Guru's AddaGuru's Adda

Yoga Vasistha — Upashama Prakarana (Dissolution), Sarga 86, Verses 28–60

This page presents the Yoga Vasistha (Yogvashistha), Upashama Prakarana (Dissolution), Sarga 86, verses 28–60 — the original Sanskrit shloka(s) with their Hindi meaning.

उपशम प्रकरण · सर्ग 86 · श्लोक 28

संस्कृत श्लोक

विवेश स तथैवान्ते सह्याद्रौ हेमकन्दरम् । अपुनःसङ्गमायाशु जगज्जालमवेक्ष्य सः ॥ २८ ॥ बद्धपद्मासनः स्थित्वा तत्रोवाचात्मनात्मनि । राग नीरागतां गच्छ द्वेष निर्द्वेषतां व्रज ॥ २९ ॥ भवद्भ्यां सुचिरं कालमिह प्रक्रीडितं मया । भोगा नमोस्तु युष्मभ्यं जन्म कोटिशतान्यहम् ॥ ३० ॥ भवद्भिर्लालितो लोके लालकैरिव बालकः । इमामपि परां पुण्यां निर्वाणपदवीमहम् ॥ ३१ ॥ येन विस्मारितस्तस्मै सुखायास्तु नमो नमः । त्वदुत्तप्तेन हे दुःख मयात्मान्विष्ट आदरात् ॥ ३२ ॥ तस्मात्त्वदुपदिष्टोऽयं मार्गो मम नमोऽस्तु ते । त्वत्प्रसादेन लब्धेयं शीतला पदवी मया ॥ ३३ ॥ दुःखनाम्ने दुःखतत्त्व सुखदात्मन्नमोस्तु ते । कल्याणमस्तु ते मित्र संसारासारजीवित ॥ ३४ ॥ देह स्थितिरियं यामो वयमात्मीयमास्पदम् । प्रयोजनानां जन्तूनामहो नु विषमा गतिः ॥ ३५ ॥ देहेनापि वियुज्येऽहं भूत्वा जन्मशतान्यपि । मित्रकाय मया यत्त्वं त्यज्यसे चिरबान्धवः ॥ ३६ ॥ त्वयैवात्मन्युपानीता सात्मज्ञानवशात्क्षतिः । अधिगम्यात्मविज्ञानमात्मनाशः कृतस्त्वया ॥ ३७ ॥ देह नान्येन भग्नोऽसि त्वयैवैतदुपासितम् । एकाकिन्यापि शुष्यन्त्या प्रशान्ते मयि दीनया ॥ ३८ ॥ त्वया दुःखं न कर्तव्यं मातस्तृष्णे व्रजाम्यहम् । क्षन्तव्याः काम भगवन्विपरीतापराधजाः ॥ ३९ ॥ दोषा उपशमैकान्तं व्रजाम्यादिश मङ्गलम् । चिराच्चिराय चेदानीमम्ब तृष्णे किलावयोः ॥ ४० ॥ वियोगो योगदोषेण प्रणामोऽयं स पश्चिमः । नमः सुकृतदेवाय भवतेऽस्तु त्वया पुरा ॥ ४१ ॥ नरकेभ्यः समुत्तार्य स्वर्गेऽहमभियोजितः । कुकार्यक्षेत्ररूढाय नरकस्कन्धवाहिने ॥ ४२ ॥ शासनापुष्पभाराय नमो दुष्कृतशाखिने । येन सार्धं चिरं बह्व्यो भुक्ताः प्राकृतयोनयः ॥ ४३ ॥ अद्यप्रभृत्यदृश्याय तस्मै मोहात्मने नमः । प्रध्वनद्वंशमधुरवचसे पत्रवाससे ॥ ४४ ॥ नमो गुहातपस्विन्यै वयस्यायै समाधिषु । संसाराध्वनि खिन्नस्य त्वं ममाश्वासकारणम् ॥ ४५ ॥ आसीर्वयस्या सुस्निग्धा सर्वलोभापहारिणी । सर्वसंकटखिन्नेन दोषेभ्यो द्रवता मया ॥ ४६ ॥ त्वमेका शोकनाशार्थमाश्रिता परमा सखी । संकटावटकुञ्जेषु हस्तालम्बनदायिने ॥ ४७ ॥ वार्धकैकान्तसुहृदे दण्डकाष्ठाय ते नमः । अस्थिपञ्जरमात्मीयं तथा रक्तान्त्रतन्तुकम् ॥ ४८ ॥ एतावन्मात्रसारैकं गृहीत्वा गच्छ देहक । पयःक्षोभप्रकारेभ्यः स्नानेभ्योऽपि नमोस्तु ते ॥ ४९ ॥ नमोस्तु व्यवहारेभ्यः संसृतिभ्यो नमोस्तु ते । एते भवन्तः सहजाः प्राक्तनाः सुहृदो मया ॥ ५० ॥ क्रमेणाद्योत्कृताः प्राणाः स्वस्ति वोऽस्तु व्रजाम्यहम् । भवद्भिः सह चित्रासु मया बह्वीषु योनिषु ॥ ५१ ॥ विश्रान्तं गिरिकुञ्जेषु श्रान्तं लोकान्तरेषु च । क्रीडितं पुरपीठान्तरुषितं पर्वतेषु च ॥ ५२ ॥ स्थितं कार्यविलासेषु प्रस्थितं विविधाध्वसु । न तदस्ति जगत्कोशे भवद्भिः सह यन्मया ॥ ५३ ॥ न कृतं न हृतं यातं न दत्तं नावलम्बितम् । इदानीं स्वां दिशं यान्तु भवन्तो याम्यहं प्रियाः ॥ ५४ ॥ सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः । संयोगा विप्रयोगान्ताः सर्वे संसारवर्त्मनि ॥ ५५ ॥ अयं चाक्षुष आलोको विशत्वादित्यमण्डलम् । विशन्तु वनपुष्पाणि सौगन्ध्यानन्दसंविदः ॥ ५६ ॥ प्राणानिलस्तथा स्पन्दं विशत्वद्य प्रभञ्जनम् । विशन्त्वाकाशकुहरं शब्दश्रवणशक्तयः ॥ ५७ ॥ इन्दुमण्डलमायान्तु रसनारसशक्तयः । निर्मन्दर इवाम्भोधिर्गतार्क इव वासरः ॥ ५८ ॥ शरदीव घनः स्वैरं प्राप्तः कल्पान्तसर्गवत् । ओंकारान्ते स्वमननं प्रशाम्याम्यात्मनात्मनि । दग्धेन्धन इवार्चिष्मान्निःस्नेह इव दीपकः ॥ ५९ ॥ व्यपगताखिलकार्यपरम्परः सकलदृश्यदशातिगतस्थितिः । प्रणवशान्त्यनुसंसृतिशान्तधीर्विगतमोहमलोऽयमहं स्थितः ॥ ६० ॥

हिन्दी अर्थ

पूर्वोक्त समान शीलो में मत्री, एकरूप सर्वातिशायीशान्ति, सुन्दर प्रज्ञा, मुदित कृपा तथा उत्तम श्री से युक्त मुनि वीतहव्य ने, सकलसंगों से निर्मुक्त चित्तवाले होकर विन्ध्याचल में नदी के तट पर केवल एक ही दिन रमण किया यानी समाधि से प्रच्युत होकर स्थित रहे