॥ ६६ ॥
यासि पूर्वां पश्चिमां च दिशं वेति चिरं विदन् ।
य आस्ते यात्यसौ तत्तामन्यस्त्यक्त्वा तु नेतराम् ॥ ६७ ॥
दृष्टः संकल्पितश्चार्थः स्यामित्यचलसंविदः ।
द्वयं भवेद्वयं नश्यत्यन्यस्याचलसंविदः ॥ ६८ ॥
दक्षिणादुत्तरां वाशां यामीत्यचलसंविदः ।
द्वयं भवेद्द्वयं नश्यत्यन्यस्याचलसंविदः ॥ ६९ ॥
खे पुरं स्यां भुवि मृगः स्यामित्यचलसंविदः ।
द्वयं भवेद्वयं नश्यत्यन्यदन्यत्तु तज्जगत् ॥ ७० ॥
एकं प्रबोधतः सर्वं चिन्मात्रं तावदात्मखम् ।
तदेवानेकसंवित्त्या सहस्रं चिज्जडात्मनाम् ॥ ७१ ॥
शरीरमस्त्वप्रतिघमथ सप्रतिघं च वा ।
स्वप्नात्मकोऽयं संसारो जीवस्येह परत्र च ॥ ७२ ॥
एतन्म्लेच्छादिदेशेषु मृतानां दर्शनात्पुनः ।
स्मृतिपूर्वं च कथनात्प्रत्यक्षमनुभूयते ॥ ७३ ॥
ये मृता भस्मसाज्जाता म्लेच्छदेशेषु ते पुनः ।
आगत्य कथयित्वार्थं गच्छन्त्यप्रतिघात्मकाः ॥ ७४ ॥
एष चेज्जीवतो धर्मस्तद्देशान्तरगे जने ।
मृत इत्येव बुद्धेऽर्थे कस्मान्नैव प्रवर्तते ॥ ७५ ॥
जीवधर्मः सोऽपि संश्चेन्मृतधर्मोऽपि किं न सन् ।
यादृगनुभवस्त्वस्मिन्समे न्यायद्वये स्थिते ॥ ७६ ॥
स्वप्नवज्जगदाभानमित्येवं सत्यखण्डितम् ।
आर्यानुभवशास्त्राणामनेनास्त्येकवाक्यता ॥ ७७ ॥
दृष्टिजालं जनौघानां पश्यतामिन्दुमन्दिरे ।
यादृगप्रतिघं तादृग्जगत्सदसदात्मकम् ॥ ७८ ॥
सन्मात्रमात्रानुविधमच्छानुभवमात्रकम् ।
चिन्मात्रं भानमात्रात्म सर्वार्थात्मार्थवर्जितम् ॥ ७९ ॥
सर्वमप्रतिघं शान्तं जगदेकं चिदम्बरे ।
अनिङ्गनमनाभासमात्मन्येवात्मनास्यताम् ॥ ८० ॥
अचला संविदेवास्ते स्थिरं कृत्वा यथा यथा ।
तथा तथा भवत्याशु किमसत्किं च वापि सत् ॥ ८१ ॥
शरीराण्यथ कर्माणि दुःखानि च सुखानि च ।
यथा स्थितान्युपायान्तु यान्तु वा कस्य किं ग्रहः ॥ ८२ ॥
इत्थमस्तु सदथान्यथास्तु वा मैव भूद्भवतु कोऽत्र संभ्रमः ।
मुञ्च फल्गुनि फले फलावहं बुद्धवानसि कृतं परिभ्रमैः ॥ ८३ ॥
हिन्दी अर्थ
केवल ज्ञान से वस्तु (कर्म) का नाश कैसे संभव है ऐसी शंका उठने पर कर्म वस्तु ही नहीं है, यों
परिहार करते हैं।
जिसका अस्तित्व ही नहीं है, उसके नाश में कौन-सी कठिनाई है ? बन्ध परमार्थ के सिवा कुछ है
ही नहीं अर्थात् अज्ञानवश परमार्थ में वह कल्पित है । जब तक पाण्डित्य प्राप्त न हो जाय तभी तक
माया संसाररूप बन्धन का भय उत्पन्न करती है, वास्तव में पाण्डित्य भी वही है, जिससे फिर भवसागर
में पतन नहीं होता । शुष्क तर्कादि पाण्डित्य का यहाँपर कुछ भी उपयोग नहीं है । इसलिये निरन्तर
निर्मल ज्ञान से परिपूर्ण पाण्डित्य के लिए श्रवण, मनन आदि प्रयत्न करना चाहिये । इसके सिवा दूसरे
उपाय से आपका संसारभय कदापि शान्त नहीं हो सकता