Yoga Vasistha — Nirvana Prakarana Purva (Liberation, Part 1), Sarga 115, Verses 1–10
This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Purva (Liberation, Part 1), Sarga 115, verses 1–10 — the original Sanskrit shloka(s) with their Hindi meaning.
निर्वाण प्रकरण (पूर्वार्ध) · सर्ग 115 · श्लोक 1-10
संस्कृत श्लोक
श्रीवसिष्ठ उवाच ।
महाकर्ता महाभोक्ता महात्यागी भवानघ ।
सर्वाः शङ्काः परित्यज्य धैर्यमालम्ब्य शाश्वतम् ॥ १ ॥
श्रीराम उवाच ।
किमुच्यते महाकर्ता महात्यागी किमुच्यते ।
किमुच्यते महाभोक्ता सम्यक्कथय मे प्रभो ॥ २ ॥
श्रीवसिष्ठ उवाच ।
एतद्व्रतत्रयं राम पुरा चन्द्रार्धमौलिना ।
भृङ्गीशाय तु संप्रोक्तं येनासौ विज्वरः स्थितः ॥ ३ ॥
सुमेरावुत्तरे श्रृङ्गे पूर्वं शशिकलाधरः ।
अतिष्ठदग्निसंकाशे समग्रपरिवारवान् ॥ ४ ॥
तमपृच्छन्महातेजास्तनुविज्ञानवान्स्थितः ।
भृङ्गीशः प्रणतो राम बद्धाञ्जलिरुमापतिम् ॥ ५ ॥
भृङ्गीश उवाच ।
भगवन्देवदेवेश सर्वज्ञ परमेश्वर ।
यदहं परिपृच्छामि कृपया तद्वदाशु मे ॥ ६ ॥
संसाररचनां नाथ तरङ्गतरलामिमाम् ।
अवलोक्य विमुह्यामि तत्त्वविश्रान्तिवर्जितः ॥ ७ ॥
कमन्तर्निश्चयं कान्तमुररीकृत्य सुस्थितम् ।
अस्मिञ्जगज्जीर्णगृहे तिष्ठामि विगतज्वरम् ॥ ८ ॥
ईश्वर उवाच ।
सर्वाः शङ्काः परित्यज्य धैर्यमालम्ब्य शाश्वतम् ।
महाभोक्ता महाकर्ता महात्यागी भवानघ ॥ ९ ॥
भृङ्गीश उवाच ।
किमुच्यते महाकर्ता महाभोक्ता किमुच्यते ।
किमुच्यते महात्यागी सम्यक्कथय मे प्रभो ॥ १० ॥
हिन्दी अर्थ
महाभोक्ता, महाकर्ता ओर महात्यागी हो जाओ | भृंगीश ने कहा : हे प्रभो, एसे कोन से लक्षण हैं,
जिनकी प्राप्ति हो जाने पर पुरुष महाकर्ता, महाभोक्ता और महात्यागी कहा जा सकता है, उन्हें मुझसे
भलीर्भोति कहिये