Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 131, Verses 35–58
This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 131, verses 35–58 — the original Sanskrit shloka(s) with their Hindi meaning.
निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 131 · श्लोक 35
संस्कृत श्लोक
समाः शतं मेरुमृगोऽहमासं सुवर्णवर्णस्तरुपर्णकर्णः ।
दूर्वाङ्कुरास्वादनगीतिनिष्ठ अहन्कनिष्ठो वनवासिमध्ये ॥ ३५ ॥
पादाष्टकैरावलितात्मपृष्ठो मृतेऽम्भसः क्लेशकृतात्ममृत्युः ।
समाः शतार्धं शरभोऽहमासं क्रौञ्चाचले काञ्चनकन्दरासु ॥ ३६ ॥
कालागुरुद्रुमलतावलितानिलेन विद्याधरीसुरतधर्मकलामृतानि ।
पीतानि मे मलयसानुनि मन्दरे च मन्दारचन्दनकदम्बलतागृहेषु ॥ ३७ ॥
हेमारविन्दमकरन्दपिशङ्गितानि पीतानि पञ्चदशवर्षशतानि मेरौ ।
वैरिञ्चहंसतनयेन मया पयांसि तीरान्तरेषु रमतोपरि निर्झरिण्याः ॥ ३८ ॥
क्षीरोदवेलावनगन्धवाहविलोलनीलालकवल्लरीणाम् ।
समाः शतं शोकजरापहारि गीतं श्रुतं माधवसुन्दरीणाम् ॥ ३९ ॥
कालञ्जरे मञ्जरिते करञ्जगुञ्जावने जम्बुकतां गतोऽहम् ।
गजेन पिष्टे हरिणा हतोऽसौ हस्ती मयात्रार्थमृतेन दृष्टः ॥ ४० ॥
संतानकप्रकरहासिनि सह्यसानौ कस्मिंश्चिदन्यजगतीन्दुमुखी सुरस्त्री ।
एकाकिनी कृतयुगार्धमथाहमासं कल्पद्रुमस्तबकसद्मनि सिद्धशापात् ॥ ४१ ॥
अद्रीन्द्रकच्छकरवीरलतालयेषु नीतं समाशतमशङ्कधिया मयान्यत् ।
अन्यत्र दूरजगतीन्द्रगिरौ विराविवाल्मीकपक्षिवपुषाऽनिशमेककेन ॥ ४२ ॥
अन्यत्र सानुनि मया परिलम्बमानाः सच्छायचन्दनवनावलिते लतानाम् ।
दृष्टाः स्त्रियः फलमिवावलिता विलासैभुक्ताश्च ता अपहृता अपि सिद्धपान्थैः ॥ ४३ ॥
अन्यत्र पर्वतनितम्बकदम्बकच्छे नीतानि तापसतयोत्तमया दिनानि ।
प्राप्यैकवस्त्वभिनिवेशविषूचिकात्तचित्तेन तान्तमतिनाऽमतिना मयान्तः ॥ ४४ ॥
ब्रह्माण्डसंपूरितमन्यदस्ति जलेचराशेषदिगन्तभूतम् ।
संदिग्धतेजोम्बरवातसत्तं जलस्थभूताकृतिमात्रभूमि ॥ ४५ ॥
एकत्र दृष्टा वनिता मयैका तस्याः शरीरे त्रिजगन्ति भान्ति ।
प्रतिबिम्बितानीव सुदर्पणेऽन्तराकाशशैलादिदिगादिमन्ति ॥ ४६ ॥
पृष्टा मयासौ वरगात्रि कासि शरीरमेतच्च किमीदृशं ते ।
तयोक्तमङ्गेह चिदस्मि शुद्धा ममाङ्गमेतानि महाजगन्ति ॥ ४७ ॥
यथाहमेवं स्मयदेहिकेयं सर्वं तथैवाङ्ग न चित्रमेतत् ।
अन्यैः स्वभावो विदितो न शुद्धो यदा न पश्यन्ति तदेत्थमङ्ग ॥ ४८ ॥
अवेदशास्त्रेण जगत्यशेषैर्भूतैः स्वदेहालयभित्तिभागात् ।
एतद्विधेयं न विधेयमेतद्ध्वनिः स्वतः श्रूयत एव नित्यम् ॥ ४९ ॥
ईदृक्स्वभावैव पदार्थसत्ता सा तेऽत्र यद्भित्त्यचलादयोऽपि ।
स्वप्नादिमायास्विव मे वदन्ति वाचं न युष्मास्वसमञ्जसं तत् ॥ ५० ॥
अस्त्रीकसंसारगतेन दृष्टं मया क्वचिद्यावदनन्यकामम् ।
भूतानि निर्यान्ति बहूनि भूताद्विशन्ति भूतानि बहूनि भूतम् ॥ ५१ ॥
एकानि दृष्टानि मयाञ्जसानि खेऽभ्राण्यदभ्राङ्ग झणज्झणानि ।
वृष्ट्या समन्तान्निपतन्ति खण्डैर्भवन्ति तीक्ष्णानि जनायुधानि ॥ ५२ ॥
अन्यत्र दृष्टं गगनेन यावदिहान्धया ग्रामगृहाणि यान्ति ।
विशन्त्यमुत्रान्त इहाभवद्वो ग्रामः स एवान्यत एव लब्धः ॥ ५३ ॥
नरामराऽहिप्रविभागमुक्तान्यन्यत्र भूतानि समानि सन्ति ।
खादेव सर्वाणि समुद्भवन्ति तत्रैव काले न लयं प्रयान्ति ॥ ५४ ॥
अचन्द्रतारार्कमनन्धकारं स्वयंप्रकाशाखिलभूतजातम् ।
स्मरामि किंचिज्जगदेककान्तं ज्वालोदराभं दिनरात्रिमुक्तम् ॥ ५५ ॥
अपूर्वदैत्याहिनरामरादिभूतान्यपूर्वद्रुमपत्तनानि ।
अपूर्वलोकान्तरकार्यवन्ति स्मराम्यनन्तानि महाजगन्ति ॥ ५६ ॥
दिगस्ति सा नो विहृतं न यस्यां न सोऽस्ति देशः खलु यो न दृष्टः ।
यन्नानुभूतं न तदस्ति कार्यमन्याश्रयं नापरमस्ति मर्शात् ॥ ५७ ॥
क्षीरोदकभ्रमितमन्दररत्नश्रृङ्गधाराग्रनिर्दलनजातझणज्झणानाम् ।
एकत्र संयुतमुपेन्द्रभुजाङ्गदानां शब्दं स्मरामि घनगर्जितशङ्कितेन ॥ ५८ ॥
हिन्दी अर्थ
आश्चर्य हे चिदात्मा का आवरण करनेवाले
मायास्वभावरूप विभव की, जो कि वस्तुतः शून्य है, कैसी महिमा है । जो महिमाशून्य होती हुई भी
परमात्मघन के अन्दर इस तरह के विविध विचित्र जगत् बनकर प्रतीत होती है