Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 105, Verses 9–45
This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 105, verses 9–45 — the original Sanskrit shloka(s) with their Hindi meaning.
निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 105 · श्लोक 9
संस्कृत श्लोक
स्वप्ने किल महाबुद्धे नानानिर्माणशालिनि ।
आरम्भा एव नारम्भा असत्सदिव चाततम् ॥ ९ ॥
अव्योमैवातिविततं व्योमान्तपरिवर्जितम् ।
व्योमैवाचलसंघातो नानापुरगणोत्करः ॥ १० ॥
अप्यब्दाब्ध्यद्रिनिर्घोषो मौनमेव यथा तथा ।
न श्रृणोत्येव पार्श्वस्थः संप्रबुध्यापि किंचन ॥ ११ ॥
प्रजायते वाऽजातोऽपि वन्ध्यायास्तनयो यथा ।
जातोऽप्यजात एवास्ते यथात्ममृतिविस्मृतौ ॥ १२ ॥
सदसद्भवति क्षिप्रं भुवोऽननुभवो यथा ।
विपर्यस्यति सर्वं च रात्रिरेव यथा दिनम् ॥ १३ ॥
असद्यत्संभवत्याशु दिनमेव यथा निशा ।
असंभवः संभवति यथा स्वमृतिदर्शनम् ॥ १४ ॥
असंभवः संभवति जगद्भानमिवाम्बरे ।
तम एव महालोको यः सनिद्रः सवासरः ॥ १५ ॥
आलोक एवैति तमो यन्निद्रा स्वप्नवासरा ।
वसुधैव भवेद्व्योम श्वभ्रादिपतने यथा ॥ १६ ॥
असत्यरूपमेवेति भाति स्वप्ने जगद्यथा ।
तथैव जाग्रदाभाति मनागप्यत्र नान्यता ॥ १७ ॥
यथा द्वौ सदृशौ सूर्यौ यथा द्वौ सदृशौ नरौ ।
जाग्रत्स्वप्नौ तथैवैतौ मनागप्यत्र नान्यता ॥ १८ ॥
श्रीराम उवाच ।
नैतदेवमपि क्षिप्रात्प्रत्ययो यत्र बाधकः ।
स्वप्ने तद्दर्शनेनान्तः कथं जाग्रन्समं भवेत् ॥ १९ ॥
श्रीवसिष्ठ उवाच ।
विहृत्य स्वप्नजगति स्वप्नबन्धुजनैः समम् ।
मृतिमाप्नोति तत्रासौ द्रष्टा स्वप्नस्य राघव ॥ २० ॥
मृतः सन्स्वप्नजगति स्वप्नजन्तुवियोगवान् ।
इह प्रबुध्यते जन्तुर्निद्रामुक्तश्च कथ्यते ॥ २१ ॥
सुखदुःखदशामोहान्दिनरात्रिविपर्ययान् ।
अनुभूय बहून्द्रष्टा म्रियते स्वप्नसंसृतौ ॥ २२ ॥
गतनिद्रतया पश्चान्निद्रान्त इह जायते ।
न सत्यमेतदित्येवं ततः प्रत्ययवान्भवेत् ॥ २३ ॥
स्वप्नद्रष्टा यथा स्वप्नसंसारे मृतिमाप्तवान् ।
अन्यं जाग्रन्मयं स्वप्नं द्रष्टुं भूयः प्रजायते ॥ २४ ॥
जाग्रद्द्रष्टा तथा जाग्रत्संसारे मृतिमाप्तवान् ।
अन्यं जाग्रन्मयं स्वप्नं द्रष्टुं भूयः स जायते ॥ २५ ॥
न स्वप्नमसदित्येवं पूर्वस्मिञ्जाग्रदात्मनि ।
पुनः प्रत्ययमादत्ते स्वप्नात्स्वप्नान्तरं गतः ॥ २६ ॥
स जाग्रत्प्रत्ययं तत्र पुनर्गृह्णाति मुग्धधीः ।
स्वप्नसंदर्शनं त्वन्यत्तत्राप्यनुभवत्यथ ॥ २७ ॥
स्वप्नं जाग्रत्तया जाग्रत्स्वप्नत्वं चेति नामनि ।
न जायते न म्रियते जायते म्रियतेऽपि च ॥ २८ ॥
स्वप्नद्रष्टा स्वप्नमृतः प्रबुद्ध इह कथ्यते ।
इह जाग्रन्मृतो जन्तुः प्रबुद्धोऽन्यत्र कथ्यते ॥ २९ ॥
स्वप्नात्स्वप्नस्थितौ जाग्रज्जाग्रत्स्वप्नप्रदर्शनम् ।
मृत्वान्यत्र प्रबुद्धस्य जाग्रत्स्वप्नो भवत्यलम् ॥ ३० ॥
इतिहासमयावेव जाग्रत्स्वप्नावुभावपि ।
परस्परं गतावेतावुपमानोपमेयताम् ॥ ३१ ॥
स्वप्नो जाग्रदिवाभाति जाग्रत्स्वप्नमिवोदितम् ।
वस्तुतस्तु द्वयमसच्चित्खं कचति केवलम् ॥ ३२ ॥
स्थावरं जंगमं चैव भूतजातमशेषतः ।
चिन्मात्रव्यतिरेकेण किमन्यदुपपद्यते ॥ ३३ ॥
मृन्मयं तु यथा भाण्डं मृच्छून्यं नोपलभ्यते ।
चिच्चमत्कारमात्रात्म तथा काष्ठोपलाद्यपि ॥ ३४ ॥
वस्तुजातमिदं स्वप्ने जाग्रत्यपि तथैव नः ।
दृष्टो य उपलः स्वप्ने चिच्चमत्करणादृते ॥ ३५ ॥
किमन्यत्संवद प्राज्ञ किलावश्यं चिदेव सा ।
ननु यादृग्वपुः स्वप्ने जाग्रत्तादृगखण्डितम् ॥ ३६ ॥
जगज्जातमतः सर्वं चिन्मात्रं ब्रह्मखण्डितम् ।
जगज्जातमतः सर्वं चिन्मात्रं ब्रह्मकुट्टिमम् ॥ ३७ ॥
मृन्मयं तु यथा भाण्डं मृच्छून्यं नोपलभ्यते ।
चिन्मयं तु तथा चेत्यं चिच्छून्यं नोपलभ्यते ॥ ३८ ॥
शैलात्मकं यथा भाण्डं शैलशून्यं न लभ्यते ।
चिन्मयं तु तथा चेत्यं चिच्छून्यं नोपलभ्यते ॥ ३९ ॥
द्रवरूपं यथा वारि द्रवरिक्तं न लभ्यते ।
चिन्मयं तु तथा चेत्यं चिच्छून्यं नोपलभ्यते ॥ ४० ॥
ऊष्मरूपो यथा वह्निर्निरूष्मा नोपलभ्यते ।
चिन्मयं तु तथा चेत्यं चिच्छून्यं नोपलभ्यते ॥ ४१ ॥
यथा स्पन्दमयो वायुरस्पन्दो नोपलभ्यते ।
चिन्मयं तु तथा चेत्यं चिच्छून्यं नोपलभ्यते ॥ ४२ ॥
यद्यन्मयं तद्विना तु तत्कथं किल लभ्यते ।
क्वाशून्यं लभ्यते व्योम क्वाघना लभ्यते मही ॥ ४३ ॥
चिद्व्योममयमेवेदं यथा घटपटादिकम् ।
स्वप्ने तथेदं शैलादि चिद्व्योमाभासमात्रकम् ॥ ४४ ॥
स्वप्ने यथा गगनमेव पुराचलादि संविन्मयं सुभग जाग्रति तद्वदेव ।
स्वप्नोऽथ जाग्रदिति शान्तमनन्तमेकं चिन्मात्रमत्र ननु नाम विनास्तु वादः ॥ ४५ ॥
हिन्दी अर्थ
निर्मल आत्मस्वरूप के ज्ञात हो जानेपर जो दुःखलेशशून्य अक्षय सुखता
(भूमानन्दरूपता) है, वही मोक्ष है । उक्त मोक्ष देह के रहते या न रहते एक सा है ।
(जीवन्मुक्ति और विदेहमुक्त में कोई भेद नहीं है) । उस मोक्ष में पूर्णं निर्भर विश्राम आपको
प्राप्त हो उतने से ही आपकी कृतकृत्यता है