Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 128, Verses 23–46
This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 128, verses 23–46 — the original Sanskrit shloka(s) with their Hindi meaning.
निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 128 · श्लोक 23
संस्कृत श्लोक
भ्रमे स्वप्ने मनोराज्ये मिथ्याज्ञाने कथाश्रुतौ ।
यथा मनः प्रसरति तथा तत्प्रसृतं मनः ॥ २३ ॥
पतन्ति तु शरीरं तदातिवाहिकमुच्यते ।
आधिभौतिकधीर्भाति विस्मृत्यात्रैव कालतः ॥ २४ ॥
ते तदान्तर्धिमायाते सर्परज्जुभ्रमोपमे ।
आधिभौतिकदेहेऽस्मिञ्छिष्यतेत्वातिवाहिकः ॥ २५ ॥
आतिवाहिक एषोऽङ्ग निपुणं प्रविचार्यताम् ।
चिन्मात्रव्यतिरेकेण यावदत्रान्यदस्ति नो ॥ २६ ॥
देशाद्देशान्तरप्राप्तौ यन्मध्ये संविदो वपुः ।
चिन्मात्रस्यास्य तद्रूपमनन्तस्यैकरूपिणः ॥ २७ ॥
क्व द्वैतं क्व च वा द्वेषः क्व रागादि तु कथ्यताम् ।
सर्वं शिवमनाद्यन्तं परो बोध इति स्मृतः ॥ २८ ॥
निर्मनोमननं शान्तमासितं बोध उत्तमः ।
आतिवाहिकदेहस्थो न तं बोधमुपागतः ॥ २९ ॥
विपश्चित्तद्विबोधोऽसौ ददर्श विसरन्मनः ।
आतिवाहिकबोधेन गर्भवासोपमं तमः ॥ ३० ॥
तमसोऽन्ते विरिञ्चाण्डकवाटच्छेदभूतलम् ।
वज्रसारं हेममयं कोटियोजनविस्तृतम् ॥ ३१ ॥
तदन्ते प्राप सलिलं तस्मादष्टगुणं ततः ।
कपाटभूम्यैव समं स्थितमर्णवपृष्ठवत् ॥ ३२ ॥
तमतीत्य ततः प्राप तेजोऽर्कगणभीषणम् ।
प्रलयाग्निघनज्वालापिण्डकोटरभास्वरम् ॥ ३३ ॥
दाहशोकादिमुक्तेन वपुषा मानसेन तत् ।
तत्र गच्छन्त्य बुबुधे वहनं पूर्ववासितम् ॥ ३४ ॥
उह्यमानो विवेदासावात्मानं त्वातिवाहिकम् ।
चित्तमात्रात्मनः स्वस्य किमिवोह्यत इत्यपि ॥ ३५ ॥
इति बोधेन धीरात्मा तं तताराऽनिलार्णवम् ।
प्राप तद्विततं व्योम तस्माद्दशगुणं स्थितम् ॥ ३६ ॥
तदतिक्रम्य स प्राप ब्रह्माकाशमनन्तकम् ।
यत्र सर्वं यतः सर्वं यन्न किंचिच्च किंचन ॥ ३७ ॥
मनसा प्रभ्रमंस्तत्र दूराद्दूरतरं ययौ ।
तेन दृष्टं च पृथ्व्यापस्तेजो वायुस्तथा जगत् ॥ ३८ ॥
पुनः संसाररचनाः पुनः सर्गाः पुनर्दिशः ।
पुनर्महीधरा व्योम पुनर्देवाः पुनर्नराः ॥ ३९ ॥
पुनः पञ्चमहाभूतपर्यन्ते ब्रह्म निर्घनम् ।
पुनस्तत्र जगन्त्युच्चैः पुनः सर्गाः पुनर्दिशः ॥ ४० ॥
ब्रह्माकाशस्ततः सर्गाः पुनरन्ये त्वनिष्ठिताः ।
इत्यसौ विहरन्दीर्घकालमद्यापि संस्थितः ॥ ४१ ॥
स्वनिश्चयाच्चिराभ्यस्तान्नासौ विरतिमेति हि ।
अन्तो नैवास्त्यविद्यायाः सा हि ब्रह्मैव सत्यता ॥ ४२ ॥
वस्तुतो नास्त्यविद्येह ब्रह्मण्यविकलात्मनि ।
इदं दृश्यमविद्येयमित्यात्मैष विकासितः ॥ ४३ ॥
यद्यथा जाग्रति स्वप्ने दृष्टं द्रक्ष्यसि पश्यसि ।
तत्तथा ब्रह्म सच्छान्तमासीदस्ति भविष्यति ॥ ४४ ॥
घनतमःप्रविलोकनचक्रकं क्रमजगत्प्रतिभानमिदं महत् ।
परतया प्रतिभात्मतयानया न च सदङ्ग न वाप्यसदाकृति ॥ ४५ ॥
तेष्वेव तेष्विव च तेषु तनूतरेषु ब्रह्मोदरेषु चिरदूरतरं जगत्सु ।
सोऽद्याप्यसंविदिततत्त्वतया तयोच्चैः खण्डेषु रङ्कुरिव राघव बंभ्रमीति ॥ ४६ ॥
हिन्दी अर्थ
सब वस्तुओं का गिरना, उडना, तिरछे चलना तथा एक जगह खड़ा रहना जो प्रतीत
होता है वह सब प्रत्यगात्मा का अवभासन ही है, वह वास्तविक नहीं है यानी वस्तुतः वस्तुओं का न
गिरना है, न उड़ना है, गमन है, न आगमन है, न स्थिति है । कुछ भी नहीं है, पतनादि होने में
अद्वैतविरोध होगा, यह भाव है