Yoga Vasistha — Nirvana Prakarana Purva (Liberation, Part 1), Sarga 115, Verses 21–38
This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Purva (Liberation, Part 1), Sarga 115, verses 21–38 — the original Sanskrit shloka(s) with their Hindi meaning.
निर्वाण प्रकरण (पूर्वार्ध) · सर्ग 115 · श्लोक 21-23
संस्कृत श्लोक
न किंचन द्वेष्टि तथा न किंचिदभिकाङ्क्षति ।
भुङ्क्ते च प्रकृतं सर्वं महाभोक्ता स उच्यते ॥ २१ ॥
नादत्तेऽप्याददानश्च नाचरत्याचरन्नपि ।
भुञ्जानोऽपि न यो भुङ्क्ते महाभोक्ता स उच्यते ॥ २२ ॥
साक्षिवत्सकलं लोकव्यवहारमखिन्नधीः ।
पश्यत्यपगतेच्छं यो महाभोक्ता स उच्यते ॥ २३ ॥
सुखैर्दुःखैः क्रियायोगैर्भावाभावैर्भ्रमप्रदैः ।
यस्य नोत्क्रामति मतिर्महाभोक्ता स उच्यते ॥ २४ ॥
जरा मरणमापच्च राज्ये दारिद्र्यमेव च ।
रम्यमित्येव यो वेत्ति महाभोक्ता स उच्यते ॥ २५ ॥
महान्ति सुखदुःखानि यः पयांसीव सागरः ।
समं समुपगृह्णाति महाभोक्ता स उच्यते ॥ २६ ॥
अहिंसा समता तुष्टिश्चन्द्रबिम्बादिवांशवः ।
नोप यस्माच्चोपयाता महाभोक्ता स उच्यते ॥ २७ ॥
कट्वम्ललवणं तिक्तममृष्टं मृष्टमुत्तमम् ।
अधमं योऽत्ति साम्येन महाभोक्ता स उच्यते ॥ २८ ॥
सरसं नीरसं चैव सुरतं विरतं तथा ।
यः पश्यति समं सौम्यो महाभोक्ता स उच्यते ॥ २९ ॥
क्षारे खण्डप्रकारे च शुभे वाप्यशुभे तथा ।
समता सुस्थिरा यस्य महाभोक्ता स उच्यते ॥ ३० ॥
इदं भोज्यमभोज्यं चेत्येवं त्यक्त्वा विकल्पितम् ।
गताभिलाषं यो भुङ्क्ते महाभोक्ता स उच्यते ॥ ३१ ॥
आपदं संपदं मोहमानन्दमपरं परम् ।
यो भुङ्क्ते समया बुद्ध्या महाभोक्ता स उच्यते ॥ ३२ ॥
धर्माधर्मौ सुखं दुःखं तथा मरणजन्मनी ।
धिया येनेति संत्यक्तं महात्यागी स उच्यते ॥ ३३ ॥
सर्वेच्छाः सकलाः शङ्काः सर्वेहाः सर्वनिश्चयाः ।
धिया येन परित्यक्ता महात्यागी स उच्यते ॥ ३४ ॥
देहस्य मनसो दुःखैरिन्द्रियाणां मनःस्थितेः ।
नूनं येनोज्झिता सत्ता महात्यागी स उच्यते ॥ ३५ ॥
न मे देहो न जन्मापि युक्तायुक्ते न कर्मणी ।
इति निश्चयवानन्तर्महात्यागी स उच्यते ॥ ३६ ॥
येन धर्ममधर्मं च मनोमननमीहितम् ।
सर्वमन्तः परित्यक्तं महात्यागी स उच्यते ॥ ३७ ॥
यावती दृश्यकलना सकलेयं विलोक्यते ।
सा येन सुष्ठु संत्यक्ता महात्यागी स उच्यते ॥ ३८ ॥
हिन्दी अर्थ
महाभोक्ता के लक्षण कहते है ।
जो किसीसे द्वेष नहीं करता, जो किसीकी अभिलाषा नहीं करता ओर जो प्रारब्ध से प्राप्त हुए
सुख, दुःख आदि सबका उपभोग करता है-वह महाभोक्ता कहा जाता है । जो पुरुष इन्द्रियों से विषयों
का ग्रहण कर रहा भी अद्रय, असंग आत्मा में निष्ठा के कारण वास्तव में ग्रहण नहीं करता; हाथ, पैर
आदि से लेनदेन, गमन आदि का आचरण कर रहा भी जो आत्मबुद्धि से आचरण नहीं करता एवं
उपभोग कर रहा भी नित्यतृप्त आत्मा के दर्शन के कारण उपभोग नहीं करता-वह महाभोक्ता कहा
जाता है । जो पुरुष खिन्नबुद्धि न होकर उदासीन साक्षी के सदृश समस्त लोकव्यवहारो को किसी
प्रकार की इच्छा के विना देखता रहता है - वह पुरुष महाभोक्ता कहा जाता है