Guru's AddaGuru's Adda

Yoga Vasistha — Nirvana Prakarana Purva (Liberation, Part 1), Sarga 75, Verses 1–18

This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Purva (Liberation, Part 1), Sarga 75, verses 1–18 — the original Sanskrit shloka(s) with their Hindi meaning.

निर्वाण प्रकरण (पूर्वार्ध) · सर्ग 75 · श्लोक 1-18

संस्कृत श्लोक

श्रीवसिष्ठ उवाच । अथ तस्य गुरोर्वक्त्रादित्याकर्ण्य भगीरथः । मनस्याहितकर्तव्यः स्वव्यापारपरोऽभवत् ॥ १ ॥ ततः कतिपयेष्वेव वासरेषु गतेषु सः । अग्निष्टोममखं चक्रे सर्वत्यागेकसिद्धये ॥ २ ॥ गोभूम्यश्वहिरण्यादि ददौ धनमशेषतः । द्विजेभ्यो निजबन्धुभ्यो गुण्यगुण्यविचारयन् ॥ ३ ॥ दिवसत्रयमात्रेण सर्वमेव परित्यजन् । असुमात्रावशेषोऽसावासीद्राजा भगीरथः ॥ ४ ॥ अथ सर्वार्थरिक्तं तत्खिन्नप्रकृतिपौरकम् । सीमान्तिने तृणमिव राज्यं स्वमरये ददौ ॥ ५ ॥ आक्रान्ते द्विषता राज्ये मुनिः सद्मनि मण्डले । अधोवासोवशेषोऽसौ निर्जगाम स्वमण्डलात् ॥ ६ ॥ यत्र न ज्ञायते नाम्ना यत्र न ज्ञायते मुखात् । तत्र ग्रामेष्वरण्येषु दूरेषूवास धैर्यवान् ॥ ७ ॥ इत्यल्पेनैव कालेन प्रशान्तसकलैषणः । परमेण शमेनासावाप विश्रान्तिमात्मनि ॥ ८ ॥ भ्रमन्द्वीपानि भूपीठे कदाचित्कालयोगतः । अवशः शत्रुणाक्रान्तं स्वमेव प्राप तत्पुरम् ॥ ९ ॥ नानागारांश्च तत्रासौ प्रवाहपतितांश्च तान् । पौरांश्च मन्त्रिणश्चैव शमी भिक्षामयाचत ॥ १० ॥ विविदुस्ते नृपं पौरा मन्त्रिणश्च भगीरथम् । पूजयामासुरथ तं सविषादाः सपर्यया ॥ ११ ॥ प्रभो राज्यं गृहाणेति प्रार्थितोऽप्यरिणा मुनिः । नादत्तेऽनादृताशेषस्तृणमप्यशनादृते ॥ १२ ॥ कतिचिद्दिवसांस्तत्र नीत्वाऽन्यत्र जगाम सः । भगीरथोऽयं हा कष्टमिति लोकेन शोचितः ॥ १३ ॥ अथान्यत्रोपशान्तात्मा परिविश्रान्तधीः सुखी । आत्मारामं कदाचित्तु स प्राप त्रितलं गुरुम् ॥ १४ ॥ स्वमेव स्वागतं कृत्वा तेन सार्धं भगीरथः । कंचित्कालमुवासाद्रौ वने ग्रामे पुरे जने ॥ १५ ॥ समतामुपयातौ तौ गुरुशिष्यौ समौ स्थितौ । कलयामासतुः स्वस्थौ विनोदं देहधारणम् ॥ १६ ॥ किमयं धार्यते देहः किं वानेनोज्झितेन नः । यथाक्रमं यथाचारं तिष्ठत्वेष यथास्थितम् ॥ १७ ॥ इति निश्चित्य तिष्ठन्तौ तौ वनाद्वनगामिनौ । अनानन्दं परानन्दं नासुखं न च मध्यमम् ॥ १८ ॥

हिन्दी अर्थ

शरीर यदि धारण किया जाय, तो इससे हम लोगों की कौन-सी भलाई हे अथवा यदि यह परित्यक्त हो जाय, तो इससे हम लोगों की कौन-सी बुराई है ? यह शारत्रोक्त क्रम ओर वृद्धप्राप्त आचार का अनुसरण कर भले ही यथास्थित पड़ा रहे । यों विचारकर अवस्थित हुए वे एक वन से दूसरे वन में जा रहे गुरु-शिष्य विषयानन्दो से निर्मुक्त ऐसे परानन्द (ब्रह्मानंद) को प्राप्त कर रहे थे, जो दुःखरहित तथा सुखदुःख की मध्यवर्ती अवस्था से भिन्न हे