Yoga Vasistha — Sthiti Prakarana (Existence), Sarga 57, Verses 6–29
This page presents the Yoga Vasistha (Yogvashistha), Sthiti Prakarana (Existence), Sarga 57, verses 6–29 — the original Sanskrit shloka(s) with their Hindi meaning.
स्थिति प्रकरण · सर्ग 57 · श्लोक 6,7
संस्कृत श्लोक
इदं सत्तदिदं वाऽसदयं सोऽहमिदं नतु ।
अयमेको द्वितीयोऽयमित्यादिकलनामयम् ॥ ६ ॥
एकस्मिन्विद्यतेऽध्वान्ते नीहार इव भास्करे ।
इदं प्रथममेवाच्छे कथमात्मनि संस्थितम् ॥ ७ ॥
श्रीवसिष्ठ उवाच ।
सिद्धान्तकाल एवास्य संप्रश्नस्योत्तरं स्थिरम् ।
कथयिष्यामि ते राम येन ज्ञास्यसि तत्त्वतः ॥ ८ ॥
मोक्षोपायस्य सिद्धान्तमसंप्राप्य न राघव ।
श्रोतुं प्रश्नोत्तराण्येतान्यलं योग्यो भविष्यसि ॥ ९ ॥
कान्तागीतगिरां राम तरुणो भाजनं यथा ।
प्रश्नानामुत्तमोक्तीनां पुण्यकृद्भाजनं तथा ॥ १० ॥
वृथा भवति बालेषु यथा रागमयी कथा ।
निरर्थकाल्पबोधेषु तथोदारोदया कथा ॥ ११ ॥
कस्मिंश्चिदेव समये किंचित्पुंसो विराजते ।
फलमाभाति वृक्षस्य शरद्येव न माधवे ॥ १२ ॥
उपदेशगिरो वृद्धे रञ्जना निर्मले पटे ।
लगन्त्युदारविज्ञानकथा चाधिगतात्मनि ॥ १३ ॥
प्रश्नस्यास्योत्तरं पूर्वं लेशतः कथितं मया ।
न विस्तरेण तेनैतन्न ज्ञातं भवता स्फुटम् ॥ १४ ॥
यदि त्वमात्मनात्मानमधिगच्छसि तं स्वयम् ।
एतत्प्रश्नोत्तरं साधु जानास्यत्र न संशयः ॥ १५ ॥
मया सिद्धान्तकाले तु प्राप्तबोधे त्वयि स्थिते ।
वक्तव्यो विस्तरेणैव साधो प्रश्नोत्तरक्रमः ॥ १६ ॥
जानात्यात्मानमात्मैव कृत आत्मात्मनैव हि ।
आत्मैव संप्रसन्नः सन्नात्मानं प्रतिपद्यते ॥ १७ ॥
तदेतत्कथितं राम कर्त्रकर्तृविचारणम् ।
अज्ञातत्वात्तु तामेतामक्षीणवासनो भवेत् ॥ १८ ॥
बद्धो हि वासनाबद्धो मोक्षः स्याद्वासनाक्षयः ।
वासनास्त्वं परित्यज्य मोक्षार्थित्वमपि त्यज ॥ १९ ॥
तामसीर्वासनाः पूर्वं त्यक्त्वा विषयवासिताः ।
मैत्र्यादिभावनानाम्नीं गृहाणामलवासनाम् ॥ २० ॥
तामप्यन्तः परित्यज्य ताभिर्व्यवहरन्नपि ।
अन्तःशान्तसमस्तेहो भव चिन्मात्रवासनः ॥ २१ ॥
तामप्यथ परित्यज्य मनोबुद्धिसमन्विताम् ।
शेषे स्थिरसमाधानो येन त्यजसि तत्त्यज ॥ २२ ॥
चिन्मयः कलनाकालप्रकाशतिमिरादिकम् ।
वासनां वासितारं च प्राणस्पन्दनपूर्वकम् ॥ २३ ॥
समूलमपि संत्यक्त्वा व्योमसौम्यप्रशान्तधीः ।
यस्त्वं भवसि सद्बुद्धे स भवानस्तु सत्कृतः ॥ २४ ॥
हृदयात्संपरित्यज्य सर्वमेव महामतिः ।
यस्तिष्ठति गतव्यग्रः स मुक्तः परमेश्वरः ॥ २५ ॥
समाधिमथ कर्माणि मा करोतु करोतु वा ।
हृदयेनास्तसर्वास्थो मुक्त एवोत्तमाशयः ॥ २६ ॥
नैष्कर्म्येण न तस्यार्थो न तस्यार्थोऽस्ति कर्मभिः ।
न समाधानजप्याभ्यां यस्य निर्वासनं मनः ॥ २७ ॥
विचारितमलं शास्त्रं चिरमुद्ग्राहितं मिथः ।
संत्यक्तवासनान्मौनादृते नास्त्युत्तमं पदम् ॥ २८ ॥
दृष्टं द्रष्टव्यमखिलं भ्रान्त्वा भ्रान्त्वा दिशो दश ।
जनाः कतिपया एव यथावस्त्ववलोकिनः ॥ २९ ॥
हिन्दी अर्थ
प्रश्न में उपयोगी होने के कारण पूर्वस्य में कही गई जगत की सत्ता ओर असत्तारूप दृष्टि के पक्ष
का तथा व्यष्टि की अहन्ता के परित्याग से समष्टि में अहंभाव के पक्ष का अनुवाद करके श्रीरामचन््रजी
पूछते हैं :
आपके कथनानुसार यह जगत सत् है या असत् है, यह प्रसिद्ध समष्टि ही मैं हूँ या एकमात्र व्यष्टि
देह मैं नहीं हूँ, यह प्रपंच समष्टि दृष्टि से एक है या व्यष्टि दृष्टि से अनेक, इत्यादि अनियत बहुत
कल्पनाओं से भरा हुआ विरोध अद्वितीय, स्वप्रकाश होने के कारण ही मोहान्धकारशून्य, निर्मल आत्मा
में सूर्य में हिम के समान कैसे इस समय विद्यमान है ? यदि कहिये, पहले मायाशबल ब्रह्मा के अन्दर यह
विद्यमान था, वही इस समय अभिव्यक्त हुआ है, तो उस पर प्रश्न होता है कि वह पहले भी कैसे था,
क्योंकि उस समय भी उक्तविरोध समान ही हे