Guru's AddaGuru's Adda

Yoga Vasistha — Nirvana Prakarana Purva (Liberation, Part 1), Sarga 105, Verses 1–17

This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Purva (Liberation, Part 1), Sarga 105, verses 1–17 — the original Sanskrit shloka(s) with their Hindi meaning.

निर्वाण प्रकरण (पूर्वार्ध) · सर्ग 105 · श्लोक 1-17

संस्कृत श्लोक

शिखिध्वज उवाच । एवं स्थिते महाभाग कथमुद्वेगमीदृशम् । लब्धवानसि देवोऽपि वद वेद्यविदां वर ॥ १ ॥ कुम्भ उवाच । श्रृणु कार्यमिदं चित्तं मदीयं वसुधाधिप । कथयामि तवाशेषं सर्गे यद्वृत्तमद्य मे ॥ २ ॥ सुहृद्यावेदितं दुःखं परमायाति तानवम् । घनं जडं कृष्णमपि मुक्तवृष्टिरिवाम्बुदः ॥ ३ ॥ सुहृदा पृच्छता साधु चेतो याति प्रसन्नताम् । स्वच्छतोपगतेनाशु कतकेन जलं यथा ॥ ४ ॥ अहं तावदितो यातो भवते पुष्पमञ्जरीम् । दत्त्वा गगनमुल्लङ्घ्य संप्राप्तश्च त्रिविष्टपम् ॥ ५ ॥ ततः पित्रा महेन्द्रस्य सभास्थाने यथाक्रमम् । स्थित्वोत्थाय तथोत्थानकाले पित्रा विवर्जितः ॥ ६ ॥ इहागन्तुमहं त्यक्त्वा स्वर्गं संप्राप्तवान्नभः । दिवाकरहयैः सार्धं वहाम्यनिलवर्त्मनि ॥ ७ ॥ अथैकत्र गतो भानुरेकेनान्येन वर्त्मना । आगच्छाम्यहमाकाशं सागरापतिताकृतिः ॥ ८ ॥ अथाग्रे वारिपूर्णानां मेघानां मध्यवर्त्मना । अपश्यं मुनिमायान्तमहं दुर्वाससं जवात् ॥ ९ ॥ पयोधरपटच्छन्नं विद्युद्वलयभूऽषितम् । अभिसारिकया तुल्यं धाराधौताङ्गचन्दनम् ॥ १० ॥ स्थितां सुतरुसुच्छायामापगां वसुधातले । वेगेनाभिसरन्तं तां तपोलक्ष्मीमिव प्रियाम् ॥ ११ ॥ तस्य कृत्वा नमस्कारमुक्तं खे वहता मया । मुने नीलाभ्रवस्त्रस्त्वमभिसारिकया समः ॥ १२ ॥ इत्याकर्ण्य मुमोचासौ मयि मानद शापकम् । स्तनकेशवती कान्ता हावभावविलासिनी ॥ १३ ॥ गच्छानेन दुरुक्तेन रात्रौ योषा भविष्यसि । इति श्रुत्वाऽशुभं वाक्यमुत्थितं जर्जरद्विजात् ॥ १४ ॥ विमृशामि मनाग्यावत्तावदन्तर्हितो मुनिः । इत्युद्वेगमनाः साधो संप्राप्तोऽहं नभस्तलात् ॥ १५ ॥ एतत्ते कथितं सर्वं संपन्नोऽस्मि निशाङ्गना । अतिवाह्यं दिनान्तेषु स्त्रीत्वमेतन्मया कथम् ॥ १६ ॥ योषित्स्तनवती रात्रौ वक्तव्यं किं मया पितुः । संसृतौ भवितव्यानामहो नु विषमा गतिः ॥ १७ ॥

हिन्दी अर्थ

में अंगना हो गया हूँ। यह स्त्रीभाव रात्रियों मे में केसे निभा सर्वगा । हा ! मैं रात मेँ स्तनधारिणी घोषित हो जाऊँगा । पिताजी के सामने मैं क्या कर्हुगा । अहो, इस संसार में भवितव्यं की बड़ी ही विचित्र गति है, क्योकि मैं भी आज दैव से युवकों के लिए मांस बन गया यानी गृध्रामिषन्याय से अनेक युवकों में परस्पर कलह को पैदा करनेवाला हो गया