Guru's AddaGuru's Adda

Yoga Vasistha — Upashama Prakarana (Dissolution), Sarga 74, Verses 40–91

This page presents the Yoga Vasistha (Yogvashistha), Upashama Prakarana (Dissolution), Sarga 74, verses 40–91 — the original Sanskrit shloka(s) with their Hindi meaning.

उपशम प्रकरण · सर्ग 74 · श्लोक 40

संस्कृत श्लोक

न तथा सुखयत्यङ्ग संलग्ना वरवर्णिनी । यथा सुखयति स्वान्तमिन्दुशीता निराशता ॥ ४० ॥ न तथेन्दुः सुखयति कण्ठलग्नोऽपि राघव । नैराश्यं सुखयत्यन्तर्यथा सकलशीतलम् ॥ ४१ ॥ पुष्पपूर्णनवलतो न तथा राजते मधुः । यथोदारमतिर्मौनी नैराश्यसममानसः ॥ ४२ ॥ न हिमाद्रेर्न मुक्ताभ्यो न रम्भाभ्यो न चन्दनात् । न च चन्द्रमसः शैत्यं नैराश्याद्यदवाप्यते ॥ ४३ ॥ अपि राज्यादपि स्वर्गादपीन्दोरपि माधवात् । अपि कान्तासमासङ्गान्नैराश्यं परमं सुखम् ॥ ४४ ॥ तृणवन्नोपकुर्वन्ति यत्र त्रिभुवनश्रियः । सा परा निर्वृतिः साधो नैराश्यादुपलभ्यते ॥ ४५ ॥ आपत्करञ्जपरशुं पराया निर्वृतेः पदम् । पुष्पगुच्छं शमतरोरालम्बस्व निराशताम् ॥ ४६ ॥ गोष्पदं पृथिवी मेरुः स्थाणुराशाः समुद्गिकाः । तृणं त्रिभुवनं राम नैराश्यालंकृताकृतेः ॥ ४७ ॥ दानादानसमाहारविहारविभवादिकाः । क्रिया जगति हस्यन्ते निराशैः पुरुषोत्तमैः ॥ ४८ ॥ पदं यस्य न बध्नाति कदाचित्कलना हृदि । तृणीकृतत्रिभुवनः केनासावुपमीयते ॥ ४९ ॥ इदमेवास्त्विदं मास्तु ममेति हृदि रञ्जना । न यस्यास्ति तमात्मेशं तोलयन्ति कथं जनाः ॥ ५० ॥ सर्वसंकटपर्यन्तमसंकटमलं सुखम् । सौभाग्यं परमं बुद्धेर्नैराश्यमवलम्ब्यताम् ॥ ५१ ॥ नाशास्तेनत्वमाशानां विद्धि मिथ्याभ्रमं जगत् । वहद्रथस्थदिक्चक्रपरावर्तवदुत्थितम् ॥ ५२ ॥ किं मुह्यसि महाबाहो मूर्खवद्बोधितोऽपि सन् । ममेदं तदयं सोऽहमित्युद्भ्रान्तेन चेतसा ॥ ५३ ॥ आत्मैवेदं जगत्सर्वं नानातेह न विद्यते । एकरूपं जगज्ज्ञात्वा धीरैर्नाम न खिद्यते ॥ ५४ ॥ यथाभूतपदार्थौघदर्शनादेव राघव । परमाश्वासनं बुद्धेर्नैराश्यमधिगच्छति ॥ ५५ ॥ भावाभावविसंवादमुक्तमाद्यन्तयोः स्थितम् । यद्रूपं तत्समालम्ब्य पदार्थानां स्थितिं कुरु ॥ ५६ ॥ वैराग्यवीरमनसो मायेयमतिमोहिनी । पलाय्य याति संसारी मृगी केसरिणो यथा ॥ ५७ ॥ कान्तामुद्दाममदनां लोलां वनलतामिव । जर्जरोपलपाञ्चालीसमां पश्यति धीरधीः ॥ ५८ ॥ भोगा नानन्दयन्त्यन्तः खेदयन्ति न चापदः । दृश्यश्रियो हरन्त्यङ्ग नतमद्रिमिवानिलाः ॥ ५९ ॥ रक्तबालाङ्गनस्यापि ज्ञस्योदारधिया मुनेः । कणशः पांसुतां यान्ति मनसः स्मरसायकाः ॥ ६० ॥ रागद्वेषैः स्वरूपज्ञो नावशः परिकृष्यते । स्पन्द एवास्य नैताभ्यां किमुताक्रमणं भवेत् ॥ ६१ ॥ समदृष्टलतालोलवनितोऽद्रिशिलाकृतिः । रमते नैष भोगेषु पान्थो मरुमहीष्विव ॥ ६२ ॥ अयत्नोपनतं सर्वं लीलयाऽसक्तमानसः । भुङ्क्ते भोगभरं प्राज्ञस्त्वालोकमिव लोचनम् ॥ ६३ ॥ काकतालीयवत्प्राप्ता भोगाली ललनादिका । स्वादिताप्यङ्ग धीरस्य न दुःखाय न तुष्टये ॥ ६४ ॥ सम्यग्दृष्टपथं तज्ज्ञं सुखदुःखमती मनाक् । द्वे वीच्याविव शैलेन्द्रं क्षोभं नेतुं न शक्नुतः ॥ ६५ ॥ हेलयालोकयन्भोगान्मृदुर्दान्तो गतज्वरः । स्वमेव पदमालम्ब्य सर्वभूतान्तरस्थितम् ॥ ६६ ॥ ज्ञस्तिष्ठति गतव्यग्रो व्यग्रेणापि समन्वितः । जगन्ति जनयन्नेव ब्रह्मैवात्मपरायणः ॥ ६७ ॥ आपतत्सु यथाकालं यथादेशं यथाक्रमम् । सुखदुःखेषु न क्षोभमेति भूभृदृतुष्विव ॥ ६८ ॥ मज्जतोऽपि बहुज्ञस्य राम कर्मेन्द्रियभ्रमैः । असक्तमनसो नित्यं न किंचिदपि मज्जति ॥ ६९ ॥ कलंकयन्तःकलङ्केन प्रोच्यते हेम नान्यथा । भावासक्त्या समासक्त उक्तो जन्तुर्हि नान्यथा ॥ ७० ॥ शरीराद्व्यतिरिक्तं ज्ञं पश्यतः प्रविवेकिनः । विकर्तिताङ्गकस्यापि न किंचित्प्रविकर्तितम् ॥ ७१ ॥ सकृत्प्रभातं विमलं यज्ज्ञातं ज्ञातमेव तत् । नहि बन्धुः परिज्ञातः पुनरज्ञाततां व्रजेत् ॥ ७२ ॥ सर्पभ्रान्तौ निवृत्तायां न रज्ज्वां सर्पभावना । पुनरेति यथा प्रावृण्नदी गिरितटाच्च्युता ॥ ७३ ॥ न हेम तापशुद्धाङ्गं स्वभावमलमागतम् । कर्दमे मग्नमपि सत्समादत्ते मलं पुनः ॥ ७४ ॥ क्षीणे स्वहृदयग्रन्थौ न बन्धोऽस्ति पुनर्गुणैः । यत्नेनापि पुनर्बद्धं केन वृन्ते च्युतं फलम् ॥ ७५ ॥ अवच्छेदविचाराभ्यामभितः खण्डशो गतम् । पाषाणं च मणिं चैव संधातुं कस्य शक्तता ॥ ७६ ॥ विज्ञातायामविद्यायां कः पुनः परिमज्जति । परिज्ञाय श्वपाकानां यात्रां कः प्रेक्षते द्विजः ॥ ७७ ॥ शुद्धाम्भसि यथा क्षीरधीर्विचारान्निवर्तते । संसारवासना तद्वद्धीविचारान्निवर्तते ॥ ७८ ॥ मध्वम्बुशङ्कया तावद्विप्रवर्यैः प्रपीयते । यावन्नात्र परिज्ञातं परिज्ञातं प्रहीयते ॥ ७९ ॥ रूपलावण्ययुक्तापि चित्रकान्तेव कामिनी । द्रव्यमात्रसमारम्भात्तत्त्वविद्भिर्विलोक्यते ॥ ८० ॥ यथा मषीकुसुम्भादि स्त्रियाश्चित्रे तथैव हि । जीवत्या अपि केशोष्ठं कस्तां परि किल ग्रहः ॥ ८१ ॥ अनुभूतो गुडः स्वादुरपि दाहविकर्तनैः । न शक्यतेऽन्यथाकर्तुं तत्त्वालोकस्तथात्मनः ॥ ८२ ॥ परव्यसनिनी नारी व्यग्रापि गृहकर्मणि । तदेवास्वादयत्यन्तः परसङ्गरसायनम् ॥ ८३ ॥ एवं तत्त्वे परे शुद्धे धीरो विश्रान्तिमागतः । न शक्यते चालयितुं देवैरपि सवासवैः ॥ ८४ ॥ परव्यसनिनी नारी केन भर्त्रा बलीयसा । विस्मारिता स्वसंकल्पकान्तसङ्गमहोत्सवम् ॥ ८५ ॥ जगत्समरसानन्दचिदालोकावलम्बनम् । केन विस्मार्यते बुद्धिस्तत्त्वज्ञस्य महात्मनः ॥ ८६ ॥ समग्रसुखदुःखाढ्यं व्यवहारमखण्डितम् । कुर्वन्कुलजनायत्तो भर्तृश्वशुरखेदितः ॥ ८७ ॥ यथा संकल्पकान्तेन भवत्यानन्दमन्थरः । वधूलोको व्यसनवान्दुःखवृन्दैर्न बाध्यते ॥ ८८ ॥ तथा विगलिताविद्यो व्यवहारपरोऽप्यलम् । सम्यग्दृष्टिः सदाचारो मुदमेत्यन्तरात्मना ॥ ८९ ॥ छिद्यते न निकृत्ताङ्गो गलदश्रुर्न रोदिति । दह्यते न प्रदग्धोऽपि नष्टोऽपि न विनश्यति ॥ ९० ॥ व्यपगतसुखदुःखसंनिपातो विधिविधुरेष्वपि संकटेष्वचित्तः । विलसतु सदने पुरोत्तमे वा विततगिरौ विपिने तपोवने वा ॥ ९१ ॥

हिन्दी अर्थ

हे श्रीरामजी, समस्त कल्पनाएँ जिसमें से निर्मूल हो गई है, ऐसी अवस्था को प्राप्त होकर आप सगर केपुत्रों द्वारा खोदी गई पृथिवी की मेखला तक यानी समुद्रपर्यन्त पृथिवी-मण्डल का दीर्घकाल तक पालन कीजिये, क्योकि आप समस्त आसक्तियों से परे हो चुके हैं तथा आपकी आत्मज्योति उदित हो चुकी है, इसलिए राज्य आदि का पालन आपके लिए किसी तरह से दोष का हेतु नहीं हो सकता