Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 116, Verses 56–81
This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 116, verses 56–81 — the original Sanskrit shloka(s) with their Hindi meaning.
निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 116 · श्लोक 56
संस्कृत श्लोक
उन्मत्तमत्तपतनोन्मुखधावमानमानाधिकान्विषयवीथिषु दत्तमूर्तिः ।
यन्मन्यते तृणलवाग्र विलोकयेच्छासत्त्वं जडत्वमुत वास्य विचार्यतां तत् ॥ ५६ ॥
कोलाहलः समानेऽपि तिर्यक्त्वे क्षुब्धमानसैः ।
अन्यथा सह्यते सिंहैर्मीलितैरन्यथा श्वभिः ॥ ५७ ॥
नित्याशुचे प्रियजने भषणैकनिष्ठ रथ्यान्तरभ्रमणनीतसमस्तकाल ।
कौलेयकाशयसमानतयैव मन्ये मूर्खेण केनचिदहो बत शिक्षितोसि ॥ ५८ ॥
नित्यं सर्वं जगदसदृशं कुर्वतोच्चैर्विधात्रा दौहित्रेऽस्मिञ्छुनि समदृशे निर्मितं सर्वमेव ।
वासोऽमेध्यावकरकुहरे भोजनं गूथपूयं सर्वालोके कुरतिकुरतिः सर्वनिन्द्यं शरीरम् ॥ ५९ ॥
त्वत्तः कोऽधम इत्युदीरितवते श्वोवाच हासान्वितं
मत्तो मौर्ख्यममेध्यमान्ध्यमशुभं यः सेवते सोधिकः
शौर्यं भक्तिरकृत्रिमा धृतिरिति श्रीमान्गुणो योस्ति मे मूर्खादेष गुणः प्रयत्ननिचयैरन्विष्य नो लभ्यते ॥ ६० ॥
भुङ्क्तेऽमेध्यममेध्य एव रमते नित्यं महावस्करे तूष्णीमत्ति सचेतनं कृतरतिर्निश्चेतनं कृन्तति ।
सर्वैरेत्य रते शुनीविवलिते लोष्टैर्जनैस्ताड्यते धात्रा खेलसमन्वितस्थितिरलं लोके कृतो नेश्वरः ॥ ६१ ॥
लिङ्गस्योर्ध्वं रटत्काक आत्मानं दर्शयत्ययम् ।
सर्वाधःपातकोत्तुङ्गगतं पश्यत मामिति ॥ ६२ ॥
काकक कटुकल्कारव कवलितगुणकर्दमे भ्रमन्सरसि ।
अन्तरयसि मधुपरवं यदतो मे शिरसि फलभूतः ॥ ६३ ॥
कवलयति नरकनिकरं परिहरति मृणालिकां ध्वाङ्क्षः ।
यदतोऽस्तु मा स्मयस्ते स्वभ्यस्तं सर्वदा स्वदते ॥ ६४ ॥
विविधवनकुसुमकेसरधवलवपुर्हस इव दृष्टः ।
काकः कृमिकुलकवलं क्लिन्नमथो कवलयन् ज्ञातः ॥ ६५ ॥
तुल्यवर्णच्छदैः कृष्णः संगतैः किल कोकिलैः ।
केन विज्ञायते काकः स्वयं यदि न भाषते ॥ ६६ ॥
अरण्यान्या मृदः स्थाणौ स्थितः काको निरीक्षते ।
चैत्याद्दशदिशश्चोरो निशि सुप्ते जने यथा ॥ ६७ ॥
सरभससारसविदलत्पुष्करमकरन्दसुन्दरे सरसि ।
कथमिह विहरति काकः स्फुरदवकरनिकरधूसरस्कन्धः ॥ ६८ ॥
हा कष्टमिष्टवपुषि स्फुटपुण्डरीककोशे कषाहननयोग्यमुखः पिशाचः ।
पश्यैष काक उपविश्य कुपल्वलेऽस्मिन् लीलाःकरोति विविधाः सह राजहंसैः ॥ ६९ ॥
हे काक कर्कशरव क्रकचैकचिह्न तादृक्स्वशङ्कनमपि क्व नु तेऽद्य यातम् ।
कस्मादनर्थकमिदं पिकपाकमेकपुत्राशया तदपि ते ह्युपहाससिद्ध्यै ॥ ७० ॥
आलोक्य पङ्कजवने सविलासवन्तं काकं कलङ्कसदृशं भृशमारटन्तम् ।
हा कष्टशब्दशतनष्टविचेष्टितो यो नो रोदिति क्रकचकेन विदार्यतां सः ॥ ७१ ॥
विशरारुशरारुमये वकमद्गुघने च पल्वले चपलाः ।
स्युर्यदि कौशिककाकास्तत्स्यादेषा समन्विता गोष्ठी ॥ ७२ ॥
कोकिलः काकसंघातैः समसंवरणाकृतिः ।
गदितैर्व्यक्ततामेति सभायामिव पण्डितः ॥ ७३ ॥
मृदुकुसुमाङ्कुरदलनं सोढुमलं कोकिलस्य कुसुमलता ।
न तु कङ्कगृध्रमद्गुकबककुक्कुटवायसादीनाम् ॥ ७४ ॥
श्रोत्रोत्सवं तव कलं कलकण्ठ कोऽत्र नादं श्रृणोति रतिविग्रहसंधिदूतम् ।
काकैरुलूककलहैरिह गुल्मकेषु क्रेंकारघर्घररवैः श्रुतिरागतास्तम् ॥ ७५ ॥
वाचाकोमलया सुकोकिलशिशुः कल्याणकल्पां कथां सर्वावर्जनमार्जवेन कुरुते यावत्पुरो रागिणाम् ।
तावन्मत्तनयोऽयमित्यविरतं द्रांकारभीमारवैर्ध्वांक्षेणोपवने निपत्य नभसः सर्वे कृता नीरसाः ॥ ७६ ॥
किं किं कोकिल कूजसि द्रुतरवं हर्षात्समुल्लासितं ग्रीवाकोटरतः प्रवेशय पुनर्मा भूच्चिरं ते भ्रमः ।
उद्दामैः कुसुमैर्निरन्तरतरं नेदं मधोर्जृम्भितं हेमंतेन कृतास्तुषारनिकरैः शुष्का अमी पादपाः ॥ ७७ ॥
कूजत्कोकिल कोमलं कलरवैर्नित्यं प्रशस्ताकृते केनेदं बत शिक्षितोसि वचनं दुःखप्रदं दुर्भगम् ।
चैत्रे चित्रनवाङ्कुरे विरहिणी वक्ति त्वया यात्मनः कस्यायं मधुरित्यतस्तव तवेत्युक्तं त्वरोच्चैस्तरोः ॥ ७८ ॥
मौनस्पन्दविहारवर्णवपुषां साम्येऽपि काकव्रजेऽकाकः कोकिल एष कान्तिरुचिरो दूरात्परिज्ञायते ।
मध्ये मूर्खजनस्य पण्डित इव स्वाकारभव्यक्रियः सर्वो हि प्रथिमानमेति सदृशस्वान्तश्चमत्कारतः ॥ ७९ ॥
भ्रातः कोकिल कूजितैरलमलं नायात्यनर्घ्यो गुणस्तूष्णीमास्व विशीर्णपर्णपटलच्छन्ने क्वचित्कोटरे ।
उद्दामद्रुमकन्दरे कटुरटत्काकावलीसकुलः कालोयं शिशिरस्य संप्रति सखे नायं वसंतोत्सवः ॥ ८० ॥
चित्रं मातरमेष कोकिलशिशुः संत्यज्य काकीं गतः सैषैनं तुदतीति यावदहमप्याचिन्तयामि क्षणम् ।
तावत्सोऽपि तथाशु मातृसदृशं श्लिष्टो रसाद्वर्धितुं यामायाति दिशं स्वभावसुभगः सैवास्य माहात्म्यदा ॥ ८१ ॥
हिन्दी अर्थ
वायुवश हिल रहीं लाल, पीले और हरे पत्तोवाली छोटी -छोटी लताओं से इनके हरे-भरे
मैदान भरे है, गौरिया, कोक और कुक्कुट चहचहा रहे हैं, शबरों की स्त्रियाँ गा रही हैं, बालकों द्वारा
पालित होने से इनमें बछड़े आनन्दमग्न हैं यानी उनमें किसी प्रकार की घबड़ाहट नहीं है ओर
बालक तथा अव्याकुल बछड़े दही, शहद, दूध और घी पीने से खूब तगड़े हैं इस प्रकार के
पर्वतग्राम ब्रह्म के विश्राम के लिए निर्मित मण्डप-से लग रहे हैं