Guru's AddaGuru's Adda

Yoga Vasistha — Upashama Prakarana (Dissolution), Sarga 77, Verses 21–44

This page presents the Yoga Vasistha (Yogvashistha), Upashama Prakarana (Dissolution), Sarga 77, verses 21–44 — the original Sanskrit shloka(s) with their Hindi meaning.

उपशम प्रकरण · सर्ग 77 · श्लोक 21

संस्कृत श्लोक

सम्यग्ज्ञानाग्निना यस्य दग्धाः संदेहजालिकाः । निःशङ्कमलमुड्डीनस्तस्य चित्तविहङ्गमः ॥ २१ ॥ यस्य भ्रान्तिविनिर्मुक्तं मनः समरसं स्थितम् । नास्तमेति न चोदेति व्योमवत्सर्वदृष्टिषु ॥ २२ ॥ मंजूषायां निषण्णस्य यथा बालस्य चेष्टते । अङ्गावल्यनुसंधानवर्जितं यस्य वै तथा ॥ २३ ॥ घूर्णन्क्षीव इवानन्दी मन्दीभूतपुनर्भवः । अनुपादेयबुद्ध्या तु न स्मरत्यकृतं कृतम् ॥ २४ ॥ सर्व सर्वप्रकारेण गृह्णाति च जहाति च । अनुपादेयसर्वार्थो बालवच्च विचेष्टते ॥ २५ ॥ स तिष्ठन्नपि कार्येषु देशकालक्रियाक्रमैः । न कार्यसुखदुःखाभ्यां मनागपि हि गृह्यते ॥ २६ ॥ बहिः प्रकृतसर्वार्थोऽप्यन्तः पुनरनीहया । न सत्तां योजयत्यर्थे न फलान्यनुधावति ॥ २७ ॥ नोपेक्षते दुःखदशां न सुखाशामपेक्षते । कार्योदये नैति मुदं कार्यनाशे न खिद्यते ॥ २८ ॥ अपि शीतरुचावर्के सुतप्तेऽपीन्दुमण्डले । अप्यधः प्रसरत्यग्नौ विस्मयोऽस्य न जायते ॥ २९ ॥ चिदात्मन इमा इत्थं प्रस्फुरन्तीह शक्तयः । इत्यस्याश्चर्यजालेषु नाभ्युदेति कुतूहलम् ॥ ३० ॥ न दयादैन्यमादत्ते न क्रौर्यमनुधावति । न लज्जामनुसंधत्ते नालज्जत्वं च गच्छति ॥ ३१ ॥ न कदाचन दीनात्मा नोद्धतात्मा कदाचन । न प्रमत्तो न खिन्नात्मा नोद्विग्नो न च हर्षवान् ॥ ३२ ॥ नास्य चेतसि सुस्फारे शरदम्बरनिर्मले । कोपादयः प्रजायन्ते नभसीव नवाङ्कुराः ॥ ३३ ॥ अनारतपतज्जातभूतायां जगतः स्थितौ । क्व कथं किल कासौ स्यात्सुखिताऽसुखिताथवा ॥ ३४ ॥ फेनाजवं जवीभावे जले भूतक्रमे तथा । क्व किलेदं कुतः कोऽतः प्रसङ्गः सुखदुःखयोः ॥ ३५ ॥ भावाभावैरपर्यन्तैरजस्रं जन्तुसंभवैः । न विशीर्यन्ति नोद्यन्ति दृष्टिसृष्टिक्षमा नराः ॥ ३६ ॥ निमेषं प्रति यामिन्यां यथान्याः स्वप्नदृष्टयः । क्षणोत्पत्तिविनाशिन्यस्तथैता लोकदृष्टयः ॥ ३७ ॥ अनारतसमुत्पत्तावनारतविनाशिनि । कः क्रमो दग्धसंसारे कारुण्यानन्दयोरिह ॥ ३८ ॥ शुभाभावात्सुखाभावे स्थितिं याते विलक्षणाः । कीदृश्यः कथमायाताः क्व वा ता दुःखसंविदः ॥ ३९ ॥ सुखसंवेदनान्तोत्था स्वबीजं वितनोति या । शान्ता दुःखदशा सेयं कथमन्तर्हिते सुखे ॥ ४० ॥ क्षीणाभ्यां सुखदुःखाभ्यां हेयोपादेययोः क्षये । ईप्सितानीप्सिते क्व स्तो गलितेऽथ शुभाशुभे ॥ ४१ ॥ रम्यारम्यदृशोर्नाशाद्याते भोगाभिवाञ्छने । नैराश्ये संततं प्रौढे हिमवद्विगलेन्मनः ॥ ४२ ॥ आमूलान्मनसि क्षीणे संकल्पस्य कथा च का । तिलेष्विवातिदग्धेषु तैलस्य कलना कुतः ॥ ४३ ॥ भावेष्वभावघनभावनया महात्मा निर्मुक्तसंकलनमम्बरवत्स्थितेषु । चित्तं प्रति स्वमुदितो विततैकरूपी ज्ञस्तिष्ठति स्वपिति जीवति नित्यतृप्तः ॥ ४४ ॥

हिन्दी अर्थ

श्रीरामचन्द्रजी को भोगजरण की सामर्थ्य नहीं है, इस आशंका का परिहार करने के लिए तत्त्ववोध- सम्पत्ति दिखलाते हैं। हे विदिततत्त्व श्रीरघुनन्दन तुम रसायन से परिपूर्ण, सुशीतल यानी त्रिविध तापों से शून्य, निर्मल, सम ओर विस्तृत श्री से पूर्णचन्द्र की नाई अत्यन्त विराजित हो रहे हो