Guru's AddaGuru's Adda

Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 145, Verses 52–77

This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 145, verses 52–77 — the original Sanskrit shloka(s) with their Hindi meaning.

निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 145 · श्लोक 52,53

संस्कृत श्लोक

बीजोदरस्थाङ्कुरवद्द्रव्यपिण्डोदराणुवत् । अश्रान्तस्तम्बकोशस्थदारुपुत्रकदेहवत् ॥ ५२ ॥ सौषिर्यासंभवात्प्राणपवनस्पन्दवर्जितः । प्रोन्नमत्पर्शुपूरेण शिलापूरेण तर्जितः ॥ ५३ ॥ तदा निविडतेजोन्तरेवानुभवति स्वयम् । सुषुप्तं शैलकोशाभमन्धकूपोदरोपमम् ॥ ५४ ॥ यदा परिणतं यत्नं पुनः सौषिर्यमागतम् । पुनर्वेत्ति तदा जीवः स्वप्नं प्राणावबोधितः ॥ ५५ ॥ यदा तस्मिन्प्रदेशेऽन्तर्भागभागान्पतन्ति ते । देहे परिणमन्तोऽन्तस्तदेवात्यद्रिवर्षणम् ॥ ५६ ॥ बह्वेव वह्निबहुना स्वल्पेनाल्पं प्रपश्यति । वातपित्तादियोगेन बहिरन्तश्च संभ्रमम् ॥ ५७ ॥ पश्यत्येतद्यथैवान्तरेष जीवो वशीकृतः । वातपित्तादिवलितो बहिर्वेत्त्येवमेति वा ॥ ५८ ॥ क्षुब्धैरन्तर्बहिश्चैव स्वल्पैः स्वल्पं प्रपश्यति । समैः सममिदं दृश्यं वातपित्तकफादिना ॥ ५९ ॥ बहिः पश्यत्ययं जीवः कुपितैरेभिरावृतः । स्पन्दं भूम्यद्रिनभसां ज्वलनं वानलोच्चयैः ॥ ६० ॥ आकाशगमनं चैव चन्द्रोदयहिमाचलान् । गहनं वृक्षशैलानां नभःप्लवनमर्णसाम् ॥ ६१ ॥ मज्जनोन्मज्जनं वाब्धौ सुरतं सुरसद्मसु । शैलोपवनशुभ्राभ्रपीठविश्रमणोच्चयम् ॥ ६२ ॥ बृहत्क्रकचनिष्पेषं नरकानुभवभ्रमम् । तालीतमालहिंतालमालावलनमम्बरे ॥ ६३ ॥ चक्रवृत्तैश्च पतनं झगित्युत्पतनं दिवि । शून्येऽपि जनतावृन्दं स्थलेऽप्यब्धिनिमज्जनम् ॥ ६४ ॥ विचित्रं विपरीतं च व्यवहारं महानिशि । अह्नीव भास्करालोकं दुर्भेद्यं चाह्नि वा तमः ॥ ६५ ॥ साद्रिभूतलमाकाशे कुड्यबन्धे घने स्थलम् । कुड्यबन्धांश्च गगने मित्रभावं च विद्विषि ॥ ६६ ॥ स्वजने परताबुद्धिं सुजनत्वं च दुर्जने । सुसमस्थलतां श्वभ्रे श्वभ्रत्वं सुसमे स्थले ॥ ६७ ॥ उद्गीतालापमसृणान्सुधाधौतान्सुचित्रितान् । अद्रीञ्छ्वेतमयान्वापि नवनीतमयान्श्च वा ॥ ६८ ॥ कदम्बनीपजम्बीरपत्रस्तबकसद्मसु । सुखविश्रमणं स्त्रीभिः नाकं पद्मेष्विवालिनः ॥ ६९ ॥ अन्तर्निमीलिता ह्येताः पश्यन्त्युन्मीलिता बहिः । धातूनामिति वैषम्याद्भ्रान्तिमिन्द्रियवृत्तयः ॥ ७० ॥ एवंविधान्यनेकानि पश्यन्त्यनुभवन्ति च । बहिरेव यथा स्वप्ने वस्तुन्यसमधातवः ॥ ७१ ॥ बहिश्चान्तश्च दृश्यन्ते विपरीतान्यनेकशः । कार्याण्यतिकरालानि जीवैरसमधातुभिः ॥ ७२ ॥ समेषु धातुष्वेषोऽन्तर्जीवोऽनुभवति स्वयम् । तेजोन्तर्गत एवेमां व्यवहारस्थितिं समाम् ॥ ७३ ॥ यथास्थितां पुरग्रामपत्तनारण्यसंततिम् । सौम्यवारितरुच्छायादेशाध्वगगमागमम् ॥ ७४ ॥ सुखातपमयेन्द्वर्कताराहोरात्रमण्डितम् । एवमेतदसद्भूतं सद्भूतमिव भासते ॥ ७५ ॥ दृश्योपलम्भं चित्तत्त्वे स्पन्दनं पवने यथा । असदेव सदाभासमभिन्नं भिन्नवत्स्थितम् ॥ ७६ ॥ शान्तादुदेति सकलं जगदम्बरात्म शान्तं न किंचन न नाम सदित्युदेति । तद्व्योमनीदृशमनन्तचितेः शरीरे भामात्रमाततमनन्तवपुर्विभाति ॥ ७७ ॥

हिन्दी अर्थ

जैसे प्राणी के ओज में स्थित मैंने स्वप्न में सारी पृथिवी को डूबो रहे जलके संक्षोभ से प्रलयभ्रानतिर्यो देखी, भला बतलाओ तो वहाँपर कोई कारण तुम देखते हो अथवा श्रुति प्रमाण से कोई कारण सुनते हो, या अन्य प्रमाण से किसी कारण का अनुभव करते हो ? ब्रह्म और प्रपंच के अभेद का प्रतिपादन करनेवाली युक्तियाँ सकल वस्तुओं के विषय में बुद्धिमानों को अपने आप वैसे ही सदा स्फुरित होती है, जैसे कि स्फटिक मणियाँ अथवा सीपियाँ प्रकाश रहनेपर अपनी चमचमाहट से स्वयं ही स्फुरित होती हैं, इसलिए सब निर्णयो मे शास्त्रअनुसारिणी युक्तियों का भावनाअनुभव ही सब तत्त्वों के निर्णय मेँ शक्तिमान्‌ ओर सब प्रमाणो को जीवन प्रदान करनेवाला है, अतः सर्वोत्कृष्ट हे