Guru's AddaGuru's Adda

Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 120, Verses 27–35

This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 120, verses 27–35 — the original Sanskrit shloka(s) with their Hindi meaning.

निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 120 · श्लोक 27

संस्कृत श्लोक

वनविन्यासवसना निर्झरामलहासिनी । आस्तीर्णपुष्पास्तरणा धन्या वनविलासिनी ॥ २७ ॥ रमन्ते नन्दनोद्याने न तथोदारबुद्धयः । यथोपशान्तशब्दासु शुद्धासु वनभूमिषु ॥ २८ ॥ सुविरक्तं मुनेश्चेतो रक्तं च विषयार्थिनः । रमयन्ति समं रम्या विजना वनभूमयः ॥ २९ ॥ सलिलाधौतवप्राणामम्भोधितटभूभृताम् । नूपुरैरिव रत्नौघैः पादा भान्ति ध्वनन्ति च ॥ ३० ॥ पुंनागनगविश्रान्ताः कान्तकाञ्चनकान्तयः । हेमचूडाः खगा भान्ति दिवि देवगणा इव ॥ ३१ ॥ भ्रमराम्भोदधूमाढ्याः फुल्लचम्पककाननाः । कम्पन्ते पश्य वातेन ज्वलिता इव पर्वताः ॥ ३२ ॥ कुर्वन्तं करवीराग्रलतान्दोलावदोलकम् । कोकिलं कोकिलालिङ्ग्य लोलालापयति प्रियम् ॥ ३३ ॥ लसत्कलकलारावमेता लावणसैन्धवीः । पूर्णास्तटभुवो भूपैः पश्योपायनपाणिभिः ॥ ३४ ॥ आ पूर्वादाऽपरस्माल्लवणजलनिधेरोत्तराद्दक्षिणाद्वा देवोदग्राजिशिष्टा इह नरपतयः पादपीठीक्रियन्तां दीयन्तां मण्डलानां दिशि दिशि च यथाशास्त्रमस्त्राण्यवन्या रक्षायै क्षान्तिपूर्वं चिरमतुलबलं शान्तया शासनानि ॥ ३५ ॥

हिन्दी अर्थ

कहीं पर चिताओं के संचालन से महान्‌ प्रकाश हो जाता था, कहीं पर बहुत बड़ी केशराशि द्वारा वहाँ बादल के समूह से बनाये गये थे, कहीं पर पृथिवी तल रुधिरधारा से लथपथ था, अतएव रात्रि के समय शैलशून्य वह गरज रहे मेघ-सा शब्द करता था