Yoga Vasistha — Nirvana Prakarana Purva (Liberation, Part 1), Sarga 105, Verses 41–49
This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Purva (Liberation, Part 1), Sarga 105, verses 41–49 — the original Sanskrit shloka(s) with their Hindi meaning.
निर्वाण प्रकरण (पूर्वार्ध) · सर्ग 105 · श्लोक 41-49
संस्कृत श्लोक
संविदानुभवाम्यन्तर्नितम्बजघने त्विमे ।
विपिने कुम्भ इत्युक्त्वा तूष्णीं खिन्नो बभूव ह ॥ ४१ ॥
राजापि च तमालोक्य तथैवासीद्विषण्णधीः ।
मुहूर्तमात्रेणोवाच शिखिध्वज इदं वचः ॥ ४२ ॥
कष्टं सोऽयं महासत्त्वः संपन्ना वरवर्णिनी ।
साधो विदितवेद्यस्त्वं जानासि नियतेर्गतिम् ॥ ४३ ॥
अवश्यभाविन्यर्थेऽस्मिन्मा खिन्नहृदयो भव ।
आपतन्ति दशास्तास्ताः सुधियां देहमात्रके ॥ ४४ ॥
न चेतस्यधियां त्वेताश्चित्तं यान्ति न देहकम् ।
कुम्भ उवाच ।
एवमस्त्वनुतिष्ठामि यामिनीस्त्रीत्वमात्मनः ॥ ४५ ॥
न खेदमनुगच्छामि नियतिः केन लङ्घ्यते ।
इति निर्णीय तौ खेदं तं नीत्वा तनुतामिव ॥ ४६ ॥
एकतल्पे निशां तूष्णीं नीतवन्तौ चिरेण ताम् ।
अथ प्रभाते तत्स्त्रैणं वपुरुत्सृज्य यौवनम् ॥ ४७ ॥
बभूव कुम्भः कुम्भाभः कुचप्रोज्झितमूर्तिमान् ।
इति सा राजमहिषी चूडाला वरवर्णिनी ॥ ४८ ॥
कुम्भत्वमास्थिता भर्तुः पश्चात्स्त्रीत्वमुपागता ।
विजहार वनान्तेषु कुमारीधर्मिणी निशि ।
कुम्भरूपधरा चाह्नि भर्त्रा मित्रेण संयुता ॥ ४९ ॥
हिन्दी अर्थ
और दिन में कुम्भ का रूप धारण कर मित्र पति के साथ विचरण करती रही