Guru's AddaGuru's Adda

Yoga Vasistha — Upashama Prakarana (Dissolution), Sarga 68, Verses 1–26

This page presents the Yoga Vasistha (Yogvashistha), Upashama Prakarana (Dissolution), Sarga 68, verses 1–26 — the original Sanskrit shloka(s) with their Hindi meaning.

उपशम प्रकरण · सर्ग 68 · श्लोक 26

संस्कृत श्लोक

श्रीराम उवाच । कीदृशो भगवन्सङ्गः कथं बन्धाय वा नृणाम् । कश्च मोक्षाय कथितः कथं वैष चिकित्स्यते ॥ १ ॥ श्रीवसिष्ठ उवाच । देहदेहिविभागैकपरित्यागेन भावनात् । देहमात्रे तु विश्वासः सङ्गो बन्धार्ह उच्यते ॥ २ ॥ अनन्तस्यात्मतत्त्वस्य सपर्यन्तत्वनिश्चये । यत्सुखार्थित्वमन्तः स सङ्गो बन्धार्ह उच्यते ॥ ३ ॥ सर्वमात्मेदमखिलं किं वाञ्छामि त्यजामि किम् । इत्यसङ्गस्थितिं विद्धि जीवन्मुक्ततनुस्थितिम् ॥ ४ ॥ नाहमस्मि न चान्योऽस्ति मा भवन्तु भवन्तु वा । सुखान्यसक्त इत्यन्तः कथ्यते मुक्तिभाङ्नरः ॥ ५ ॥ नाभिनन्दति नैष्कर्म्यं न कर्मस्वनुषज्जते । सुसमो यः फलत्यागी सोऽसंसक्त इति स्मृतः ॥ ६ ॥ आत्मतत्त्वैकनिष्ठस्य हर्षामर्षवशं मनः । यस्य नायात्यसक्तोऽसौ जीवन्मुक्तः स कथ्यते ॥ ७ ॥ सर्वकर्मफलादीनां मनसैव न कर्मणा । निपुणं यः परित्यागी सोऽसंसक्त इति स्मृतः ॥ ८ ॥ असंसङ्गेन सकलाश्चेष्टा नाना विजृम्भिताः । चिकित्सिता भवन्तीह श्रेयः संपादयन्ति च ॥ ९ ॥ संसक्तिवशतः सर्वे वितता दुःखराशयः । प्रयान्ति शतशाखत्वं श्वभ्रकण्टकवृक्षवत् ॥ १० ॥ रज्जुकृष्टघनघ्राणो यद्गत्या पथि गर्दभः । भारं वहति भीतात्मा तत्संसक्तिविजृम्भितम् ॥ ११ ॥ शीतवातातपक्लेशमेकदेशनिषण्णया । तरुर्वहति यत्तन्वा तत्संसक्तिविजृम्भितम् ॥ १२ ॥ धराविवरनिर्मग्नो यत्कीटः पीडिताङ्गकः । क्षिणोति विकलः कालं तत्संसक्तिविजृम्भितम् ॥ १३ ॥ क्षुत्क्षामकुक्षिः क्षपयत्यायुर्व्याघातभीरुधीः । पक्षी वृक्षशिखाशायी तत्संसक्तिविजृम्भितम् ॥ १४ ॥ दूर्वाङ्कुरतृणाहारः किरातशरपीडया । जहाति यन्मृगो देहं तत्संसक्तिविजृम्भितम् ॥ १५ ॥ कृमिकीटत्वमायान्ति जायमानाः पुनःपुनः । यदिमा जनता जीर्णास्तत्संसक्तिविजृम्भितम् ॥ १६ ॥ उत्पत्त्योत्पत्त्य लीयन्ते तरङ्गिणि तरङ्गवत् । भूतानि यदनन्तानि तत्संसक्तिविजृम्भितम् ॥ १७ ॥ वीरुत्तृणदशां याता म्रियन्ते यत्पुनःपुनः । नरा विगतसंचारास्तत्संसक्तिविजृम्भितम् ॥ १८ ॥ रसातलरसायोगात्तृणगुल्मलतादयः । जनयन्ति यदाकारं तत्संसक्तिविजृम्भितम् ॥ १९ ॥ स्वानर्थान्तरसंकाशपदार्थशतसंकुला । यत्संसारनदी मत्ता तत्संसक्तिविजृम्भितम् ॥ २० ॥ संसक्तिर्द्विविधा प्रोक्ता वन्द्या वन्ध्या च राघव । वन्ध्या सर्वत्र मूढानां वन्द्या तत्त्वविदां निजा ॥ २१ ॥ आत्मतत्त्वावबोधेन हीना देहादिवस्तुजा । भूयः संसारसक्तिर्या दृढा वन्ध्येति कथ्यते ॥ २२ ॥ आत्मतत्त्वावबोधेन सत्यभूतविवेकजा । वन्द्या हि कथ्यते सक्तिर्भूयः संसारवर्जिता ॥ २३ ॥ शङ्खचक्रगदाहस्तो देवो विविधयेहया । वन्द्यसंसक्तिवशतः परिपाति जगत्त्रयम् ॥ २४ ॥ अनारतनिरालम्बं व्योम वर्त्मनि पान्थताम् । वन्द्यसंसक्तिवशतः करोति रविरन्वहम् ॥ २५ ॥ महाकल्पसमाधानचिरकल्पितकल्पनम् । वन्द्यसंसक्तिवशतो ब्राह्मं स्फुरति वै वपुः ॥ २६ ॥

हिन्दी अर्थ

विद्वानों का यह निश्चित मत है कि चूँकि देह में अहंभावना करने से ही आत्मा देह के दुःखों से दुःखित है, इसलिए देह भावना का परित्याग करने से ही पुरुष मुक्त हो जाता है