Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 137, Verses 33–61
This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 137, verses 33–61 — the original Sanskrit shloka(s) with their Hindi meaning.
निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 137 · श्लोक 33
संस्कृत श्लोक
अनिद्र एव किं स्वप्नं पश्यामीति मया ततः ।
परिचिन्तयता ज्ञातमिदं व्याध विबोधिना ॥ ३३ ॥
ननु नामास्य चिद्धातोः स्वरूपमिदमैश्वरम् ।
स्वं यद्व्यपदिशत्येष जगन्नाम्नाम्बरात्मकम् ॥ ३४ ॥
चिद्धातुर्यत्र यत्रास्ते तत्र तत्र निजं वपुः ।
पश्यत्येष जगद्रूपं व्योमतामेव चात्यजत् ॥ ३५ ॥
अहो त्वद्येदमाज्ञातं यदित्थं दृश्यते जगत् ।
तत्कथ्यते स्वप्न इति स्वचित्कचनमात्रकम् ॥ ३६ ॥
चिद्धातोर्यत्स्वकचनं तत्किंचित्स्वप्न उच्यते ।
किंचिच्च जाग्रदित्युक्तं जाग्रत्स्वप्नौ तु न द्विधा ॥ ३७ ॥
स्वप्नः स्वप्नो जागरायामेष स्वप्ने तु जागरा ।
स्वप्नस्तु जागरैवेति जागरैव स्थिता द्विधा ॥ ३८ ॥
चेतनं नाम पुरुषः स मृतेषु शतेष्वपि ।
शरीरेषु महाबुद्धे कथं कस्य कदा मृतः ॥ ३९ ॥
तच्चेतनं खमेवास्ति स्थितं तद्देहवत्कचत् ।
अनन्तमविभागात्म प्रतिघाप्रतिघात्मकम् ॥ ४० ॥
स्वभावस्याप्रतिघस्य नित्यानन्तोदितात्मनः ।
परमाणोश्चिदाख्यस्य मज्जा जगदिति स्मृतः ॥ ४१ ॥
चिद्व्योम्न उदरे भान्ति समस्तानुभवाणवः ।
तथा यथावयविनो विचित्रावयवाणवः ॥ ४२ ॥
निवृत्तो बाह्यतो जीवो जीवाधारे हृदि स्थितः ।
रूपं स्वं स्वप्नसर्गोऽयमिति वेत्ति चिदाकचान् ॥ ४३ ॥
बाह्योन्मुखं बहिर्जाग्रच्छब्दितं कचितं स्वकम् ।
रूपं पश्यति जीवोऽयमन्तस्थं स्वप्न इत्यपि ॥ ४४ ॥
द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।
प्रसृतो जीव इत्यन्तर्बहिश्चैकात्मकः स्थितः ॥ ४५ ॥
अर्कोऽर्कबिम्बसंस्थोऽपि यथेहापि स्थितस्त्विषा ।
तथा जीवो जगद्रूपो बहिरन्तश्च संस्थितः ॥ ४६ ॥
अन्तःस्वप्नो बहिर्जाग्रदहमेवेति वेत्ति चेत् ।
चिदात्मको यथाभूतं मुच्यते तदवासनः ॥ ४७ ॥
अच्छेद्योऽयमदाह्योऽयमपि जीवोऽन्यथा वदन् ।
द्वैतसंकल्पयक्षेण मुह्यत्येव शिशुर्यथा ॥ ४८ ॥
अन्तर्मुखोऽन्तरात्मानं बहिः पश्यन्बहिर्मुखः ।
आस्ते जीवो जगद्रूपं यत्स्वन्ते स्वप्नजाग्रती ॥ ४९ ॥
इति चिन्तयतः किं स्यात्सुषुप्तमिति मे मतिः ।
जाता तेन सुषुप्तांशमन्वेष्टुमहमुद्यतः ॥ ५० ॥
यावत्किं दृश्यदृष्ट्यान्तस्तूष्णीं तिष्ठाम्यहं चिरम् ।
निश्चित्त इति संवित्तिः शमा नान्यत्सुषुप्तकम् ॥ ५१ ॥
नखकेशादि देहेऽस्मिन्विदिताविदितं यथा ।
न जडं च जडं चैव सुषुप्तं चेतनात्मनि ॥ ५२ ॥
संवित्त्या किं श्रमार्तोऽस्मि शान्तमासेवि मानसम् ।
इत्येकपरिणामत्वान्नान्यदस्ति सुषुप्तकम् ॥ ५३ ॥
एतन्निद्राघनं जाग्रत्यपि संभवति स्वतः ।
न किंचिच्चिन्तयाम्यासे शान्त इत्येकरूपकम् ॥ ५४ ॥
एषावस्था यदा याति घनता मुच्यते तदा ।
निद्राशब्देन तन्वी तु स्वशब्देन कथ्यते ॥ ५५ ॥
सुषुप्तमिति निश्चित्य तुरीयान्वेषणामहम् ।
प्रवृत्तः कर्तुमुद्युक्तो युक्तः परमया धिया ॥ ५६ ॥
यावद्रूपं तुरीयस्य किंचनापि न लभ्यते ।
सम्यग्बोधादृते शुद्धात्प्रकाशस्तमसो यथा ॥ ५७ ॥
यथास्थितमिदं विश्वं सम्यग्बोधाद्विलीयते ।
यथास्थितं च भवति न च किंचिद्विलीयते ॥ ५८ ॥
अतः स्वप्नो जागरा च सुषुप्तं च तुरीयके ।
सयथास्थितमस्तीदं नूनं नास्ति च किंचन ॥ ५९ ॥
कारणाज्जगदुत्पन्नं न ब्रह्मेत्थमवस्थितम् ।
जगत्तया शान्तमजं बोध इत्येव तुर्यता ॥ ६० ॥
असंभवात्संभवकारणानां न जायते किंचन नाम सर्गः ।
चिच्चेतनेनैव हि सर्गसंवित् स्वयं गृहीता द्रवताम्बुनेव ॥ ६१ ॥
हिन्दी अर्थ
देखो न इस संसार की असारता ! आयु वायु से टकराए हुए मेघमण्डल में लटक रहे जल के समान
क्षण में नष्ट होनेवाली हे, भोग मेघराशि के मध्य में कौध रही बिजली के समान चंचल हे । योवनविलास
जलके वेग के सदुश चंचल है । शरीर क्षणभंगुर है हे पुत्र, इसलिए पारलौकिक अनर्थरूप संसारवश
त्रास को प्राप्त होकर अभयदान, अहिंसा आदि उपायों से आत्यन्तिक अनर्थनिवृत्ति से युक्त नित्य
निरतिशय आनन्दरूप ब्रह्म की गुरु तथा शासत्ररूप उपाय द्वारा खोज करो