Yoga Vasistha — Utpatti Prakarana (Creation), Sarga 90, Verses 6–8
This page presents the Yoga Vasistha (Yogvashistha), Utpatti Prakarana (Creation), Sarga 90, verses 6–8 — the original Sanskrit shloka(s) with their Hindi meaning.
उत्पत्ति प्रकरण · सर्ग 90 · श्लोक 6-8
संस्कृत श्लोक
ततस्तौ राजभरतौ प्रत्यूचतुरिदं वचः ।
सुदुर्मती युवां याभ्यां क्षपितं दुश्चरं तपः ॥ ६ ॥
अनेन शापदानेन किंचिद्भवति नावयोः ।
देहे नष्टे न नौ किंचिन्नश्यति स्वान्तरूपयोः ॥ ७ ॥
स्वान्तं हि नहि केनापि शक्यते नाशितुं क्वचित् ।
सूक्ष्मत्वाच्चिन्मयत्वाच्च दुर्लक्ष्यत्वाच्च विद्धि नौ ॥ ८ ॥
हिन्दी अर्थ
हे