Guru's AddaGuru's Adda

Yoga Vasistha — Nirvana Prakarana Purva (Liberation, Part 1), Sarga 114, Verses 4–10

This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Purva (Liberation, Part 1), Sarga 114, verses 4–10 — the original Sanskrit shloka(s) with their Hindi meaning.

निर्वाण प्रकरण (पूर्वार्ध) · सर्ग 114 · श्लोक 4-10

संस्कृत श्लोक

आदित्यव्यतिरेकेण यो भावयति राघव । रश्मिजालमिदं ह्येतत्तस्यान्यदिव भास्वतः ॥ ४ ॥ कनकव्यतिरेकेण केयूरं येन भावितम् । केयूरमेव तत्तस्य न तस्य कनकं हि तत् ॥ ५ ॥ आदित्याव्यतिरेकेण रश्मयो येन भाविताः । आदित्य एव ते तस्य निर्विकल्पः स उच्यते ॥ ६ ॥ सलिलव्यतिरेकेण तरङ्गो येन भावितः । तरङ्गबुद्धिरेवैका स्थिता तस्य न वारिधीः ॥ ७ ॥ सलिलाव्यतिरेकेण तरङ्गो येन भाव्यते । अम्बुसामान्यताबुद्धिर्निर्विकल्पः स उच्यते ॥ ८ ॥ कनकाव्यतिरेकेण केयूरं येन भाव्यते । कनकैकमहाबुद्धिर्निर्विकल्पः स उच्यते ॥ ९ ॥ पावकव्यतिरेकेण ज्वालाली येन भाविता । तस्याग्निबुद्धिर्गलति ज्वालाधीरेव तिष्ठति ॥ १० ॥

हिन्दी अर्थ

होती, केवल ज्वालाबुद्धि ही रहती हे