Yoga Vasistha — Nirvana Prakarana Purva (Liberation, Part 1), Sarga 62, Verses 18–37
This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Purva (Liberation, Part 1), Sarga 62, verses 18–37 — the original Sanskrit shloka(s) with their Hindi meaning.
निर्वाण प्रकरण (पूर्वार्ध) · सर्ग 62 · श्लोक 18-37
संस्कृत श्लोक
तिर्यञ्चोऽपि प्रपश्यन्ति स्वप्नं चित्तस्वभावतः ।
दृष्टानां च श्रुतानां च चेतःस्मरणमक्षतम् ॥ १८ ॥
सा बभूव लतापुष्पफलपल्लवशालिनी ।
वनदेवी वनोद्यानलतागृहविलासिनी ॥ १९ ॥
बीजान्तस्थाङ्कुराकाररूपयेहाधिरूढया ।
सापश्यदन्तःसंवित्त्या स्फुटं लवनमात्मनः ॥ २० ॥
कंचित्कालं सुषुप्तस्थं कलया जडतां घनाम् ।
अनुभूय ददर्शाथ स्वात्मानं भ्रमरं स्थिरम् ॥ २१ ॥
षट्पदो विजहाराथ वने वनलतास्वसौ ।
पद्मिनीषु च फुल्लासु तरुणीष्विव वल्लभः ॥ २२ ॥
प्रियाबिम्बाधरस्वादुरसवत्कौसुमं मधु ।
भ्रमत्कुसुमसंघासु मुक्तावल्लीविलासिषु ॥ २३ ॥
स बभूव सरोजिन्यां व्यसनी विसनालगः ।
क्वचिदेव रतिं ह्येति चेतो जडमतेरपि ॥ २४ ॥
तामाजगाम नलिनीं परिलोलयितुं गजः ।
रम्यवस्तुक्षयायैव मूढानां जृम्भते पदम् ॥ २५ ॥
नलिनी मर्दिता सैव समं तेन स षट्पदः ।
गतो दन्तान्तरं व्रीहिरिव चूर्णत्वमाययौ ॥ २६ ॥
भ्रमरो वारणालोकाद्वारणालोकभावनात् ।
ददर्शात्मानमामोदमत्तहस्तितयोदितम् ॥ २७ ॥
शुष्कसागरगम्भीरे गजः खाते पपात ह ।
तमोघनघने शून्ये संसार इव जीवकः ॥ २८ ॥
बभूव वल्लभो राज्ञो महापरबलान्तकः ।
सदा मदबलक्षीबो घूर्णोतीव निशाचरः ॥ २९ ॥
कदाचिदसिनिस्त्रिंशच्छिन्नः सोऽस्तमुपाययौ ।
विवेकानिलनिर्लूनरूपो जीव इवात्मनि ॥ ३० ॥
पश्यन्गजघटाकुम्भस्थलाग्रोच्चलितानलीन् ।
गण्डस्थभ्रमराभ्यासाद्गजो भूयोऽप्यभूदलिः ॥ ३१ ॥
सेवमानो वनलतां पुनरायात्स पद्मिनीम् ।
दुस्त्यजो हि दुरभ्यासो वासनानामबोधिनः ॥ ३२ ॥
तत्र हस्तिखुराक्रान्तः पुनः संचूर्णतां ययौ ।
पार्श्वस्थहंससंवित्त्या बभूव कलहंसकः ॥ ३३ ॥
कलहंसश्चिरतरं योनिष्वन्यासु संल्लुठन् ।
कदाचिद्बहुभिर्हंसैः संगतो विजहार ह ॥ ३४ ॥
ब्राह्महंसात्मिका संवित्सशब्दार्थवती मनाक् ।
तत्र पुष्टास्य तस्यान्तः प्रागण्डरसबर्हिवत् ॥ ३५ ॥
स तच्चिन्तां चरन्मृतो दृढं व्याधिघुणाहतः ।
तत्संवित्त्यनुसंधानाज्जातः पद्मजसारसः ॥ ३६ ॥
तत्रातिसततविवेकवतो विलासैः संबोधितो विगतलौकिकवस्तुदृष्टिः ।
मुक्तः स्थितो ननु युगान्तविधौ विदेहमुक्तेन तेन किमु भावि विभाव्यमेतत् ॥ ३७ ॥
हिन्दी अर्थ
जन्म में समूल अनर्थो की निवृत्ति एवं निरतिशय आनन्दप्राप्ति के सम्पादित कर लेने और उससे
अतिरिक्त पुरुषार्थ के शेष न रहने से वह कृतकृत्य हो गया