Guru's AddaGuru's Adda

Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 175, Verses 23–79

This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 175, verses 23–79 — the original Sanskrit shloka(s) with their Hindi meaning.

निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 175 · श्लोक 23-30

संस्कृत श्लोक

विचार्यदृष्ट्यैतदपि न किंचिदपि विद्यते । केवलं भाति चिन्मात्रमात्मनात्मनि निर्घनम् ॥ २३ ॥ यतो वाचो निवर्तन्ते तूष्णींभावोऽवशिष्यते । व्यवहार्यपि खात्मैव तद्वत्तिष्ठति मूकवत् ॥ २४ ॥ अनन्तापारपर्यन्ता चिन्मात्रपरमेष्टका । तूष्णीं भूत्वा भवत्येष प्रबुद्धः पुरुषोत्तमः ॥ २५ ॥ अबुद्धिपूर्वं द्रवतो यथावर्तादयोऽम्भसि । क्रियन्ते ब्रह्मणा तद्वच्चित्तबुद्ध्यादयो जडाः ॥ २६ ॥ अबुद्धिपूर्वं वातेन क्रियते स्पन्दनं यथा । अनन्यदेवं बुद्ध्यादि क्रियते परमात्मना ॥ २७ ॥ अनन्यदात्मनो वायोर्यथा स्पन्दनमव्ययम् । अनन्यदात्मनस्तद्वच्चिन्मात्रं परमात्मनः ॥ २८ ॥ चिद्व्योम ब्रह्मचिन्मात्रमात्मा चिति महानिति । परमात्मेति पर्याया ज्ञेया ज्ञानवतां वर ॥ २९ ॥ ब्रह्मोन्मेषनिमेषात्म स्पन्दास्पन्दात्म वातवत् । निमेषो यादृगेवास्य समुन्मेषस्तथा जगत् ॥ ३० ॥ दृश्यमस्य समुन्मेषो दृश्याभावो निमेषणम् । एकमेतन्निराकारं तद्द्वयोरप्युपक्षयात् ॥ ३१ ॥ निमेषोन्मेषयोरेकरूपमेव परं मतम् । अतोऽस्ति दृश्यं नास्तीति सदसच्च सदा चितिः ॥ ३२ ॥ निमेषो नान्य उन्मेषान्नोन्मेषोऽपि निमेषतः । ब्रह्मणः सर्गवपुषो निमेषोन्मेषरूपिणः ॥ ३३ ॥ तद्यथास्थितमेवेदं विद्धि शान्तमशेषतः । अजातमजरं व्योम सौम्यं समसमं जगत् ॥ ३४ ॥ चिदचित्यात्मकं व्योम रूपं कचकचायते । चिन्नाम तदिदं भाति जगदित्येव तद्वपुः ॥ ३५ ॥ न नश्यति न चोत्पन्नं दृश्यं नाप्यनुभूयते । स्वयं चमत्करोत्यन्तः केवलं केवलैव चित् ॥ ३६ ॥ महाचिद्व्योममणिभा दृश्यनाम्नी निजाकरात् । अनन्यान्येव भातापि भानुभास इवोष्णता ॥ ३७ ॥ सुषुप्तं स्वप्नवद्भाति भाति ब्रह्मैव सर्गवत् । सर्वमेकं शिवं शान्तं नानेवापि स्थितं स्फुरत् ॥ ३८ ॥ यद्यत्संवेद्यते यादृक्सद्वाऽसद्वा यथा यदा । तथानुभूयते तादृक्तत्सदस्त्वसदस्तु वा ॥ ३९ ॥ अन्यथानुपपत्त्या चेत्कारणं परिकल्प्यते । तत्स्वप्नाभो जगद्भावादन्यथा नोपपद्यते ॥ ४० ॥ प्रमातीतात्पराद्विश्वमनन्यदुदितं यतः । प्रमातीतमिदं चैव किंचिन्नाभ्युदितं ततः ॥ ४१ ॥ यस्य यद्रसिकं चित्तं तत्तथा तस्य गच्छति । ब्रह्मैकरसिकं तेन मनस्तत्तां समश्नुते ॥ ४२ ॥ यच्चित्तो यद्गतप्राणो जनो भवति सर्वदा । तत्तेन वस्त्विति ज्ञातं जानाति तदसौ स्फुटम् ॥ ४३ ॥ ब्रह्मैकरसिकं यत्स्यान्मनस्तत्तद्भवेत्क्षणात् । यस्य यद्रसिकं चेतो बुद्धं तेन तदेव सत् ॥ ४४ ॥ विश्रान्तं यस्य वै चित्तं जन्तोस्तत्परमार्थसत् । व्यवहृत्यै करोत्यन्यत्सदाचारादतद्रसम् ॥ ४५ ॥ द्वित्वैकत्वादिकलना नेह काचन विद्यते । सत्तामात्रं च दृगियमितश्चेदलमीक्ष्यते ॥ ४६ ॥ अदृश्यदृश्यसदसन्मूर्तामूर्तदृशामिह । नैवास्ति न च नास्त्येव कर्ता भोक्ताऽथवा क्वचित् ॥ ४७ ॥ इदमित्थमनाद्यन्तं जगत्पर्यायमात्मनि । ब्रह्मैकघनमाशान्तं स्थितं स्थाणुरिवाध्वनि ॥ ४८ ॥ यदेव ब्रह्म बुद्ध्यादि तदेवैतन्निरञ्जनम् । यदेव गगनं शान्तं शून्यं विद्धि तदेव तत् ॥ ४९ ॥ केशोण्ड्रकादयो व्योम्नि यथा सदसदात्मकाः । द्वितामिवागता भान्ति परे बुद्ध्यादयस्तथा ॥ ५० ॥ तथा बुद्ध्यादि देहादि वेदनादि परापरे । अनेकान्यप्यनन्यानि शून्यत्वानि यथाम्बरे ॥ ५१ ॥ सुषुप्ताद्विशतः स्वप्नमेकनिद्रात्मनो यथा । सर्गस्थस्यापि न द्वित्वं नैकत्वं ब्रह्मणस्तथा ॥ ५२ ॥ एवमेव कचत्यच्छा छायेयं स्वा महाचितेः । न च किंचन नामाङ्ग कचत्यच्छैवमास्थिता ॥ ५३ ॥ चिद्व्योम्नि हि चिदाकाशमेव स्वममलं वपुः । चेत्यं दृश्यमिवाभाति स्वप्नेष्विव यथास्थितम् ॥ ५४ ॥ अन्यथानुपपत्त्यार्थकारणाभावतः स्वतः । चिद्व्योमात्मानमेवादौ दृश्यमित्येव पश्यति ॥ ५५ ॥ सर्गादावेव खात्मैव दृश्यं भाति निराकृति । संभ्रमः स्वप्नसंकल्पमिथ्याज्ञानेष्विवाभितः ॥ ५६ ॥ स्वप्नवत्तच्च निर्धर्म मनागपि न भिद्यते । विकार्यपि सधर्मापि चिद्व्योम्नो वस्तुनो मलात् ॥ ५७ ॥ तत्स्वप्ननगराकारं सधर्माप्यसधर्मकम् । शिवादनन्यमेवेत्थं स्थितमेव निरन्तरम् ॥ ५८ ॥ दृश्यं स्वप्नाद्रिवत्स्वच्छं मनागपि न भिद्यते । तस्माच्चिद्व्योमचिद्व्योम्नः शून्यत्वं गगनादिव ॥ ५९ ॥ यदेव तत्परं ब्रह्म सर्वरूपविवर्जितम् । तदेवेदं तथाभूतमेव सर्गतया स्थितम् ॥ ६० ॥ स्वप्नेऽनुभूयते चैतत्स्वप्ने ह्यात्मैव भासते । पुरादित्वेन न तु सत्पुरादिरचितं तदा ॥ ६१ ॥ स्वप्ने च प्रत्यभिज्ञायाः संस्कारस्य स्मृतेस्तथा । न सत्ता तदिदं दृष्टमित्यर्थस्यात्यसंभवात् ॥ ६२ ॥ तस्मादेतत्त्रयं त्यक्त्वा यद्भानं ब्रह्मसंविदः । तस्य दृष्टार्थसादृश्यान्मूढैः स्मृत्यादितोहिता ॥ ६३ ॥ यथा यत्रैव लहरी वारिण्येति पुनः पुनः । तत्रैवैति तथा तद्वदनन्या खे परे जगत् ॥ ६४ ॥ तस्मात्सद्ब्रह्म सर्वात्म किमिवात्र न विद्यते । सैव सत्तैव सर्वात्म चैतदप्येतदात्मकम् ॥ ६५ ॥ भ्रान्तस्य भ्रमणं भूमेर्न भूर्भ्रान्तैव वा गणैः । न शाम्यति ज्ञातुरपि तथाभ्यासं विनात्र दृक् ॥ ६७ ॥ शास्त्रस्यास्य तु यन्नाम वादनं तद्विनापरः । अभ्यासो दृश्यसंशान्त्यै न भूतो न भविष्यति ॥ ६८ ॥ न जीवन्न मृतं चित्तं रोधमायाति संसृतेः । अविनाभाविदेहत्वाद्वोधात्त्वेतन्न पश्यति ॥ ६९ ॥ सर्वदैवाविनाभावि चित्तं दृश्यशरीरयोः । इह चामुत्र चैतस्य बोधान्ते शाम्यतः स्वयम् ॥ ७० ॥ चित्तदृश्यशरीराणि त्रीणि शाम्यन्ति बोधतः । पवनस्पन्दसैन्यानि कारणाभावतो यथा ॥ ७१ ॥ कारणं मौर्ख्यमेवास्य तच्चास्मादेव शास्त्रतः । किंचित्संस्कृतबुद्धीनां वाचितादेव शाम्यति ॥ ७२ ॥ अबुद्धमुत्तरग्रन्थात्पूर्वं पूर्वं हि बुध्यते । ग्रन्थं पदपदार्थज्ञः खेदवान्न निवर्तते ॥ ७३ ॥ उपायमिदमेवातो विद्धि शास्त्रं भ्रमक्षये । अनन्यसाधारणतां गतमित्यनुभूयते ॥ ७४ ॥ तस्मादस्मान्महाशास्त्राद्यथाशक्ति विचारयेत् । भागौ द्वौ भागमेकं वा तेन दुःखक्षयो भवेत् ॥ ७५ ॥ आरुषेयमिदमिति प्रमादाच्चेन्न रोचते । तदन्यदात्मविज्ञानशास्त्रं किंचिद्विचारयेत् ॥ ७६ ॥ अनर्थेनाविचारेण वयः कुर्यान्न भस्मसात् । बोधेन ज्ञानसारेण दृश्यं कर्तव्यमात्मसात् ॥ ७७ ॥ आयुषः क्षण एकोऽपि सर्वरत्नैर्न लभ्यते । नीयते तद्वृथा येन प्रमादः सुमहानहो ॥ ७८ ॥ अनुभूतमपि च नो सदृश्यमिदं द्रष्टृसहितमपि । स्वप्ननिजमरणबान्धवरोदनमिव सदिव कचितमपि ॥ ७९ ॥

हिन्दी अर्थ

मोक्षोपाय नामक इस ग्रन्थ का निरन्तर पारायण कर रहे पुरुष को विशुद्ध अध्यात्मशास्त्रजनित ज्ञानरूप उपाय से वह परमपद प्राप्त होता है अन्य किसी उपाय से प्राप्त नहीं होता, क्योकि “ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये” इत्यादि श्रुतिर्य हे । वह न तीर्थ सेवन से प्राप्त होता है, न दान से, न स्नान से, न विद्या से (ब्रह्मविद्या से अतिरिक्त विद्या से), न ध्यान से, न योग से, न तपरयाओं से ओर न यज्ञयागों से ही प्राप्त होता है । भ्रान्तिमात्र अनिर्वचनीय यह विश्व सत्‌ की तरह प्रतीत होता है । निद्रारहित चिदाकाश में स्वप्नरूप यह जगदाकार आकाश (शून्य) ही हे । भ्रान्ति की तप, तीर्थ आदि से कदापि निवृत्ति नहीं हो सकती, तपस्या, तीर्थ आदि से विविध स्वर्ग प्राप्त होते हैँ किन्तु मुक्ति नहीं मिलती है । भ्रान्ति की निवृत्ति उत्तम (शुद्ध) बुद्धि से विचारित आत्मज्ञानमय मोक्षउपायभूत इस शास्त्र से ही होती हे, अन्य उपाय से नहीं होती हे । जैसे रात्रि की आत्यन्तिक निवृत्ति सूर्योदय से ही हो सकती है, वैसे ही सम्पूर्ण भ्रान्ति की आत्यन्तिक निवृत्ति ज्ञानप्रकाश उत्पन्न करनेवाले निर्मल इस शास्त्रार्थ से ही हो सकती है । वायु में स्पन्दन की तरह, जल में द्रवत्व की तरह चिदाकाश में सृष्टि, प्रलय और स्थिति के स्फुरण का भान होता हे । जैसे वटबीज आदि द्रव्य के अन्दर सदा अपनी रमणीय वदवृक्षाकार धारणचमत्कृति स्थित है जैसे वायु के अन्दर अपनी मनोहर स्पन्दचमत्कृति स्थित है वैसे ही मायाशबल चिदाकाश के अन्दर यथास्थित यह जगत्‌ की सृष्टि ओर उसकी स्थिति भी अनन्यरूपवाली है ओर उसीमें यह लय को प्राप्त होगी