Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 108, Verses 15–48
This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 108, verses 15–48 — the original Sanskrit shloka(s) with their Hindi meaning.
निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 108 · श्लोक 15
संस्कृत श्लोक
देव दोर्द्रुमविश्रान्तधरागोबन्धनाच्युत ।
श्रूयतां मन्मुखात्पश्चाद्यथाप्राप्तं विधीयताम् ॥ १५ ॥
पूर्वदिङ्मुखसामन्तो ज्वरेणास्तमुपागतः ।
मन्ये जेतुं यमं यातस्त्वयारब्धो जितारिणा ॥ १६ ॥
तस्मिन्समन्ततो जेतुं दक्षिणापथनायकः ।
पूर्वापराभ्यामाक्रम्य बलाभ्यामरिणाऽऽहतः ॥ १७ ॥
तस्मिन्मृते समागम्य यावद्वारुणदिक्पतिः ।
बलेनायाति ककुभौ ते समादातुमादृतः ॥ १८ ॥
पूर्वदेशनृपैः सार्धं दक्षिणापथपार्थिवैः ।
तावदेवारिभिरसावर्धमार्गे रणे हतः ॥ १९ ॥
श्रीवसिष्ठ उवाच ।
अथास्मिन्कथयत्येवं त्वरार्तमपरश्चरः ।
उपप्लवजडोत्पीड इव हर्म्यं विवेश ह ॥ २० ॥
चर उवाच ।
उत्तराशाबलाध्यक्षो देवारिभिरुपद्रुतः ।
इत आयाति सबलो भग्नसेत्वम्बुपूरवत् ॥ २१ ॥
श्रीवसिष्ठ उवाच ।
इति श्रुत्वा महीपालः कालक्षेपमवास्तवम् ।
मन्यमान उवाचेदं निर्गच्छन्वरमन्दिरात् ॥ २२ ॥
राज्ञः सन्नह्य सामन्तानानीयन्तां च मन्त्रिणः ।
उद्धाट्यन्तां हेतिशाला दीयन्तां घोरहेतयः ॥ २३ ॥
श्लेष्यन्तां कंकटा देहेष्वागच्छन्तु पदातयः ।
गण्यन्तामाशु सैन्यानि क्रियन्तां वरकल्पनाः ॥ २४ ॥
कल्प्यन्तां च बलाध्यक्षाः प्रेष्यन्तामभितश्चराः ।
श्रीवसिष्ठ उवाच ।
वदत्येवं त्वरायुक्तं संरम्भवति राजनि ॥ २५ ॥
प्रतीहार उवाचेदं प्रविश्याकुलमानतः ।
प्रतीहार उवाच ।
उत्तराशाबलाध्यक्षो देव द्वार्यवतिष्ठति ।
काङ्क्षत्यब्जमिवार्कस्य देवदेवस्य दर्शनम् ॥ २६ ॥
राजोवाच ।
गच्छाविलम्बितं तावदेनमेव प्रवेशय ।
जानीमः किं दिगन्तेषु वृत्तं वृत्तान्तसंश्रवात् ॥ २७ ॥
श्रीवसिष्ठ उवाच ।
इत्युक्त उत्तराशेशं प्रतिहारप्रवेशितम् ।
प्रणामपरमग्रेऽसौ राजाऽपश्यद्वलाधिपम् ॥ २८ ॥
क्षतविक्षतसर्वाङ्गमङ्गमङ्गेषुसंततम् ।
श्वासाकुलं वमद्रक्तं धैर्येणाबलनिर्जितम् ॥ २९ ॥
स प्रणम्य त्वरायुक्तमुवाचेदमुपक्रमम् ।
संस्तभ्याङ्गव्यथामाशु संततोच्छ्वासमुच्छ्वसन् ॥ ३० ॥
बलाध्यक्ष उवाच ।
देव त्रयोऽपि दिक्पाला बलेन बहुना सह ।
त्वदाज्ञयेव निर्जेतुं यमं यमपुरं गताः ॥ ३१ ॥
तद्देशपालनाद्यर्थमशक्तं मामिमं ततः ।
अनुद्रवन्तो बहवो भूपाः प्राप्ता बलादिह ॥ ३२ ॥
महत्परबलं प्राप्तमिदं देवस्य मण्डलम् ।
विधीयतां तथाप्राप्तं न देवस्यास्ति दुर्जयम् ॥ ३३ ॥
श्रीवसिष्ठ उवाच ।
अथ तस्मिन्वदत्येवमार्तिमत्याजिविक्षते ।
सहसैवाभ्युवाचेदं प्रविश्य पुरुषोऽपरः ॥ ३४ ॥
पुरुषा मण्डलस्यास्य विपुला दललीलया ।
स्थितान्यरिबलान्युच्चैश्चतुर्दिक्कं नरेश्वर ॥ ३५ ॥
कचच्चक्रगदाप्रासकुन्तकाननकान्तिभिः ।
वलिता नोऽरिभिर्भूमिर्लोकालोकतटैरिव ॥ ३६ ॥
पताकायुधयोध्रङ्गाश्चलत्परिकराकुलाः ।
विसरन्ति रथास्तत्र प्रोड्डीनत्रिपुरौघवत् ॥ ३७ ॥
करानुन्नामयन्तः खे मांसवृक्षवनोपमाः ।
बृंहन्ति वारणव्यूहा वर्षावारिदवृन्दवत् ॥ ३८ ॥
नतोन्नतानि कुर्वन्तः स्पन्देनोर्वीनतोन्नतैः ।
हेषन्ते हयसंघाता वातस्पन्दमहाब्धिवत् ॥ ३९ ॥
रसन्ति तुरगापुराः फेनिलावर्तपातिनः ।
सर्वतो वलयाकारा लवणार्णववारिवत् ॥ ४० ॥
आकाशकान्तिसन्नाहैर्दिशं प्रति बलं बलम् ।
उदेत्यलघुकल्लोलैः प्रलयार्णवपूरवत् ॥ ४१ ॥
शरास्त्रशस्त्रसन्नाहमुकुटाभरणत्विषः ।
कचन्ति त्वत्प्रतापाग्नेर्ज्वाला इव तदङ्गगाः ॥ ४२ ॥
समत्स्यमकरव्यूहाः सचक्रावर्तवृत्तयः ।
उद्यन्ति सैन्यसंघट्टैः कल्लोला जलधेरिव ॥ ४३ ॥
परस्परपरामर्शात्कुन्ताद्यायुधपङ्क्तयः ।
कोपादिवोग्रहुंकारैर्ज्वलन्ति विरटन्ति च ॥ ४४ ॥
इति कर्तुमहं देव विज्ञप्तिं स्वामिनेरितः ।
तस्मान्मण्डलसीमान्तगुल्माद्युद्धाय गच्छता ॥ ४५ ॥
तमहं देव गच्छामि शक्त्यृष्टिशरसंगतः ।
मयेहावेदितं सर्वं देवो जानात्यतः परम् ॥ ४६ ॥
श्रीवसिष्ठ उवाच ।
इत्युक्त्वाथ प्रणामं च स कृत्वा त्वरया ययौ ।
कृत्वा गुलुगुलारावं शान्तो वीचिरिवाम्बुधेः ॥ ४७ ॥
संभ्रान्तमन्त्रिनृपयोधनियोगिनागनारीरथाश्वपरिचारकनागरौघम् ।
राज्ञो गृहं स्वभयतोलितहेतिसार्थं चण्डानिलाकुलमहावनतुल्यमासीत् ॥ ४८ ॥
हिन्दी अर्थ
स्वानुभवैक वेद्य जो इस चिदाकाश का निराकार स्वरूप
है, वही यह महीतल आदि रूप से वेद्य, दृश्य नाम धारण कर उस तरह स्फुरित होता है