Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 125, Verses 24–74
This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 125, verses 24–74 — the original Sanskrit shloka(s) with their Hindi meaning.
निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 125 · श्लोक 24
संस्कृत श्लोक
प्रसङ्गरूपान्तरतो न प्रबुद्धा विपश्चितः ।
विपश्चितो महाबाहो प्रबुद्धा निपुणं न ते ॥ २४ ॥
बोधाबोधदृशोर्मध्ये ते हि दोलायिताः स्थिताः ।
मोक्षचिह्नानि दृश्यन्ते बन्धचिह्नानि चाभितः ॥ २५ ॥
नित्यधर्मप्रबुद्धानां तथाभूततया तया ।
विपश्चितो धारणया योगिनो न परं गताः ॥ २६ ॥
धारणायोगिनस्ते हि धारणाप्राप्तसिद्धयः ।
ये परं बोधमायाता येष्वविद्या न विद्यते ॥ २७ ॥
किमविद्यामवेक्षन्ते ते तामरसलोचन ।
धारणायोगिनो ह्येते वरेण प्राप्तसिद्धयः ॥ २८ ॥
अविद्या विद्यते तेषां तेन तेऽतद्विचारिणः ।
अन्यच्च श्रृणु हे राम जीवन्मुक्तशरीरिणाम् ॥ २९ ॥
भवेद्व्यवहृतावेव पदार्थान्तरवेदनम् ।
मोक्षोऽपि चेतसो धर्मश्चेतस्येव स तिष्ठति ॥ ३० ॥
न देहे देहधर्मस्तु न देहाद्विनिवर्तते ।
न कदाचन निर्मुक्तं चेतो भूयो निबध्यते ॥ ३१ ॥
यत्नेनापि पुनर्बद्धं केन वृन्तच्युतं फलम् ।
देहस्तु देहधर्मेण जीवन्मुक्तिमतामपि ॥ ३२ ॥
गृह्यते तद्गतं तेषां चेतस्त्वचलमेव तत् ।
मोक्षो हि न परज्ञेयो धारणादिप्रयोगवत् ॥ ३३ ॥
आत्मसंवेद्य एवासौ मध्वाद्यास्वादसौख्यवत् ।
सुखदुःखैर्युतोयोऽसौ स्वयं बन्धानुभूतिमान् ॥ ३४ ॥
तन्मुक्तौ मुक्त इत्युक्तः स्वानुभूतिप्रदस्त्वसौ ।
अन्तःशीतलचित्तो हि मुक्त इत्यभिधीयते ॥ ३५ ॥
बन्धः संतप्तचित्तेति देहादेस्तन्न दृश्यते ।
शरीरे कणशः कृत्ते राज्ये वा विनियोजिते ॥ ३६ ॥
रुदतो हसतश्चैव जीवन्मुक्तमतेरिह ।
न दुःखं न सुखं किंचिदन्तर्भवति तत्स्थितम् ॥ ३७ ॥
गृह्णतोऽप्यनुभूतिस्तु तत्रैवैषास्ति नापरे ।
दृश्यन्ते पण्डिता भग्ना रूपान्तरमुपागताः ॥ ३८ ॥
देहादिजीवन्मुक्तानां स्वभावान्न कदाचन ।
मृतोऽपि नैव म्रियते रुदन्नपि न रोदिति ॥ ३९ ॥
विहसन्न हसत्येव जीवन्मुक्तो महोदयः ।
वीतरागाः सरागाभा अकोपाः कोपसंयुताः ॥ ४० ॥
अलं दूरगतास्तेषामङ्कुरा नभसो यथा ।
जगदात्मा च नास्त्येव यस्यैकं सर्वमस्ति च ॥ ४२ ॥
सुखदुःखादि तस्येति वाग्व्योमविटपोपमा ।
अशोका एव शोचन्ते जीवन्मुक्ता जयान्विताः ॥ ४३ ॥
अच्छिन्ना एकतद्भावा दृश्यन्ते तत्त्वदर्शिनः ।
शिरः कमलजस्योच्चैः सामगायनतत्परम् ॥ ४४ ॥
हरो नखेन चिच्छेद सुकुमारमिवाम्बुजम् ।
शक्तोऽपि न पुनर्ब्रह्मा जनयामास तच्छिरः ॥ ४५ ॥
व्योमैकतास्य चिद्व्योम्नो मुधा मूर्ध्नेतरेण किम् ।
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ॥ ४६ ॥
यद्यथा नाम संपन्नं तत्तथास्त्वितरेण किम् ।
हरो हरिणशावाक्षीमक्षीणशरतोऽश्रु च ।
धत्ते वपुषि दुग्धाब्धिर्गुप्तामृतकलामिव ॥ ४७ ॥
शक्तोऽपि रागितामेष न त्यजत्युत्तमाशयः ।
पञ्चेषुदाहसमये दृष्टा नीरागतागुणाः ॥ ४८ ॥
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ ४९ ॥
रागितैषास्तु मा वास्य किमरागितयान्यया ।
यद्यथा नाम संपन्नं तत्तथास्त्वितरेण किम् ॥ ५० ॥
करोति कारयत्युच्चैर्म्रियते मार्यतेऽपि च ।
जायते वर्धतेऽजस्रं जीवन्मुक्तो जनार्दनः ॥ ५१ ॥
न चाजवं जवीभावं त्यक्तुं शक्तोऽप्यसौ न तम् ।
तेन त्यक्तेन नैवार्थस्तस्य नैवाश्रितेन च ॥ ५२ ॥
तद्यथास्थितमेवास्तु इह इत्यस्तवासनम् ।
हरिर्निरिच्छ एवास्ते शुद्धचिन्मात्ररूपभृत् ॥ ५३ ॥
आत्मानमान्दोलयति कालकन्दुकतां गतम् ।
अजस्रं नित्यमादित्यो जगद्गृहनभोङ्गणे ॥ ५४ ॥
न च रोधयितुं देहं न समर्थो दिनेश्वरः ।
निरिच्छ एव निर्वाणस्तथाप्यास्ते यथास्थितम् ॥ ५५ ॥
चन्द्रोऽनुभवति व्यर्थमाकल्पं क्षयमक्षयम् ।
जीवन्मुक्ततया खिन्नो यथास्थितमवस्थितः ॥ ५६ ॥
मरुत्तहव्यगौरीशवीर्यग्रासादिखेदिताम् ।
जीवन्मुक्तो वहत्यग्निर्यथा स्थित्या समस्थितिः ॥ ५७ ॥
बह्वीभिर्विजिगीषाभिः कृपणाविव तिष्ठतः ।
जीवन्मुक्तावपि गुरू लोके शुक्रबृहस्पती ॥ ५८ ॥
करोति जनको राज्यं जीवन्मुक्तमना मुनिः ।
जगत्यामाजिषूग्रासु देहं जर्जरतां नयन् ॥ ५९ ॥
नलमान्धातृसगरदिलीपनहुषादयः ।
जीवन्मुक्ताश्चिरं राज्यं चक्रुराकुलिता इव ॥ ६० ॥
व्यवहारे यथैवाज्ञस्तथैव खलु पण्डितः ।
वासनावासने एव कारणं बन्धमोक्षयोः ॥ ६१ ॥
बलिप्रह्लादनमुचिवृत्रान्धकमुरादयः ।
जीवन्मुक्ताः स्थितिं चक्रुर्वीतरागाः सरागवत् ॥ ६२ ॥
तस्मादसत्त्वे सत्त्वे च रागद्वेषक्षयोदये ।
न मनागपि भेदोऽस्ति ज्ञखं प्रति स्वरूपिणि ॥ ६३ ॥
ज्ञानेनाकाशशुद्धेन धर्मान्ये गगनोपमान् ।
विन्दन्ति जीवन्मुक्तानां तेषां भेदमतिः कुतः ॥ ६४ ॥
भास्वरं शक्रकोदण्डं यथा नानेव शून्यकम् ।
आभासमात्रमेवायं तथा दृश्यात्मको भ्रमः ॥ ६५ ॥
शक्रचापे यथा भान्ति नानावर्णा नभोङ्गणे ।
तथा शून्यात्मका एव ब्रह्माण्डपरमाणवः ॥ ६६ ॥
इदं जगदसद्भाति सदिव व्यक्तिमागतम् ।
अजातमनिरुद्धं च यथा शून्यत्वमम्बरे ॥ ६७ ॥
साद्यन्तमप्यनाद्यन्तमशून्यमपि शून्यकम् ।
जगज्जातं तथाऽजातमरुद्धं रुद्धमेव च ॥ ६८ ॥
जातं निरुद्धमस्त्येवं ब्रह्म व्योमैव भासते ।
यथा दारुमयः स्तम्भस्तथा तच्छालभञ्जिका ॥ ६९ ॥
समस्तकलनोन्मुक्तं समं निर्निद्रमासनम् ।
यदेकान्तचिदाकाशं तद्विद्यात्तन्मयं जगत् ॥ ७० ॥
देशाद्देशान्तरप्राप्तौ यन्मध्ये संविदो वपुः ।
अनुन्मेषं चिदाकाशं तद्विद्यात्तन्मयं जगत् ॥ ७१ ॥
तत्र यद्द्वैतमैक्यं तन्मन्ये तदपि नैव च ।
तद्व्योम केवलं भाति मन्ये तदपि नैव वा ॥ ७२ ॥
जगदाकाशमेवेदमात्मैवात्मनि वा स्थितम् ।
भविष्यत्पुरवद्दृष्टमपि स्फारमपि स्फुटम् ॥ ७३ ॥
आकाशकोशविशदाशय दृश्यजातं मौनात्म तिष्ठति शिलाघनमेव शान्तम् ।
यन्नाम तस्य जगदित्यभिधां विधाय स्वात्मैव मोहित इवायमहो नु माया ॥ ७४ ॥
हिन्दी अर्थ
जिस वस्तु का अवलम्बन कर उसने विद्याधरता प्राप्त की, उसे कहते हैं।
सुरत में होनेवाले परिश्रम से श्रान्त भगवान् शिवजी की अत्यधिक शोभा से चंचल अंगों के-क्रम से
उत्पन्न हुए-स्वेदविन्दुओं से संमिश्रित तथा इलायची की लताओं के आलिंगनों से सुगन्धित तटवन
की वायु का अवलम्बन कर उक्त विपश्चित् ने विद्याधरता सम्पादित की