Guru's AddaGuru's Adda

Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 105, Verses 9–45

This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 105, verses 9–45 — the original Sanskrit shloka(s) with their Hindi meaning.

निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 105 · श्लोक 9

संस्कृत श्लोक

स्वप्ने किल महाबुद्धे नानानिर्माणशालिनि । आरम्भा एव नारम्भा असत्सदिव चाततम् ॥ ९ ॥ अव्योमैवातिविततं व्योमान्तपरिवर्जितम् । व्योमैवाचलसंघातो नानापुरगणोत्करः ॥ १० ॥ अप्यब्दाब्ध्यद्रिनिर्घोषो मौनमेव यथा तथा । न श्रृणोत्येव पार्श्वस्थः संप्रबुध्यापि किंचन ॥ ११ ॥ प्रजायते वाऽजातोऽपि वन्ध्यायास्तनयो यथा । जातोऽप्यजात एवास्ते यथात्ममृतिविस्मृतौ ॥ १२ ॥ सदसद्भवति क्षिप्रं भुवोऽननुभवो यथा । विपर्यस्यति सर्वं च रात्रिरेव यथा दिनम् ॥ १३ ॥ असद्यत्संभवत्याशु दिनमेव यथा निशा । असंभवः संभवति यथा स्वमृतिदर्शनम् ॥ १४ ॥ असंभवः संभवति जगद्भानमिवाम्बरे । तम एव महालोको यः सनिद्रः सवासरः ॥ १५ ॥ आलोक एवैति तमो यन्निद्रा स्वप्नवासरा । वसुधैव भवेद्व्योम श्वभ्रादिपतने यथा ॥ १६ ॥ असत्यरूपमेवेति भाति स्वप्ने जगद्यथा । तथैव जाग्रदाभाति मनागप्यत्र नान्यता ॥ १७ ॥ यथा द्वौ सदृशौ सूर्यौ यथा द्वौ सदृशौ नरौ । जाग्रत्स्वप्नौ तथैवैतौ मनागप्यत्र नान्यता ॥ १८ ॥ श्रीराम उवाच । नैतदेवमपि क्षिप्रात्प्रत्ययो यत्र बाधकः । स्वप्ने तद्दर्शनेनान्तः कथं जाग्रन्समं भवेत् ॥ १९ ॥ श्रीवसिष्ठ उवाच । विहृत्य स्वप्नजगति स्वप्नबन्धुजनैः समम् । मृतिमाप्नोति तत्रासौ द्रष्टा स्वप्नस्य राघव ॥ २० ॥ मृतः सन्स्वप्नजगति स्वप्नजन्तुवियोगवान् । इह प्रबुध्यते जन्तुर्निद्रामुक्तश्च कथ्यते ॥ २१ ॥ सुखदुःखदशामोहान्दिनरात्रिविपर्ययान् । अनुभूय बहून्द्रष्टा म्रियते स्वप्नसंसृतौ ॥ २२ ॥ गतनिद्रतया पश्चान्निद्रान्त इह जायते । न सत्यमेतदित्येवं ततः प्रत्ययवान्भवेत् ॥ २३ ॥ स्वप्नद्रष्टा यथा स्वप्नसंसारे मृतिमाप्तवान् । अन्यं जाग्रन्मयं स्वप्नं द्रष्टुं भूयः प्रजायते ॥ २४ ॥ जाग्रद्द्रष्टा तथा जाग्रत्संसारे मृतिमाप्तवान् । अन्यं जाग्रन्मयं स्वप्नं द्रष्टुं भूयः स जायते ॥ २५ ॥ न स्वप्नमसदित्येवं पूर्वस्मिञ्जाग्रदात्मनि । पुनः प्रत्ययमादत्ते स्वप्नात्स्वप्नान्तरं गतः ॥ २६ ॥ स जाग्रत्प्रत्ययं तत्र पुनर्गृह्णाति मुग्धधीः । स्वप्नसंदर्शनं त्वन्यत्तत्राप्यनुभवत्यथ ॥ २७ ॥ स्वप्नं जाग्रत्तया जाग्रत्स्वप्नत्वं चेति नामनि । न जायते न म्रियते जायते म्रियतेऽपि च ॥ २८ ॥ स्वप्नद्रष्टा स्वप्नमृतः प्रबुद्ध इह कथ्यते । इह जाग्रन्मृतो जन्तुः प्रबुद्धोऽन्यत्र कथ्यते ॥ २९ ॥ स्वप्नात्स्वप्नस्थितौ जाग्रज्जाग्रत्स्वप्नप्रदर्शनम् । मृत्वान्यत्र प्रबुद्धस्य जाग्रत्स्वप्नो भवत्यलम् ॥ ३० ॥ इतिहासमयावेव जाग्रत्स्वप्नावुभावपि । परस्परं गतावेतावुपमानोपमेयताम् ॥ ३१ ॥ स्वप्नो जाग्रदिवाभाति जाग्रत्स्वप्नमिवोदितम् । वस्तुतस्तु द्वयमसच्चित्खं कचति केवलम् ॥ ३२ ॥ स्थावरं जंगमं चैव भूतजातमशेषतः । चिन्मात्रव्यतिरेकेण किमन्यदुपपद्यते ॥ ३३ ॥ मृन्मयं तु यथा भाण्डं मृच्छून्यं नोपलभ्यते । चिच्चमत्कारमात्रात्म तथा काष्ठोपलाद्यपि ॥ ३४ ॥ वस्तुजातमिदं स्वप्ने जाग्रत्यपि तथैव नः । दृष्टो य उपलः स्वप्ने चिच्चमत्करणादृते ॥ ३५ ॥ किमन्यत्संवद प्राज्ञ किलावश्यं चिदेव सा । ननु यादृग्वपुः स्वप्ने जाग्रत्तादृगखण्डितम् ॥ ३६ ॥ जगज्जातमतः सर्वं चिन्मात्रं ब्रह्मखण्डितम् । जगज्जातमतः सर्वं चिन्मात्रं ब्रह्मकुट्टिमम् ॥ ३७ ॥ मृन्मयं तु यथा भाण्डं मृच्छून्यं नोपलभ्यते । चिन्मयं तु तथा चेत्यं चिच्छून्यं नोपलभ्यते ॥ ३८ ॥ शैलात्मकं यथा भाण्डं शैलशून्यं न लभ्यते । चिन्मयं तु तथा चेत्यं चिच्छून्यं नोपलभ्यते ॥ ३९ ॥ द्रवरूपं यथा वारि द्रवरिक्तं न लभ्यते । चिन्मयं तु तथा चेत्यं चिच्छून्यं नोपलभ्यते ॥ ४० ॥ ऊष्मरूपो यथा वह्निर्निरूष्मा नोपलभ्यते । चिन्मयं तु तथा चेत्यं चिच्छून्यं नोपलभ्यते ॥ ४१ ॥ यथा स्पन्दमयो वायुरस्पन्दो नोपलभ्यते । चिन्मयं तु तथा चेत्यं चिच्छून्यं नोपलभ्यते ॥ ४२ ॥ यद्यन्मयं तद्विना तु तत्कथं किल लभ्यते । क्वाशून्यं लभ्यते व्योम क्वाघना लभ्यते मही ॥ ४३ ॥ चिद्व्योममयमेवेदं यथा घटपटादिकम् । स्वप्ने तथेदं शैलादि चिद्व्योमाभासमात्रकम् ॥ ४४ ॥ स्वप्ने यथा गगनमेव पुराचलादि संविन्मयं सुभग जाग्रति तद्वदेव । स्वप्नोऽथ जाग्रदिति शान्तमनन्तमेकं चिन्मात्रमत्र ननु नाम विनास्तु वादः ॥ ४५ ॥

हिन्दी अर्थ

निर्मल आत्मस्वरूप के ज्ञात हो जानेपर जो दुःखलेशशून्य अक्षय सुखता (भूमानन्दरूपता) है, वही मोक्ष है । उक्त मोक्ष देह के रहते या न रहते एक सा है । (जीवन्मुक्ति और विदेहमुक्त में कोई भेद नहीं है) । उस मोक्ष में पूर्णं निर्भर विश्राम आपको प्राप्त हो उतने से ही आपकी कृतकृत्यता है