Yoga Vasistha — Upashama Prakarana (Dissolution), Sarga 27, Verses 1–10
This page presents the Yoga Vasistha (Yogvashistha), Upashama Prakarana (Dissolution), Sarga 27, verses 1–10 — the original Sanskrit shloka(s) with their Hindi meaning.
उपशम प्रकरण · सर्ग 27 · श्लोक 1-10
संस्कृत श्लोक
श्रीवसिष्ठ उवाच ।
सुरासुरसभाज्येष्ठे तस्मिन्भृगुसुते गते ।
मनसा चिन्तयामास बलिर्बुद्धिमतां वरः ॥ १ ॥
युक्तमुक्तं भगवता चिदेवेदं जगत्त्रयम् ।
चिदहं चिदिमे लोकाश्चिदाशाश्चिदियं क्रिया ॥ २ ॥
सबाह्याभ्यन्तरं सर्वं चिदेव परमार्थतः ।
अस्ति चिद्व्यतिरेकेण नेह किंचन कुत्रचित् ॥ ३ ॥
अयमादित्य इत्यर्को न चिता यदि चेत्यते ।
तदर्कतमसोर्भेदः क इहेवोपलभ्यते ॥ ४ ॥
इयं भूरिति भूरेषा चिता यदि न चेत्यते ।
भूमेः किं नाम भूमित्वं तद्भव्ये भव्यतां गतम् ॥ ५ ॥
इमा दिशो दिश इति चेत्यन्ते न चिता यदि ।
तत्किं नाम दिशां दिक्त्वं शैलानां चापि काद्रिता ॥ ६ ॥
इदं जगज्जगदिति चिता यदि न चेत्यते ।
तत्किं जगत्त्वं जगतो नभस्त्वं नभसोऽथ किम् ॥ ७ ॥
कायोऽयं पर्वताकारश्चिता यदि न चेत्यते ।
तत्किं नाम शरीरत्वं शरीरस्य शरीरिणाम् ॥ ८ ॥
चिदिन्द्रियाणि चित्कायश्चिन्मनश्चित्तदेषणा ।
चिदन्तश्चिद्बहिश्चित्खं चिद्भावाश्चिद्भवस्थितिः ॥ ९ ॥
चितैवैनमहं सर्वं स्पर्शनैषणपूर्वकम् ।
करोमि मात्रासंस्पर्शं शरीरेण न किंचन ॥ १० ॥
हिन्दी अर्थ
शरीर से कुछ नहीं करता, क्योकि अचेतन शरीर भोक्ता नहीं हो सकता