Guru's AddaGuru's Adda

Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 125, Verses 24–74

This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 125, verses 24–74 — the original Sanskrit shloka(s) with their Hindi meaning.

निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 125 · श्लोक 24

संस्कृत श्लोक

प्रसङ्गरूपान्तरतो न प्रबुद्धा विपश्चितः । विपश्चितो महाबाहो प्रबुद्धा निपुणं न ते ॥ २४ ॥ बोधाबोधदृशोर्मध्ये ते हि दोलायिताः स्थिताः । मोक्षचिह्नानि दृश्यन्ते बन्धचिह्नानि चाभितः ॥ २५ ॥ नित्यधर्मप्रबुद्धानां तथाभूततया तया । विपश्चितो धारणया योगिनो न परं गताः ॥ २६ ॥ धारणायोगिनस्ते हि धारणाप्राप्तसिद्धयः । ये परं बोधमायाता येष्वविद्या न विद्यते ॥ २७ ॥ किमविद्यामवेक्षन्ते ते तामरसलोचन । धारणायोगिनो ह्येते वरेण प्राप्तसिद्धयः ॥ २८ ॥ अविद्या विद्यते तेषां तेन तेऽतद्विचारिणः । अन्यच्च श्रृणु हे राम जीवन्मुक्तशरीरिणाम् ॥ २९ ॥ भवेद्व्यवहृतावेव पदार्थान्तरवेदनम् । मोक्षोऽपि चेतसो धर्मश्चेतस्येव स तिष्ठति ॥ ३० ॥ न देहे देहधर्मस्तु न देहाद्विनिवर्तते । न कदाचन निर्मुक्तं चेतो भूयो निबध्यते ॥ ३१ ॥ यत्नेनापि पुनर्बद्धं केन वृन्तच्युतं फलम् । देहस्तु देहधर्मेण जीवन्मुक्तिमतामपि ॥ ३२ ॥ गृह्यते तद्गतं तेषां चेतस्त्वचलमेव तत् । मोक्षो हि न परज्ञेयो धारणादिप्रयोगवत् ॥ ३३ ॥ आत्मसंवेद्य एवासौ मध्वाद्यास्वादसौख्यवत् । सुखदुःखैर्युतोयोऽसौ स्वयं बन्धानुभूतिमान् ॥ ३४ ॥ तन्मुक्तौ मुक्त इत्युक्तः स्वानुभूतिप्रदस्त्वसौ । अन्तःशीतलचित्तो हि मुक्त इत्यभिधीयते ॥ ३५ ॥ बन्धः संतप्तचित्तेति देहादेस्तन्न दृश्यते । शरीरे कणशः कृत्ते राज्ये वा विनियोजिते ॥ ३६ ॥ रुदतो हसतश्चैव जीवन्मुक्तमतेरिह । न दुःखं न सुखं किंचिदन्तर्भवति तत्स्थितम् ॥ ३७ ॥ गृह्णतोऽप्यनुभूतिस्तु तत्रैवैषास्ति नापरे । दृश्यन्ते पण्डिता भग्ना रूपान्तरमुपागताः ॥ ३८ ॥ देहादिजीवन्मुक्तानां स्वभावान्न कदाचन । मृतोऽपि नैव म्रियते रुदन्नपि न रोदिति ॥ ३९ ॥ विहसन्न हसत्येव जीवन्मुक्तो महोदयः । वीतरागाः सरागाभा अकोपाः कोपसंयुताः ॥ ४० ॥ अलं दूरगतास्तेषामङ्कुरा नभसो यथा । जगदात्मा च नास्त्येव यस्यैकं सर्वमस्ति च ॥ ४२ ॥ सुखदुःखादि तस्येति वाग्व्योमविटपोपमा । अशोका एव शोचन्ते जीवन्मुक्ता जयान्विताः ॥ ४३ ॥ अच्छिन्ना एकतद्भावा दृश्यन्ते तत्त्वदर्शिनः । शिरः कमलजस्योच्चैः सामगायनतत्परम् ॥ ४४ ॥ हरो नखेन चिच्छेद सुकुमारमिवाम्बुजम् । शक्तोऽपि न पुनर्ब्रह्मा जनयामास तच्छिरः ॥ ४५ ॥ व्योमैकतास्य चिद्व्योम्नो मुधा मूर्ध्नेतरेण किम् । नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ॥ ४६ ॥ यद्यथा नाम संपन्नं तत्तथास्त्वितरेण किम् । हरो हरिणशावाक्षीमक्षीणशरतोऽश्रु च । धत्ते वपुषि दुग्धाब्धिर्गुप्तामृतकलामिव ॥ ४७ ॥ शक्तोऽपि रागितामेष न त्यजत्युत्तमाशयः । पञ्चेषुदाहसमये दृष्टा नीरागतागुणाः ॥ ४८ ॥ नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ ४९ ॥ रागितैषास्तु मा वास्य किमरागितयान्यया । यद्यथा नाम संपन्नं तत्तथास्त्वितरेण किम् ॥ ५० ॥ करोति कारयत्युच्चैर्म्रियते मार्यतेऽपि च । जायते वर्धतेऽजस्रं जीवन्मुक्तो जनार्दनः ॥ ५१ ॥ न चाजवं जवीभावं त्यक्तुं शक्तोऽप्यसौ न तम् । तेन त्यक्तेन नैवार्थस्तस्य नैवाश्रितेन च ॥ ५२ ॥ तद्यथास्थितमेवास्तु इह इत्यस्तवासनम् । हरिर्निरिच्छ एवास्ते शुद्धचिन्मात्ररूपभृत् ॥ ५३ ॥ आत्मानमान्दोलयति कालकन्दुकतां गतम् । अजस्रं नित्यमादित्यो जगद्गृहनभोङ्गणे ॥ ५४ ॥ न च रोधयितुं देहं न समर्थो दिनेश्वरः । निरिच्छ एव निर्वाणस्तथाप्यास्ते यथास्थितम् ॥ ५५ ॥ चन्द्रोऽनुभवति व्यर्थमाकल्पं क्षयमक्षयम् । जीवन्मुक्ततया खिन्नो यथास्थितमवस्थितः ॥ ५६ ॥ मरुत्तहव्यगौरीशवीर्यग्रासादिखेदिताम् । जीवन्मुक्तो वहत्यग्निर्यथा स्थित्या समस्थितिः ॥ ५७ ॥ बह्वीभिर्विजिगीषाभिः कृपणाविव तिष्ठतः । जीवन्मुक्तावपि गुरू लोके शुक्रबृहस्पती ॥ ५८ ॥ करोति जनको राज्यं जीवन्मुक्तमना मुनिः । जगत्यामाजिषूग्रासु देहं जर्जरतां नयन् ॥ ५९ ॥ नलमान्धातृसगरदिलीपनहुषादयः । जीवन्मुक्ताश्चिरं राज्यं चक्रुराकुलिता इव ॥ ६० ॥ व्यवहारे यथैवाज्ञस्तथैव खलु पण्डितः । वासनावासने एव कारणं बन्धमोक्षयोः ॥ ६१ ॥ बलिप्रह्लादनमुचिवृत्रान्धकमुरादयः । जीवन्मुक्ताः स्थितिं चक्रुर्वीतरागाः सरागवत् ॥ ६२ ॥ तस्मादसत्त्वे सत्त्वे च रागद्वेषक्षयोदये । न मनागपि भेदोऽस्ति ज्ञखं प्रति स्वरूपिणि ॥ ६३ ॥ ज्ञानेनाकाशशुद्धेन धर्मान्ये गगनोपमान् । विन्दन्ति जीवन्मुक्तानां तेषां भेदमतिः कुतः ॥ ६४ ॥ भास्वरं शक्रकोदण्डं यथा नानेव शून्यकम् । आभासमात्रमेवायं तथा दृश्यात्मको भ्रमः ॥ ६५ ॥ शक्रचापे यथा भान्ति नानावर्णा नभोङ्गणे । तथा शून्यात्मका एव ब्रह्माण्डपरमाणवः ॥ ६६ ॥ इदं जगदसद्भाति सदिव व्यक्तिमागतम् । अजातमनिरुद्धं च यथा शून्यत्वमम्बरे ॥ ६७ ॥ साद्यन्तमप्यनाद्यन्तमशून्यमपि शून्यकम् । जगज्जातं तथाऽजातमरुद्धं रुद्धमेव च ॥ ६८ ॥ जातं निरुद्धमस्त्येवं ब्रह्म व्योमैव भासते । यथा दारुमयः स्तम्भस्तथा तच्छालभञ्जिका ॥ ६९ ॥ समस्तकलनोन्मुक्तं समं निर्निद्रमासनम् । यदेकान्तचिदाकाशं तद्विद्यात्तन्मयं जगत् ॥ ७० ॥ देशाद्देशान्तरप्राप्तौ यन्मध्ये संविदो वपुः । अनुन्मेषं चिदाकाशं तद्विद्यात्तन्मयं जगत् ॥ ७१ ॥ तत्र यद्द्वैतमैक्यं तन्मन्ये तदपि नैव च । तद्व्योम केवलं भाति मन्ये तदपि नैव वा ॥ ७२ ॥ जगदाकाशमेवेदमात्मैवात्मनि वा स्थितम् । भविष्यत्पुरवद्दृष्टमपि स्फारमपि स्फुटम् ॥ ७३ ॥ आकाशकोशविशदाशय दृश्यजातं मौनात्म तिष्ठति शिलाघनमेव शान्तम् । यन्नाम तस्य जगदित्यभिधां विधाय स्वात्मैव मोहित इवायमहो नु माया ॥ ७४ ॥

हिन्दी अर्थ

जिस वस्तु का अवलम्बन कर उसने विद्याधरता प्राप्त की, उसे कहते हैं। सुरत में होनेवाले परिश्रम से श्रान्त भगवान्‌ शिवजी की अत्यधिक शोभा से चंचल अंगों के-क्रम से उत्पन्न हुए-स्वेदविन्दुओं से संमिश्रित तथा इलायची की लताओं के आलिंगनों से सुगन्धित तटवन की वायु का अवलम्बन कर उक्त विपश्चित्‌ ने विद्याधरता सम्पादित की