Yoga Vasistha — Upashama Prakarana (Dissolution), Sarga 67, Verses 24–214
This page presents the Yoga Vasistha (Yogvashistha), Upashama Prakarana (Dissolution), Sarga 67, verses 24–214 — the original Sanskrit shloka(s) with their Hindi meaning.
उपशम प्रकरण · सर्ग 67 · श्लोक 24
संस्कृत श्लोक
असत्प्रायो हि संबन्धो यथा सलिलकाष्ठयोः ।
तथैव मिथ्यासंबन्धः शरीरपरमात्मनोः ॥ २४ ॥
अन्तःसङ्गं विना नाम्बु काष्ठपातैः प्रगृह्यते ।
आत्माऽङ्गसङ्गरहितो देहदुःखैर्न दह्यते ॥ २५ ॥
देहभावनयैवात्मा देहदुःखवशे स्थितः ।
तत्त्यागेन ततो मुक्तो भवतीति विदुर्बुधाः ॥ २६ ॥
अन्तःसङ्गविहीनत्वाद्दुःखवन्त्यङ्ग नो यथा ।
पत्राम्बुमलदारूणि श्लिष्टान्यपि परस्परम् ॥ २७ ॥
अन्तःसङ्गेन रहिता यान्ति निर्दुःखतां पराम् ।
श्लिष्टान्यपि तथैवात्मदेहेन्द्रियमनांस्यलम् ॥ २८ ॥
अन्तःसङ्गो हि संसारे सर्वेषां राम देहिनाम् ।
जरामरणमोहानां तरूणां बीजकारणम् ॥ २९ ॥
अन्तःसंसङ्गवाञ्जन्तुर्मग्नः संसारसागरे ।
अन्तःसंसक्तिमुक्तस्तु तीर्णः संसारसागरात् ॥ ३० ॥
अन्तःसंसङ्गवच्चित्तं शतशाखमिवोच्यते ।
अन्तःसंसङ्गरहितं विलीनं चित्तमुच्यते ॥ ३१ ॥
भग्नस्फटिकवद्विद्धि मनः सक्तमपावनम् ।
अभग्नस्फटिकाभासमसक्तं विद्धि मे मनः ॥ ३२ ॥
असक्तं निर्मलं चित्तं मुक्तं संसार्यपि स्फुटम् ।
सक्तं तु दीर्घतपसा युक्तमप्यतिबन्धवत् ॥ ३३ ॥
अन्तःसक्तं मनो बद्धं मुक्तं सक्तिविवर्जितम् ।
अन्तःसंसक्तिरेवैकं कारणं बन्धमोक्षयोः ॥ ३४ ॥
अन्तःसंसक्तिमुक्तस्य कुर्वतोऽपि न कर्तृता ।
गुणदोषवती तोये दारुवाहननौर्यथा ॥ ३५ ॥
अन्तःसंसक्तितो जन्तोरकर्तुरपि कर्तृता ।
सुखदुःखवति स्वप्ने संभ्रमोन्मुखता यथा ॥ ३६ ॥
चित्ते कर्तरि कर्तृत्वमदेहस्यापि विद्यते ।
स्वप्नादाविव विक्षुब्धसुखदुःखदृशोपमम् ॥ ३७ ॥
अकर्तरि मनस्यन्तरकर्तृत्वं स्फुटं भवेत् ।
शून्यचित्तो हि पुरुषः कुर्वन्नपि न चेतति ॥ ३८ ॥
चेतसा कृतमाप्नोषि चेतसा न कृतं तु न ।
न क्वचित्कारणे देहो न च चित्तेन कर्तृता ॥ ३९ ॥
असंसक्तमकर्तेव कुर्वदेव मनो विदुः ।
न कर्मफलभोक्तृत्वमसक्तं प्रतिपद्यते ॥ ४० ॥
ब्रह्महत्याश्वमेधाभ्यामसंसक्तो न लिप्यते ।
दूरस्थकान्तासंलीनमनाः कार्यैरिवाग्रगैः ॥ ४१ ॥
अन्तःसंसक्तिनिर्मुक्तो जीवो मधुरवृत्तिमान् ।
बहिःकुर्वन्नकुर्वन्वा कर्ता भोक्ता न हि क्वचित् ॥ ४२ ॥
अन्तःसंसक्तिमुक्तं यन्मनः स्यात्तदकर्तृकम् ।
तद्विमुक्तं प्रशान्तं तत्तद्युक्तं तदलेपकम् ॥ ४३ ॥
तस्मात्सर्वपदार्थानां श्लिष्टानां निश्चितं बहिः ।
सर्वदुःखकरीं क्रूरामन्तःसक्तिं विवर्जयेत् ॥ ४४ ॥
विरहितमलमन्तःसङ्गदोषेण चेतः शममुपगतमाद्यं व्योमवन्निर्मलाभम् ।
सकलमलविमुक्तेनात्मनैकत्वमेति स्थिरमणिनिभमम्भोवारिणी वारिनीले ॥ ४५ ॥
हिन्दी अर्थ
जैसे जल और काठ का
परस्पर सम्बन्ध असत्-प्राय (मिथ्यारूप ही) हे वैसे ही शरीर और परमात्मा का सम्बन्ध भी मिथ्या ही
है